कैलासवर्णनम् २
(कैलासौपनयनम् २)
स्कन्द उवाच -
तदन्तरास्ति प्राकारो वैडूर्यमणिकल्पितः ।
राजल्ललागवृषभैर्वैडूर्यमणिकल्पितैः ॥ १॥
तत्सूत्रसङ्क्रमाक्रान्तिकाञ्चिताखिलपर्वतः ।
निष्टप्तरजतोद्भास्वतत्कान्त्या पीतवत्स्थितः ॥ २॥
तत्र पुष्पवनन्दिव्यन्नानारत्नगणान्वितम् ।
नीलगोमेदहीरैश्च पुष्परागैः प्रवालकैः ॥ ३॥
कुरुविन्दैर्मरकतैर्मुक्ताभिरभिशोभितैः ।
नीलोत्पलामलजलं कासारमभितस्स्थितम् ॥ ४॥
प्रवालैस्स्तबकैश्चैव कलिकोत्फुल्लपुष्पकैः ।
तत्तद्रत्नैश्च सङ्कल्प्तैरिन्द्रचापनिभप्रभैः ॥ ५॥
वितताच्छमणिभ्राजच्छाणोल्लीढकरप्रभैः ।
द्योभूमिसर्वलोकेषु तादृशं न वनं क्वचित् ॥ ६॥
सौन्दर्यसारसर्वस्वं रम्यं मञ्जुलमारुतम् ।
सुवर्णचम्पकोत्फुल्लधूलिकोद्यत्समीरणम् ॥ ७॥
तद्वातस्पर्शनेनापि ब्रह्मविष्णुमहेश्वराः ।
कृतकृत्या भवन्त्येव तदा धन्यतरास्सुराः ॥ ८॥
हरिन्मणिनिभाकारैः केक्यालम्बिततत्सुमैः ।
प्रफुल्लतत्सुमामोदधूलीकेलिसुगन्धिधृक् ॥ ९॥
पाटलामोदबहलमिन्दीवरगणावृतम् ।
भ्रमत्सारङ्गसँलूननवशाड्व(द्व)लसुन्दरम् ॥ १०॥
शष्पावृतेव भूर्भाति महामरकतोपलैः ।
स्वच्छन्दचमरीपुच्छवीजनोद्गीतषट्पदैः ॥ ११॥
कर्णिकारैस्स्वर्णवर्णैर्नभो याति हिरण्मयम् ।
शुभ्राभ्रचयसङ्काशकाशमन्दारसंयुतम् ॥ १२॥
रक्ताच्छमणिमन्दारफुल्लोकोरककैश्शुभैः ।
तद्गन्धबन्धुरामोदशीतबन्धुरमारुतम् ॥ १३॥
तमालसालजोदामघर्घरारावभीषणम् ।
आरग्वथमालोत्थफुल्लमञ्जरिशोभितम् ॥ १४॥
शुकतुण्डप्रभास्वच्छपलाशैर्गुच्छसुन्दरैः ।
फुल्लपुन्नागजैश्चैव सुमैस्तत्कोरकैरपि ॥ १५॥
नभो विकीर्णताराभं भाति मुक्ता इवाधिकम् ।
देवदारुसुमैः फुल्लैः कदम्बालम्बिगुच्छकैः ॥ १६॥
शेफालिगुच्छराताम्रैः कुब्जाम्रनिविडछदैः ।
कुरवामोदवकुलमञ्जरीभिर्मनोहरम् ॥ १७॥
उद्यदिन्दुकरस्वच्छगुच्छैरल्लकसल्लकैः ।
भल्लभल्लातकोद्दामपारिभद्रोद्भवैस्सुमैः ॥ १८॥
तमालपिप्पलीगुच्छसुमामोदितमारुतम् ।
उग्रगन्धायितदिशासमूहैर्मधुकोद्भवैः ॥ १९॥
प(ए)तत्सुमैश्च भूर्भाति तारा इव नभश्च्युताः ।
पुण्यक्षयादिवोत्तुङ्गा यथा सुकृतिनोऽफलाः ॥ २०॥
फनसोद्दाममूलस्थ फलभारावनामितम् ।
सुवर्णकन्तुकाकारविलसल्लिकुचैरपि ॥ २१॥
सौरभामोदपक्कोद्यच्छलाटुकुलकैरपि ।
उत्तुङ्गमातुलिङ्गैश्च स्थूलनिम्नोरुशाखकैः ॥ २२॥
रसगर्भरसालैश्च कम्रकाम्रजजैः फलैः ।
महानीलमणिप्रख्यैर्जम्बुकारञ्जकैर्वृतम् ॥ २३॥
आनम्रदाडिमोत्फुल्लसुमैस्स्फुटितत्फलैः ।
अङ्कोलकैश्शिरीषैश्चाप्यर्जुन भ्राजिगुच्छकैः ॥ २४॥
पक्वबिल्वफलामोदतत्सुमोद्बुद्धगन्धितम् ।
पतत्कपित्थनिवहस्तथैवामलकादिभिः ॥ २५॥
ईश्वरः-
गिरीन्द्रशिखरस्रुतैर्हरितपीतनीलारुणैः
स्रवज्झरिभरीभरैर्निखिलरीतिनिर्वासितैः ।
स्रवत्करटिकुम्भवत्पटुमदप्रभोऽयं गिरि-
स्तमालतिलकैर्धवैस्तिलकितो गिरिर्गैरिकैः ॥ ५३॥
नगेन्द्रवरचारणैः प्रतिकृतैश्च सद्वारणैः
महेङ्गुदमनोहरज्वलिततेजवल्लीगणैः ।
विभाति मम शैलराङ्गिरिवराङ्गकन्ये भज ॥ ५४॥
तद्बिल्वमूलपरिकल्पितरत्नवेदिमध्यस्य रत्नकमलामलकर्णिकायाम् ।
दृष्ट्वा गिरीन्द्रतनयाञ्चितबाहुरीश्चन्द्रोपलाकलितलिङ्गवरेषु देव्या ॥ ५५॥
समर्चयति दूर्वया हरिमणिप्रभाभातिक-
प्रकृष्टतरकान्तया द्युमणिबालकान्तिप्रभौ ।
नवारुणसु बिल्वजैश्छदवरैर्मुहुश्शङ्करः
फलैश्च रसगर्भितैर्विमलजम्बुनारङ्गकैः ॥ ५६॥
सुदाडिमवरोद्भवैर्विदलितप्रभाभासुरैः
कपित्थकदलीफलै रसरसालपकैः फलैः ।
निवेद्य गिरिजाकरे दधति रक्तकञ्जाधिके ॥ ५७॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १९ - कैलासवर्णनम् । १-२५, ५३-५७॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 19 - kailAsavarNanam . 1-25, 53-57..
Notes:
Description in this chapter is yet again about the premises of Mount Kailāsa कैलास शैल, that is Abode of Śiva शिव.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan