कैलासेश्वरलिङ्गपूजाकथनम्
स्कन्द उवाच -
तल्लिङ्गजातास्सर्वेऽपि भुवनानि चतुर्दश ।
तल्लिङ्गजाता देवाद्या ब्रह्मविष्णुहरादयः ॥ १॥
तल्लिङ्गे संस्थिता लोकास्सप्तद्वीपवनाकराः ।
प्रलयेऽपि लयं यान्ति सर्वे लोकास्सुरैस्सह ॥ २॥
लयनाल्लिङ्गमित्युक्तं लीनं यस्मिञ्जगद्रुतम् ।
तस्माल्लिङ्गं मुने प्रोक्तं तत्कैलासेश्वरसञ्ज्ञितं ॥ ३॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
भूमौ तच्च महालिङ्गं प्रतिष्ठापुच्छमेवतु ॥ ४॥
एकं ब्रह्मैव तल्लिङ्गमलिङ्गमपि भूसुराः ।
तदेव ज्योतिषां ज्योतिस्तद्वै चेतनचेतनम् ॥ ५॥
तल्लिङ्गं सत्यमानन्दमखण्डैकरसंसदा ।
तल्लिङ्गदर्शने वाऽपि नवाग्गच्छति नो मनः ॥ ६॥
नेति नेति च वेदान्तैस्तल्लिङ्गं प्रतिपाद्यते ।
तदेव ब्रह्म त्वं विद्धि नेह नानास्ति किञ्चन ॥ ७॥
ऋतं सत्यं परं ब्रह्म तदात्मामनसोऽतिगम् ।
निरिन्द्रियं निष्कलङ्कमसङ्गमजरं हि तत् ॥ ८॥
प्रभुं समस्तभूतोत्थसर्वधर्मविवर्जितम् ।
आकाशं तदनाकाशं साकारञ्च निराकृति ॥ ९॥
कारणं कारणानाञ्च ब्रह्म तल्लिङ्गमेवहि ।
नामरूपातिगं शान्तं गुणातीतं गुणास्पदम् ॥ १०॥
अपाणिपादमत्यच्छमानन्दघनमद्वयम् ।
शिवस्य निर्गुणं रूपमदृश्यमकृतात्मभिः ॥ ११॥
तदेव व्यापकं भाति तल्लिङ्गन्तमसः परम् ।
तन्न वेदैश्च वेदान्तैर्गुरुभिश्श्रुतिभिस्तदा ॥ १२॥
नप्राप्यं सर्वदा सर्वैर्द्रष्टुं तच्चाप्यथा श्रितुम् ।
तदेव देवदेवस्य निर्गुणं रूपमद्भुतम् ॥ १३॥
निर्गुणञ्चाऽपि लोकानां दृष्टिगोचरवत्स्थितम् ।
तल्लिङ्गं सर्वदा शम्भुर्देव्या पूजयतिस्वयं ॥ १४॥
बाह्यैराभ्यन्तरैश्चाऽपि पूजाभिः परमेश्वरः ।
त्रिणेत्रो नीलकण्ठश्च चन्द्रार्धकृतशेखरः ॥ १५॥
अहम्भावादिरहितो भावाभावविवर्जितः ।
अहं ब्रह्मैवेदमिति यं वदन्ति नरामराः ॥ १६॥
(अहं ब्रह्मैवेदमिति तुर्यातीतोऽजरोऽमरः) ॥ १६॥
ध्यानध्येयातिगो भूत्वा स्थितस्समहिमातिगः ।
एवं सम्भावयन्देव्या शिवएव हि केवलः ॥ १७॥
तमः परो महादेवो देव्या सगुणनिर्गुणः ।
पूजां बाह्योपचाराद्यैर्मनोवाचामगोचरः ॥ १८॥
कल्पयत्येव मनसा सर्वकालेषु शङ्करः ।
प्रदोषेषु विशेषेण कैलासे चन्द्रशेखरः ॥ १९॥
तत्पूजां सावधानेन समाहितमनाश्शृणु ।
चतुर्देहातिगो भूत्वा सर्वेन्द्रियविवर्जितः ॥ २०॥
अहम्भावं परित्यज्य शिवोऽहं केवलोऽद्वयः ।
व्याप्येषु व्यापकश्चाहं गुणेषु निहतोस्म्यहम् ॥ २१॥
नान्तो नचादिस्सकलचाहं विश्वं सदैवहि ।
विश्वातीतोहमजरोऽसङ्गोऽसङ्गविवर्जितः ॥ २२॥
व्यापकोऽहं सदा पूर्णो गुणजालविवर्जितः ।
नीरूपो विश्वभूतात्मा देहधर्मविवर्जितः ॥ २३॥
आकाशो व्यापकश्शीर्यश्शीर्णेष्वहमवस्थितः ।
सत्यं ज्ञानोऽहमानन्दो बोधबोधकवर्जितः ॥ २४॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ २५॥
इत्येवं भावयन्धीरो बाह्ये लिङ्गं समर्चयेत् ।
धृतभस्मत्रिपुण्ड्राङ्को रुद्राक्षवरभूषणः ॥ २६॥
पञ्चास्यध्याननिरतः पञ्चाक्षरपरायणः ।
प्राङ्मुखोदङ्मुखोवाऽपि स्थितश्चेलकुशासने ॥ २७॥
ध्यात्वा स्वहृत्पद्मसंस्थं शुद्धस्फटिकसन्निभम् ।
प्रसन्नास्यं त्रिणयनं त्रिपुण्ड्रपरिशोभितम् ॥ २८॥
चन्द्रार्धमुकुटं देवं नीलग्रीवमुमापतिम् ।
आवाहयेद्बाह्ययलिङ्गे स्फाटिके बाणधातुजे ॥ २९॥
मृल्लिङ्गे सिकतायाञ्च पूजयेत्स्थावरेऽपि च ।
पञ्चामृतैः पञ्चगव्यैर्नीरधारादिभिश्शिवम् ॥ ३०॥
पञ्चब्रह्मैः पावमानै रुद्रैर्वेदसमुद्भवैः ।
अभिषिच्य प्रयत्नेन सामभिश्च महेश्वरम् ॥ ३१॥
वस्त्रैरावेष्ट्य तल्लिङ्गं गन्धलेपेन लेपयेत् ।
अक्षताभिस्तथा रत्नगोलकैर्भूषयेच्छिवम् ॥ ३२॥
बिल्वपत्रैश्च कह्लारैश्चम्पकैः करवीरकैः ।
पुष्पैरारण्यकैश्चैव तथान्यैश्च सुगन्धिभिः ॥ ३३॥
धूपैश्च दीपैर्नैवेद्यैस्ताम्बूलैर्मणिदीपकैः ।
नीराजनैश्छत्रमुख्यैश्चामरैर्व्यजनैरपि ॥ ३४॥
प्रणामस्तोत्रपठनैः प्रदक्षिणसुनर्तनैः ।
पुनः प्रदक्षिणैश्चैव पञ्चाक्षरजपैस्तथा ॥ ३५॥
हृत्पद्मे सन्निवेश्येशं पूजोद्वासनमारभेत् ।
एवं पूजाविधानेन पूजयेत्परमेश्वरम् ॥ ३६॥
एककालं द्विकालं वा त्रिकालं योऽर्चयेन्नरः ।
स एव लभते ज्ञानमाभ्यन्तरवरार्चनैः ॥ ३७॥
कैलासेश्वरलिङ्गमेतदमलं स्वर्गापवर्गप्रदं
तन्नैवाखिलवेदजालतिलकैर्ज्ञातुं न तत्पार्यते ।
ईशेनापि गजाननेन च मया देव्या गणेन्द्रैरपि
विष्णुब्रह्महरामरैर्मुनिगणैस्तन्त्रैस्तथैवागमैः ॥ ३८॥
तल्लेशायुतलेशलेशमहिमा कोट्यंशकोट्यंशकं
वक्तुं श्रोतुमथेक्षितुं त्रिभुवने नास्तीति मन्ये द्विज ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरलिङ्गपूजाकथनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३६ - कैलासेश्वरपूजाविधानकथनम् । १-३९॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 36 - kailAseshvarapUjAvidhAnakathanam . 1-39..
Notes:
Skanda स्कन्द describes about the Saguṇa सगुण and Nirguṇa निर्गुण aspects of Śiva शिव; and details about the Bāhyābhyantara pūjā बाह्याभ्यन्तर पूजा (External and Internal worship) process of Kailāseśvaraliṅga कैलासेश्वरलिङ्ग.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan