कैलासशैलप्राकारवर्णनम् ४
(कैलासशैले प्राकारवर्णने रुद्रगणार्चनवर्णनम् ४)
स्कन्दः -
तत्प्राकारवरोत्तुङ्गमणीन्द्रवृषभाञ्चितः ।
अन्तरिक्षे रुद्रगणास्तच्छ्रीमाकाररक्षकाः ॥ ६॥
एकादशसहस्रं वै बाणकार्मुकपाणयः ।
महानिषङ्गप्रष्ठास्ते कपर्दधृतचन्द्रकाः ॥ ७॥
सिह्मसंहननास्सर्वे युवानो मृष्टकुण्डलाः ।
करिशृङ्गाभवत्तोरुभुजदण्डवरायुधाः ॥ ८॥
चिन्तामणिगणासारगोपुरं कुम्भरञ्जितम् ।
रुद्रावतारचरितैश्शोभितं सुमनोहरम् ॥ ९॥
मौलिसंस्थमहानन्दिनन्दिताखिलदिक्तटम् ।
प्राच्यां तद्गोपुरंशम्भो रक्षन्तिगणपास्सदा ॥ १०॥
प्राकारञ्चापि ते सर्वे त्रिशूलोद्यतपाणयः ।
तत्र शम्भोर्गणैर्लिङ्गं पूजितं सर्वकामदम् ॥ ११॥
मणिरुद्रेश्वरं नाम्ना चिन्तामणिगणक्षये ।
प्रोद्यत्कुम्भैकवसता पूजितं तं गणेश्वरैः ॥ १२॥
संस्तुतं परया भक्त्या चान्तिरिक्षे गणैस्तदा ॥ १३॥
- -
तद्दक्षिणेऽपि प्राकारं मुक्तारत्नविनिर्मितम् ॥ १५॥
तन्मध्यगोपुरवरं मणिमाणिक्यनिर्मितम् ।
महामणिशिखाकीलकलितं शेखरान्वितं ॥ १६॥
रुद्रावतारचरितैर्वृषभैश्चसमन्वितम् ।
एकादशसहस्रं वै तोमरासिवरायुधाः ॥ १७॥
महाबलामहोत्साहा दिव्यास्तत्र गणाश्शुभाः ।
जटामुकुटशोभाढ्यास्तारानाथकलाधराः ॥ १८॥
शिवाज्ञाकारिणस्सर्वे यौवनोन्मत्तविग्रहाः ।
तत्र सम्पूजयन्त्येव दिव्यरुद्रेश्वरं हि ते ॥ १९॥
मणिधाम्नि महालिङ्गं सम्पूज्य स्तुवन्तीश्वरम् ॥ २०॥
- -
गोपुरं तच्च प्राकारं रक्षन्ति सततं गणाः ॥ २२॥
तत्पश्चान्मणिसङ्कॢप्तप्राकारं मणिगोपुरम् ।
रुद्रावतारचरितैर्ललामवृषशेखरैः ॥ २३॥
प्रोल्लसत्ककुदैश्चैव मणीन्द्रमुकुटैरपि ।
तत्र रक्षन्ति गणपा हेतिशूलवरायुधाः ॥ २४॥
त्रिपुण्ड्रावलिभालोरुकपर्दवरमौलयः ।
बालारुणप्रतिप्रख्यचञ्चच्चन्द्रकलाधराः ॥ २५॥
एकादशसहस्रं वै रक्षन्ति गणपास्सदा ।
दक्षाध्वरविनाशाय महेशाङ्गाद्विनिर्गताः ॥ २६॥
रौम्या नाम गणश्रेष्ठा मत्तमातङ्गविक्रमाः ।
तत्र ते पूजयन्त्येव रौम्येशं मणिधामगम् ॥ २७॥
- -
उत्तरे भौमकानाम गणाश्शम्भोर्महात्मनः ॥ ३०॥
एकादशसहस्रन्तु विकोशीकृतहेतयः ।
दंष्ट्राकरालवदना जटाबद्धेन्दुखण्डकाः ॥ ३१॥
सजलोद्दामघनभास्सदेहास्तेऽतुलप्रभाः ।
भस्मदिग्धास्त्रिपुण्ड्राङ्का रुद्राक्षावलिभासुराः ॥ ३२॥
खेटटक्काध्वनिभृतस्तटित्कूटसमारवाः ।
उरगेन्द्राधिकक्रोधा उरगेन्द्राधिका जवे ॥ ३३॥
शिवाज्ञाकारिणो भौमा बलवीर्यपराक्रमाः ।
ततोत्तरे च प्राकारे मणिसालोज्वलप्रभे ॥ ३४॥
तन्मध्यगोपुरे चापि रुद्रक्रीडावृषैर्युते ।
मणिराजन्महाकुम्भे रञ्जिते भानुप्रभे ॥ ३५॥
तिष्ठन्ति ते च रक्षन्ति प्राकारं तच्च गोपुरम् ।
तैश्च भौमेश्वरं नाम्ना मणिधामगतोऽर्चितः ॥ ३६॥
संस्तुतः परयाभक्त्यालिङ्गसंस्थोमहेश्वरः ॥ ३७॥
- -
चतुर्दिक्ष्वपि ते रुद्रा ब्रह्मविष्ण्विन्द्रहन्तृकाः ।
हेतिशूलकरास्सर्वे भस्मपाण्डरविग्रहाः ॥ ४१॥
रम्भोपमानवृत्तोरु ऊरुद्वयविराजिताः ।
वक्षःकवाटपट्टाभहिरण्यकवचावृताः ४२॥
उष्णीषिणोमुकुटिनचोरगेन्द्रोरुमौलयः ।
धावन्तस्संस्थिताः केचिन्निषण्णास्स्वापकाःपरे ॥ ४३॥
निषङ्गिणः कवचिनश्शरकार्मुकपाणयः ।
वर्षन्तश्शरवर्षैश्चाप्यशैवान्नुन्नसायकैः ॥ ४४॥
पथि वृक्षे जले चैव सागरै भुविसंस्थिताः ।
विपिने च तथा ग्रामे पुरे खर्वे वृके (खर्वेऽटके) तथा ॥ ४५॥
शिवाज्ञाकारिणस्सर्वे चाग्निदीप्ता महौजसः ॥ ४६॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले प्राकारवर्णने रुद्रगणार्चनवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३१ - प्राकारवर्णने रुद्रगणार्चनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 31 - prAkAravarNane rudragaNArchanam . vAvRRittashlokAH ..
Notes:
Skanda स्कन्द describes the residences of the multitudes of Rudragaṇa-s rudragaNAH who guard and serve Śiva शिव at Mount Kailāsa कैलास शैल; and worship the respective Śivaliṅga-s शिवलिङ्ग at their residences in the four cardinal directions around the Peak of Mount Kailāsa कैलास मौलि (viz. Cintāmaṇigaṇāḥ चिन्तामणिगणाः in the East worship Maṇibhadreśvaram मणिभद्रेश्वरम्, Rudrāḥ रुद्राः in the South worship Divyarudreśvaram दिव्यरुद्रेश्वरम्, Raumyāḥ रौम्याः in the West worship Raumyeśam रौम्येशम्, Bhaumaka भौमक in the North worship Bhaumeśvaram भौमेश्वरम्) being ever-ready to execute the commands of Śiva शिव (Śivājñā शिवाज्ञा).
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan