कैलासवासमहिमा
कैलासाचलवार्तापि न शक्या गमनङ्कथम् ।
सुरा विष्ण्वादयः पूर्वे ब्रह्मापि भगवद्गणाः ॥ १९॥
मुनयस्तपतेऽद्यापि कैलासनगवीक्षणे ।
कैलासगमने लिप्सान्धृत्वा ते सुरसत्तमाः ॥ २०॥
शिवप्रसादसिध्यर्थं तप्यन्ते परमन्तपः ।
केचित्पञ्चाग्निनिरतास्समीरणसुपारणाः ॥ २१॥
वृन्तश्लथछदाशाश्च केचिद्वारिषु संस्थिताः ।
कटधूमशिखापानाः केचिच्चैवोर्ध्वबाहवः ॥ २२॥
भस्मछन्नाभस्मसंस्थाः केचिच्छ्रीरुद्रजापकाः ।
भस्माङ्काबिल्वमूलेषुकेचित्पञ्चाक्षरादराः ॥ २३॥
रुद्राक्षवरकोटीराश्शिवनामपरायणाः ।
केचिल्लिङ्गार्चनपरास्त्रिकालं बिल्वपल्लवैः ॥ २४॥
एवं तपोभिरत्युग्रैस्तप्यन्ति मुनयस्सुराः ।
सदाशिवप्रसादो हि तेषाम्भावि मुनीश्वराः ॥ २५॥
सर्वलोकेषुगन्तारस्सर्वधर्मपरायणाः ।
पुनरावृत्तिनस्सर्वे न कैलासगता मुने ॥ २६॥
यतयोऽपि निवर्तन्ते ज्ञाननिर्धूतकल्मषाः ।
शिवप्रसादलभ्योऽयङ्कैलासो ह्यतिदुर्लभः ॥ २७॥
मेरुशृङ्गगकैलासशिखरेवरशाम्भवाः ।
पूजया श्रद्धया शम्भोरीशानस्य पदङ्गताः ॥ २८॥
सुखिनस्सम्प्रमोदन्ते स्वर्गकोटिगुणाधिके ।
महाकैलासगमनमस्माकङ्किं पुनर्नृणाम् ॥ २९॥
शिवप्रसादहीनानां तत्कथाश्रवणं न हि ।
अनेककोटिकल्पोत्थतपसा प्राप्य एव सः ॥ ३०॥
मेरुमन्दरसङ्काशरत्नस्वर्णादिदानतः ।
सत्रातिरात्रकलनैर्वेदाध्ययनकोटिभिः ॥ ३१॥
गवाङ्कोटिप्रदानैर्वा विद्यया तपसापि वा ।
इष्टापूर्तादिधर्मैंर्वा कैलासप्राप्तिरेव न ॥ ३२॥
शिवप्रसादाल्लभ्योऽयं प्रसादो दुर्लभो नृणाम् ।
देव्या मया गणेशेन नन्द्याद्यैर्गणपैरपि ॥ ३३॥
कैलासबाह्यप्राकारे तपसा याचिता स्थितिः ।
अनेकयुगसन्तप्ततपसा तोषितश्शिवः ॥ ३४॥
शिवप्रसादेन वयं तद्ब्राह्यशिखराश्रयाः ।
गण्यन्ते सिकता भूमौ गण्यन्ते दिवि तारकाः ॥ ३५॥
कैलासापारशृङ्गस्थलिङ्गानाङ्गणना न हि ।
तत्रापि कोटिलिङ्गानामुत्तमानां श्रुता मया ॥ ३६॥
ततोस्पि लक्षलिङ्गानां ततोऽयुतसहस्रकम् ।
उत्तमानाञ्च देव्यै तद्गदता श्रीशिवेन हि ॥ ३७॥
गणना गण्यते केन कल्पकोटिशतैरपि ।
अनिर्वचनमायस्य मायिनश्श्रीत्रिशूलिनः ॥ ३८॥
को वेद महिमानं तु तत्र तन्मौलिलिङ्गगम् ।
स वेद वेदनिश्वासस्सर्वज्ञश्शशिशेखरः ॥ ३९॥
शिवसन्निधिरेव सन्निधिस्स्याद्विबुधाधीशपदाब्जरत्नवारिधिः ।
जनिनाशप्रभवापराधसन्धिः प्लुतिजापारविशेषतोषगाधिः ॥ ४०॥
निधिरेवाखिलसम्पदां युगाधिर्भवभक्तामलचेतदारिताखिलाधिः ॥
एवङ्कैलासशैलामलशिखरवरैर्मौलिकुम्भैकजालैः
तत्रापारशिवालयस्थितमहालिङ्गौघलिङ्गाश्रयैः ।
ईशापारमनोविलासजनितैर्दृष्ट्वा महेशस्स्वयं
बालार्धाकृतिरिन्दुमौलिरनलालङ्कारभालाक्षकः ॥ ४१॥
कालारिः कलधौतशैलशिखरं लिङ्गालिपूर्णङ्करोत् ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवासमहिमा ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३७ - कैलासवासमहिमा । १९-४२॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 37 - kailAsavAsamahimA . 19-42..
Notes:
Skanda स्कन्द describes about the merits of residing in the premises of Mount Kailāsa कैलास शैल, and mentions about the aspirantions of sādhaka-s साधकाः to be able to conduct their respective sādhanā-s साधना at or at least near to or around Kailāsa कैलास.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan