कैलाससभावर्णनम् १
-। कैलाससभावर्णनम् १ शिवरहस्यान्तर्गतम् ।-
स्कन्दः-
तस्यान्तरे शिवेनैव मनसा परिनिर्मिताः ।
विंशत्सहस्रमानेन आयामोछ्रायतस्तदा ॥ १॥
प्राग्दक्षिणे प्रतीच्यां वै चोत्तरे शूलपाणिना ।
मणिप्रभाधिकज्योतिकैलासनगमौलिगाः ॥ २॥
कलधौतनगोद्दामशिखरे तिलकायिताः ।
पुमर्था इव राजन्त्यश्चतुर्वेदशिखोपमाः ॥ ३॥
रङ्गस्थानं महेशस्य शम्भोस्सन्ध्यानटस्य च ।
शातकुम्भमहाकुम्भसहस्रेणोपशोभिताः ॥ ४॥
निष्टप्तहेमकॢप्तास्ते महामेरुगुहोपमाः ।
तत्तत्कुम्भमहास्तम्भसहस्रपरिशोभिताः ॥ ५॥
सुबद्धमणिसोपाना वेदिकापट्टिकोज्वलाः ।
मरालराजवल्युत्थमुक्ताभक्षितचञ्चुकाः ॥ ६॥
- -
नानारुद्रावतारादिदेव्याच नटनं तदा ।
शम्भोर्गणेन्द्रतिलकैर्वृतचित्रविचित्रिताः ॥ २२॥
- -
गणहस्तमहातालझल्लरीनादहुङ्कृताः ।
रत्नमड्डुजहुङ्कारगर्भितान्तरसुन्दराः ॥ ३३॥
काहलापारगम्भीरनादापूरितदिङ्मुखाः ।
नटज्झणझणारावशिञ्जन्मञ्जीरनिस्वनाः ॥ ३४॥
गोमुखानकजोद्दामगणवक्त्राब्जकारवाः ।
शङ्खावलीकृतापारधूत्काररवगर्जिताः ॥ ३५॥
चतुर्वेदशिखोद्दामब्रह्मवक्त्रकृतस्तुतिः ।
वामदेवमहासामरथन्तररवाकुलाः ॥ ३६॥
राथन्तरोत्थफूत्कारभाङ्कृताखिलदिक्तटाः ।
राजद्राजनहिङ्कारवैराजवरभूषिताः ॥ ३७॥
अष्टावक्त्रोदितात्यच्छचाष्टदंष्ट्रारवाकुलाः ।
महागणेशशुण्डाग्रलग्नकुञ्जोत्थनादिताः ॥ ३८॥
षडाननकृतोद्दामकाहलारवसुन्दराः ।
नन्दिभृङ्गिकृतानेकतलघातोरुमद्दलैः ॥ ३९॥
धिक्तान्धिक्तनितिरवैरशेषमतियारकैः ।
(धिक्तान्धिक्तनितिरवैरशैवमतिरावकैः) ।
तण्डुडिण्डिमनादोत्थरवसुन्दरदिङ्मुखाः ॥ ४०॥
वाणीपाणिमहावीणा शिवनामालिमूर्च्छनाः ।
तन्त्रीयन्त्रितगान्धर्वगीतनादैकसुन्दराः ॥ ४१॥
नारदादिमुनिश्रेष्ठस्तुवदुद्दाम(तुम्बुरूद्दाम)गायनाः ।
हाहाहूहूकृतानेकमुरक्षर(भरताक्षर)तशिक्षिताः ॥ ४२॥
यक्षशिक्षाकलालापरङ्गतुङ्गतरङ्गिकाः ।
रागरागिणिकाकॢप्तरम्यत्रिस्थायिमूर्छनाः ॥ ४३॥
तालमद्दलजोद्दामतान्धिगित्युत्तमध्वनिः ।
वर्हिपिञ्छामसुभगस्फाटिकोत्तमभित्तिकाः ॥ ४४॥
मणिनिस्साणनारावप्रबुद्धवरकोकिलाः ।
कोकिलाकाकलीरम्यध्वनिध्वननरञ्जिताः ॥ ४५॥
रत्नपञ्जरमध्यस्थशुकशारिकजारवाः ।
मृदङ्गघनघोषेण शिखण्डीकृतताण्डवाः ॥ ४६॥
गायद्गन्धर्वनिकरमुखवीक्षणकृन्मृगाः ।
रत्नधारगजासारपुष्करोद्दामबृह्मिताः ॥ ४७॥
गायद्गन्धर्वनिकरमुखवीक्षणकृन्मृगाः ।
रत्नधारगजासारपुष्करोद्दामबृह्मिताः ॥ ४७॥
पुण्ड्रेक्षुबद्धसुभगस्तम्भरम्भावृतास्सभाः ।
मणिवल्लीतोरणादिलम्बितान्दोलिताःपुनः ॥ ४८॥
मन्दमारुतसञ्चारवितानचलितालकाः ।
शातकुम्भमहाकुम्भपूरितामृतधारिकाः ॥ ४९॥
सुपल्लवमुखापारराजद्भृङ्गारसुन्दराः ।
पूगापारमहासाराश्शम्भोस्तत्रमहासभाः ॥ ५०॥
- -
कॢप्तास्तत्र शिवेनैव मनसा मननेन हि ।
शातकुम्भमयी तत्र सभा प्राच्यां दिशि स्थिता ॥ ५१॥
महारत्नसभा शम्भोर्दक्षिणे च प्रकल्पिता ।
राजती रजताद्रौ तु शम्भोः पश्चात्सभा तदा ॥ ५२॥
चित्सभाचोत्तरेशम्भोःकलधौताचलेस्थिता ।
एवञ्चतुर्दिक्ष्वपितास्सन्नाहानन्दितास्सभाः ॥ ५३॥
तत्सभावर्णनं देवैर्ब्रह्मविष्णुमहेश्वरैः ।
मूर्तिमद्भिस्तथा साङ्गैर्वेदनिश्वास ईश्वरः ॥ ५४॥
ऋग्वेदस्तु तथाप्राच्यामेकविंशतिशाखकैः ।
स्तौति तस्यां सभायान्तुदेवदेवं महेश्वरम् ॥ ५५॥
यजुर्वेदस्तथा रत्नसभायां शतशाखकः ।
स्तौति देवं विरूपाक्षं बद्धाञ्जलिपुटो मुदा ॥ ५६॥
कलधौतसभायान्तु सहस्रवरशाखकः ।
स्तौति तत्र महादेवं सामवेदोऽथ सामभिः ॥ ५७॥
चित्सभायां तथाथर्ववेदोविंशत्स्वशाखकैः ।
स्तौति देवं शिरोभिस्स्वैरथर्वैरीशतुष्टिदैः ॥ ५८॥
स्कन्दः -
सभासु च दिवस्पतिप्रकटभानुशीतांशुषु ।
स्फुरत्विषि शिखिद्युतिप्रथितरत्नगर्भोद्भव-
प्रकाशकलितास्पदे नटति नृत्तपारङ्गतः ॥ ५९॥
सभापतिरतीन्द्रियः प्रमथनाथसङ्घैर्वृतो-
ऽप्यनन्तमहिमारसश्रुतिशिखाच्छपालीगतः ।
सुरेन्द्रमकुटीतटीविघटिताच्छरत्नछविः
प्रसन्ननखसन्ततिर्विधिहरीन्द्रदेवैस्स्तुतः ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभावर्णनम् १ - सभावर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३२ - सभावर्णनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 32 - sabhAvarNanam . vAvRRittashlokAH ..
Notes:
Skanda स्कन्द describes the ornate Sabhā सभा (Assembly) at Kailāsa कैलास lorded by Śiva शिव (who is thus, the Sabhāpati सभापति); where musical instruments are being played, compositions are being rendered and dances - including the Tāṇḍava ताण्डव - are being conducted by attendees including, Ṣaḍānana षडानन, Mahāgaṇeśa महागणेश, Nandi नन्दि, Bhṛṅgi भृङ्गि, Gaṇāḥ गणाः Nārada नारद, Gandharva गन्धर्व (Hāhā हाहा, Hūhū हूहू), Brahmā ब्रह्मा, Vīṇā वीणा (Sarasvatī सरस्वती), Yakṣa यक्ष, Rāga-Rāgiṇi राग-रागिणि et al. The four Veda-s चतुर्वेदाः eulogize Śiva शिव from their stations in the respective constituent sabhā-s सभासु (assemblies) in the four cardinal directions चत्तुर्दिक्ष (viz. Ṛgveda ऋग्वेद in Śātakumbha(hema/kanaka)sabhā शातकुम्भ(हेम/कनक)सभा in the East, Yajurveda यजुर्वेद in Mahāratnasabhā महारत्नसभा in the South, Sāmaveda सामवेद in Rajatasabhā रजतसभा in the West, and Atharvaveda अथर्ववेद in Citsabhā चित्सभा in the North).
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan