कैलाससभावर्णनम् २
(सभायां शिवसुदर्शनम् २)
-। कैलाससभावर्णनम् २ शिवरहस्यान्तर्गतम् ।-
श्रीस्कन्दः -
सनातनसनन्देन सानन्देन महेश्वरः ।
पार्वतीहृदयानन्दो देवो यत्र च तास्सभाः ॥ १॥
सदसस्पतिरीशानो गणवृन्दनिषेवितः ।
मया द्विरदवक्त्रेण नन्दिभृङ्गिरिटीश्वरैः ॥ २॥
तण्डुहुण्डतुहुण्डाद्यैर्बाणरावणचण्डिकैः ।
देव्यास्तदग्रे नटनं साटोपं कर्तुमुद्यतः ॥ ३॥
सभासु तासु सर्वासु सभापतिरुमापतिः ।
सायं सायं प्रदोषेषु महाताण्डवपण्डितः ॥ ४॥
अपस्मारोपरिलसत्पादपङ्कजभासुरः ।
गजेन्द्रकृत्तिवसनो जटाचूडतटिद्द्युतिः ॥ ५॥
जटाकुहर गर्भस्थगङ्गातुङ्गतरङ्गधृक् ।
तत्रैवोत्फुल्लकह्लारमित्राच्छादितमस्तकः ॥ ६॥
गरनीलमहाकण्ठः कुण्डलीश्वरकुण्डलः ।
सोमधामसमानास्यश्चाम्पेयरदनासिकः ॥ ७॥
नयनत्रितयोत्फुल्लपङ्कजोत्फुल्लमुन्दरः ।
त्रिपुण्ड्ररेखासद्भालो भस्माच्छादितविग्रहः ॥ ८॥
वामेन पाणिनालम्बिनखरक्ताग्रालक्तकः ।
धगद्धगितरत्नाच्छपदकालम्बिमालिकः ॥ ९॥
महाहीरमणिव्रातमुक्तारुद्राक्षमालिकः ।
काकोदरफणारत्नमालाकीलितकन्धरः ॥ १०॥
रत्नग्रैवेयललितः कङ्कणासक्तसत्करः ।
क्वणत्किङ्किणिकाजालक्षुद्रघण्टालिकाञ्चिकः ॥ ११॥
पाणिनान्येन डमरुं तथान्येनोज्वलप्रभम् ।
सप्तजिह्वकृतोर्ध्वाङ्ग शिखाकाशितसत्करः ॥ १२॥
भक्ताभयकरं साक्षाद्रत्नोर्मिकवराङ्गलिः ।
कटीतटपटोद्भासि पुण्डरीकाजिनोज्वलः ॥ १३॥
तत्पुच्छगुच्छसुभगलम्बमानचलद्युतिः ।
ब्रह्ममुण्डमहाषण्डमालाललितकन्धरः ॥ १४॥
नृत्यज्झणझणारावमणिमञ्जीररत्नपात् ।
साकुञ्चितेन नृत्येन पोषयन्तं जगत्त्रयम् ॥ १५॥
महारत्नपरिष्कारिपीठसंस्थां महेश्वरीम् ।
पश्यन्दरदलाम्भोजसन्निभामललोचनैः ॥ १६॥
सुधाधामतिरस्कारि देव्या वदनपङ्कजम् ।
लीलालकोद्यत्तिलकं रत्नताटङ्कमण्डितम् ॥ १७॥
उद्यत्कविनिभात्यच्छमुक्तानासामनोरमम् ।
कण्ठत्रिवलिगम्भीररत्नग्रैवेयभासुरम् ॥ १८॥
ललच्चिन्ताकसुभगं कण्ठमण्डलमीश्वरः ।
उत्तुङ्गकरिकुम्भाभस्वर्णकुम्भकुचां शुभाम् ॥ १९॥
त्रिवलीललितोदारत्रिजगत्सम्पुटोदराम् ।
मृगेन्द्रकटिसङ्काशरत्नकाञ्चितकाञ्चिकाम् ॥ २०॥
कनकाम्बरजापारधारासारजिताम्बराम् ।
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचाम् ॥ २१॥
वेणीमण्डलमध्यस्थरत्नसीमन्तसुन्दराम् ।
अलिकालम्बिलालंहिशोभिसिन्दूररेखिकां ॥ २२॥
क्वणन्मणिगणापारकङ्कणैर्नागबन्धकैः ।
रत्नहस्तसरापारचलद्वलयसत्कराम् ॥ २३॥
रत्नाङ्गुलीयविलसद्वलयाङ्गुष्ठवेष्टिताम् ।
महाहीरैकफलककल्पिताङ्गुष्ठवेष्टनीम् ॥ २४॥
आरक्तारक्तपादाब्जरङ्गरञ्जितपादुकाम् ।
पादाङ्गुलीकृतापारझणज्झणमधुव्रताम् ॥ २५॥
मणिमञ्जीरजारावझणज्झणितभूतलाम् ।
पाटीरागरुकस्तूरीकर्पूरागन्धमेदुराम् ॥ २६॥
पटवासमहागन्धनन्दिताखिलदिक्तटाम् ।
सौन्दर्यधारासर्वस्वाकारां ताराधिपाननाम् ॥ २७॥
हल्लकाक्रान्तसुकरां तथान्येन विलम्बिना ।
पाशाङ्कुशाभयवरधरां श्रीभुवनेश्वरीम् ॥ २८॥
निर्यत्कटाक्षाङ्कुरतःपश्यन्तीमाननं विभोः ।
पश्यन्त्सभासु तान्देवीं सदानृत्यति शङ्करः ॥ २९॥
नन्दिभृङ्गिमहाकालस्कन्दहेरम्बसंवृतः ।
रम्यवाद्यरवैस्सायं वेदघोषैश्च शङ्करः ॥ ३०॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभावर्णनम् २ - सभायां शिवसुदर्शनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । १-३०॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 1-30..
Notes:
Skanda स्कन्द gives the description of the beatific Presence of Śiva शिव with Pārvatī पार्वती in the Sabhā सभा (Assembly) at Kailāsa कैलास lorded by Śiva शिव (the Sabhāpati सभापति), whose Dance Divine in the various constituent sabhā-s सभासु (assemblies) is witnessed by Her along with Skanda स्कन्द, Heramba हेरम्ब, Nandi नन्दि, Bhṛṅgi भृङ्गि et al with accompanying music from several instruments.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan