कैलासवर्णनम् ४
(कैलासशैले गणेशगोपुरवर्णनम् ४)
स्कन्दः-
पश्चाद्भागे हरिज्योतिहरिन्मणिविराजितम् ।
पञ्चलक्षप्रमाणेन प्राकारं मणिगोपुरम् ॥ १॥
महामरकतैः कॢप्तगवाक्षावलिभिर्युतम् ।
अष्टाशीति सहस्राणि योजनैः परिकल्पितम् ॥ २॥
पश्चाद्भागे तु तद्योति हरिन्मणिनिभा दिशः ।
तत्र गारुत्मतमणीकॢप्तमण्डपशोभितम् ॥ ३॥
उद्यदिन्दकरस्वच्छनिर्यज्झरिभिरावृतम् ।
तत्राच्छस्फटिकोद्दामसिह्मासनशतैर्वृतम् ॥ ४॥
धूपदीपादिबहुलं नानासुमनावृतम् ।
मणिमाणिक्यखचितमण्डपे स्वास्तृतासने ॥ ५॥
तस्मिंस्तिष्ठति विश्वेशस्स्वगणैरर्चिताङ्घ्रिकः ।
सप्तलक्षगणेन्द्रैश्च विघ्नाद्रिकुलिशो महान् ॥ ६॥
नानारत्नचितानेकभूषणैः परिशोभितः ।
सिन्धूरविलसद्भालो महासिन्धूरवक्त्रकः ॥ ७॥
माणिक्यमुकुटोद्भासिभालचन्द्रविराजितः ।
शुण्डादण्डमहोच्चण्डबृह्मितानन्दिताम्बरः ॥ ८॥
कुम्भान्तरललन्मुक्तागुच्छसच्छायितास्यकः ।
कर्णपत्रमणिभ्राजञ्चलत्कर्णयुगछविः ॥ ९॥
दन्तावलिमहारत्नदन्तवेष्टनसुन्दरः ।
तदधस्ताल्ललन्मुक्तामणिपत्रविराजितः ॥ १०॥
सितभस्मत्रिपुण्ड्राङ्ककुम्भमध्यविराजितः ।
सिन्धूरतिलकोत्फुल्लवदनानन्दशोभितः ॥ ११॥
मुक्तागुम्फितकर्णाग्रवीजितोड्डीनषट्पदः ।
स्रवत्कटतटोद्भासि मदगन्धितदिक्तटः ॥ १२॥
शिवपादाम्बुजध्यानानन्दोन्मीलितलोचनः ।
गणसन्दर्शनानन्दसदोन्मीलितलोचनः ॥ १३॥
महानागनिबद्धोरुपिठरोदरसंयुतः ।
फुल्लपद्मामलपदस्सुरासुरगणानतः ॥ १४॥
पाशाङ्कुशरदद्योतिमोदकासक्तसत्करः ।
रत्नाङ्गदैश्च केयूरैर्भ्राजत्करिकरप्रभः ॥ १५॥
पादकॢप्तरणत्सिञ्जद्रत्नमञ्जीरशोभितः ।
दिव्याङ्गरागसुभगो मणिहाराम्बरावृतः ॥ १६॥
पार्श्वद्वयविराजच्छ्रीसिद्धिबुद्धिविराजितः ।
सर्वाभरणभूषाभ्यां सेवितः पार्श्वर्द्वयोः ॥ १७॥
गणेन्द्रैश्छत्रदण्डोद्यन्मणिचामरसत्करैः ।
सेवितश्श्रीगणेशानस्तस्मिन्कैलासमण्डपे ॥ १८॥
चलच्चामरवातैश्च चलत्कर्णाग्रचामराः ।
तादृशा गणपास्तत्र पाशाङ्कुशधरास्तथा ॥ १९॥
महाबला महोत्साहाः कुठारवरपाणयः ।
सिन्धूरारुणभालाग्रास्त्रिपुण्ड्रपरिशोभिताः ॥ २०॥
रक्षन्ति ते गणास्तत्र प्राकारं तच्च गोपुरम् ।
सप्तलक्षामितवला गणेशा गणपास्तथा ॥ २१॥
तत्रैव देवदेवस्य शासनाच्चन्द्रमौलिनः ।
गणेशोऽपि सदा ध्यायन् गणेशेश्वरपूजकः ॥ २२॥
तत्रेष्टलिङ्गं तस्यैव वरप्राकारगोपुरम् ।
नवरत्नचितन्दिव्यं मणिस्तम्भचितान्तरम् ॥ २३॥
गणेश्वराख्यं तल्लिङ्गं मणिधामगतं तथा ।
प्रोद्यत्कुम्भपताकाग्रपवनाधूतसाञ्चलम् ॥ २४॥
स्वपुष्करधृतोत्तुङ्गकुम्भपञ्चामृतैरपि ।
सुधाधाराभिरासिच्य चन्दनालेपिसुन्दरम् ॥ २५॥
फणामणिमहामौलिरत्नाभरणशोभितम् ।
सोऽद्यसम्पूजयत्येव बिल्वमन्दारचम्पकैः ॥ २६॥
दूर्वाभिः कमलैरीशं धूपैर्दीपैर्मनोहरैः ।
नैवेद्यैर्विविधैश्चैव ताम्बूलैश्छत्रचामरैः ॥ २७॥
गानैर्नृत्यैर्मृदङ्गाब्जकाहलानाञ्च निस्वनैः ।
भस्मरुद्राक्षसम्पन्नस्स्तौति देवं महेश्वरम् ॥ २८॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले गणेशगोपुरवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २४ - कैलासवर्णने गणेशकृतस्तुतिः । १-२८॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 24 - kailAsavarNane gaNeshakRRitastutiH . 1-28..
Notes:
Skanda स्कन्द describes about the residence of Gaṇeśa गणेश towards the Western region of Mount Kailāsa कैलास शैल, that has predominance of Emerald - viz. Harinmaṇi हरिन्मणि / Marakatamaṇi मरकतमणि / Garutmatmaṇi गरुत्मत्मणि; and mentions about the Gaṇeśvara Śivaliṅga गणेश्वर शिवलिङ्ग that He worships there.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan