कैलाससभासु नृत्तवर्णनम् ४
(चित्सभाधीश्वर नटेश शिवस्तवः ४)
श्रीस्कन्दः-
उत्तरे चित्सभायान्तु नृत्यत्यम्बा विलोकयन् ।
गणेन्द्रैस्सेवितपदो महादेवो महेश्वरः ॥ ५५॥
- -
ह्रीर्मूर्त्या शिवया विराण्मयमयं हृत्पङ्कजस्थं सदा
ह्रीणानां शिवकीर्तने हितकरं हेलह्रदां मानिनाम् ।
ह्रीबेरादिसुगन्धवस्त्ररुचिरं हेमाद्रिवाणासनं
ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ ५६॥
श्रीमद्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिं
श्रीवाणीविनुताङ्घ्रिपङ्कजयुगं श्रीवल्लभेनार्चितम् ।
श्रीविद्यामनुमोदनं शृतजनश्रीदायकं श्रीधरं
श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ ५७॥
नव्याम्भोजमुखं नमज्जनविधिं नारायणेनार्चितं
नागौकोनगरीनदीविलसितं नागाजिनालङ्कृतम् ।
नानारूपकनर्तनादिचतुरं नालीकजान्वेष्टितं
नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे ॥ ५८॥
मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं
मारारातिमतीव मञ्जुवपुषं मन्दारगौरप्रभम् ।
मायातीतमशेषमङ्गलनिधिं सद्भावनाभावितं
मध्येव्योमसभागुहास्थमखिलं मान्यं नटेशं भजे ॥ ५९॥
शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं
शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् ।
शिक्षारक्षणमम्बुजासनशिरोसंहारशीलं प्रभुं
शीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे ॥ ६०॥
वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणि
वाताशाधिपभूषणं वरकृपावारान्निधिं योगिनाम् ।
वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं
वामाङ्गात्तवराङ्गनं मम हृदावासं नटेशं भजे ॥ ६१॥
यक्षाधीशसखं यमप्रमथनं यामिन्यधीशाननं
यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियाधीश्वरम् ।
याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं
यानीभूतवृषं यतीन्द्रविनुतं याज्यं नटेशं भजे ॥ ६२॥
मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान्
श्लोकान्त्सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् ।
तेषां भाग्यमनेकमायुरधिकं विद्यावरान् सत्सुतान्
सर्वाभीष्टमसौ ददाति सहसा श्रीचित्सभाधीश्वरः ॥ ६३॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् ४ - चित्सभाधीश्वर नटेश शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ५५-६३॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 55-63..
Notes:
Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Citsabhā चित्सभा / Jñānasabhā ज्ञानसभा - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Northern quarter.
Encoded and proofread by Ruma Dewan