कैलासेश्वरप्रदोषपूजावर्णनम् ३
(देव्याप्रति ईश्वरप्रोत्क्तं कैलासेश्वरप्रदोषपूजाकथनम् ३)
ईश्वरः -
कुम्भैरम्भोधराच्छच्छविजितधवलैः पूरितैः क्षीरवार्द्धौ
पर्वोद्यच्छशिसन्निभैस्स्फटिकजैः कोट्यावधीसङ्ख्यया ।
तत्क्षीरोत्तममण्डसारसुभगैस्सिञ्चामि लिङ्गे मम
कैलासेश्वरनामके जनिजरारोगापहे शङ्करि ॥ ३३॥
आनीतं मम तत्पयोम्बुधिभवं वीरैर्गणेन्द्रेश्शिवे
सद्वृत्तामलधारया जनिमुमे तुष्टः प्रदोषेष्वहम् ।
कष्टानि प्रसभं हारामि सुकृतां राशिन्दिशामि क्षणा-
त्सिञ्चन्लिङ्गसुपूजकाय गिरिजे तस्मादहं पूजये ॥ ३४॥
दद्ध्यम्भोनिधिसम्भवैर्निबिडितं तत्खण्डमण्डं दधि
प्रोद्यड्डिण्डिममण्डलाभमगजे दत्वा स्वलिङ्गोत्तमे ।
गोदोहप्रथिते प्रदोषसमये सन्दारिताघौघके
कार्यं पूजनमेतदेव समये सर्वैस्सुरैरप्यहम् ॥ ३५॥
तल्लिङ्गं परिपूजयामि वसुधाधृग्धुर्यमौलौ निश-
ञ्चोत्तुङ्गामलरत्नकुम्भविलसत्प्राज्याज्यधारादिभिः ।
स्वाज्याम्भोधिसमाहृतैर्मम गणैस्सङ्ख्यातिगं तद्धृतं-
तत्राज्यामलगन्धसारसुभगा गन्धीकृतास्तादिशः ॥ ३६॥
सिञ्चामि प्रभसं सुगोघृतघनैः कैलासलिङ्गं मम
मध्वम्भोधिसमाहृतैर्मणिघटैर्माध्वीकसारं मधु ।
गर्भोद्यन्मणिसारकान्तिसुभगैर्गोमेदकाच्छप्रभै-
स्सिञ्चाम्यद्रिवरात्मजे सुमधुराधारेयगर्भं मधु ॥ ३७॥
धाराकारमदीयलिङ्गशिरसि हर्षेण पश्याम्बिके
शैलोद्दामशिखानिभाश्शिखरितादुत्तुङ्गसारोपमाः ।
प्रालेयाचलमौलिसारसुभगाश्चापाण्डुराश्शर्करा
दत्वा तन्मम लिङ्गमौलिविलसच्चन्द्रांशुधारा समम् ॥ ३८॥
हर्षाप्लाविहृदन्तरः प्रतिदिनं हृष्यामि पश्याद्रिजे
कुल्पास्तत्र मनोरमाद्रितनये नारेलनीलोद्भवाः ।
ताभिस्सम्भृतसद्धटादिविततैर्लक्षैः प्रवाहाकुला
तल्लिङ्गासेकनीरैः प्रवहति मधुजा देवगङ्गेति नाम्ना ॥ ३९॥
सर्वे विष्णुपितामहेन्द्रवरुणाश्चानन्दभक्त्या वृता-
स्तीर्थं तीर्थपरम्परैकफलदं ज्ञात्वानुभूयापि ते ।
सेवन्ते सततं नितान्तमगजे जेतुं पुनस्संसृतिं-
तुङ्गाघौघतरङ्गभङ्गसुभगास्तस्यान्तरास्ते सुराः ॥ ४०॥
सप्तछदाच्छफलशैलवरोऽद्रिकन्ये कॢप्तो मया सुगुरुपीततरश्च मेरोः ।
तज्जैस्त्वगाररहितैश्शशिखण्डमौलिलिङ्गार्चनस्य फलमेव जनुर्भवानि ॥ ४१॥
उत्तुङ्गसालसुरसालरसालसारैर्निष्टप्तहेमझरिसोदरगर्भजातैः ।
तल्लिङ्गसेचनमुमे सुघटैः करोमि पुंसामपि प्रमथनाथपदं ददाति ॥ ४२॥
देवि स्त्रीकुचसन्निकाशलिकुचापारप्रभागन्धज-
स्फारासारमहारसादिकलशैस्संसेचयाम्यम्बिके ।
कैलासाचललिङ्गमौलिविलसलिङ्गैकसद्भूषणं
लिङ्गन्त्वेतदपारगन्धलुलितैर्नीरैश्च गन्धोदकैः ॥ ४३॥
इक्षुसागरमहोर्मिभिरीशे लिङ्गमौलिरियमेव विशिष्टा ।
सिक्तये घटसहस्रसुधारा कारिता गिरिसुते कमनीया ॥ ४४॥
कोशैः काननसम्भवैर्मधुझरीसारातिसारस्स्फुटं
निर्यत्पीततरातिकान्तिनिवहैर्गन्धीकृताशामुखैः ।
तत्कोशामलराशिभिर्गिरिसुते सञ्छन्नमैशं शिरः
पश्यामि प्रथितेक्षणः पूकटिते पुण्ये प्रदोषे मम ॥ ४५॥
कस्तूरीघनसारकुङ्कुममहापाटीरसारैर्घटै-
श्चन्द्रासारविलोलिताम्बुघटितैस्सत्पाटलामोदितैः ।
श्रान्ता मे गणपुङ्गवाश्च नितरां पुण्ये प्रदोषे मम
स्वादूदामलनीलधारितघटोद्वाहे परं शैलजे ॥ ४६॥
शङ्खानाञ्च सहस्रकैर्मणिचितैर्गोशृङ्गधारादिभिः
क्षीराज्यादिमधुप्रवाहजलधिप्लुष्टैश्च तैलैरपि ।
तद्गन्धोत्तमपिष्टलेपनगतश्रीचिक्कणाघर्षणै-
श्श्रीपत्रैर्मृदुसारसूक्ष्मतृणकैरुत्पञ्चगव्यैरपि ॥ ४७॥
सौवर्णोत्तमकुम्भसम्भवमहाधारासहस्त्रैश्शतै-
रर्घ्यै रत्नसुवर्णकल्पितकुशाग्राम्बूद्भवैस्तज्जलैः ।
अष्टाङ्गार्घ्यककल्पितैस्सुमधुरैर्गर्भाम्बुकुम्भैश्शिवे
संसिच्याखिलमिन्दुकुन्दजमहापाटीरसत्पाटलाः ॥ ४८॥
मोदोत्थाम्बुदसन्निभैश्च कलशैस्तौर्यत्रिकोद्भावनै-
र्धूपैश्चापि महामधूत्थमधुपर्कासारपारैरपि ।
प्रदोषसमये मया शरदुदीचराकाशशि
प्रकाशचयसौहदैर्विर(म)लकुड्मलैरन्धसाम् ॥ ४९॥
मदीयरजताचलप्रकटशङ्किभाराशिभि-
स्सुधाकरकलालसल्ललितलिङ्गमौल्पर्पितैः ।
वेदाश्चत्वार एते प्रथिततमयशस्स्तोमधारानुरागा-
स्स्वादूदामलनीरसेचनविधौ शाखाशिखाभिः क्रमात् ॥ ५०॥
रुद्राणां स्तवनेन मामपि शिवे सन्तोषयन्तस्स्थिता
मूर्तास्ते विहिताग्रपङ्कजकरा विश्वासभूता मम ॥ ५१॥
घनरसमृगनाभिसारधारामृगमदपटलीपटीरचन्द्रगन्धैः ।
परिवीतं भुजगेशसन्निवीतं प्रभया कोटिशशाङ्कसूर्यतुल्यम् ॥ ५२॥
गोत्राधिराजतनये विनयेन पश्य सम्पश्यदात्मगतिसौख्यदमेकभास्वत् ।
घुमुघुमितसुगन्धगन्धिताशामुखमुखरैः परिलिप्य लिङ्गमेतत् ॥ ५३॥
परिहृष्टो नितरां भवामि गौरि त्रिदशालभ्यसुगन्धयक्षकर्दमैः ।
मणिजालाततरत्नकूलचित्रैः परिधायामलस्वर्णसद्दुकूलैः ॥ ५४॥
शिवलिङ्गं मम शैलराजकन्ये परिपश्यामि सुगन्धिगन्धवस्त्रैः ।
ब्रह्माण्डगोलकमुमे प्रभया न तुल्यं मल्लिङ्गगोलकवरोत्तमरत्नधारा ॥ ५५॥
सावधूतशशिमौलिकलाललामन्तद्रत्नमौल्यकलने न विधिर्न विष्णुः ।
यक्षाधिपोऽप्यगसुतेऽद्य विकुण्ठिताक्षः केऽन्ये क्षमा वद समानहृदा निरीक्ष्य ॥ ५६॥
यद्दर्शनेन समदुःखविरामणं स्याद्यद्रत्नवर्यनिचयैर्मुकुटातिशोभम् ।
पूरिताखिलजनाजनिकामं वामदेवमिह पश्य सुकामम् ॥ ५७॥
फणामणि सहस्रकैर्विधृतवक्त्रमुक्ताफलैः
प्रभाततसभावली मणिगणात्तकान्त्या युतम् ।
त्रिपुण्ड्रनिटिलोल्लसत्तिलकिताच्छसद्धीरकं
प्रपश्य गिरिकन्यके विमलमौलिलिङ्गं मम ॥ ५८॥
सहस्रमुखसत्फणिप्रवरमौलिमाणिक्यस-
द्द्युतीविजितकान्तितो मम स्वभोगसंवेष्टितैः ।
फणाछविकृताम्बरछविजितायसच्छत्रकं
शिवे शिरसि मे सदा दधति लिङ्गमोलौ मम ॥ ५९॥
विश्वेश्वराख्यवरलिङ्गसमानमानमानन्दसौख्यदमिदं मम सुप्रियेयत् ।
हन्तुं समग्रजनपातकराशिमेव सर्वार्थराशिदमिदं परिपूजयामि ॥ ६०॥
नानामणिद्युतिसरावलिभूषितन्तन्मल्लिङ्गमेव कमलाच्छदृशा प्रपश्य ।
पुण्ये प्रदोषसमये मुदितस्त्वयाऽहं तल्लिङ्गमध्यभवने महिमास्थितोऽहम् ॥ ६१॥
विकसितसितपद्मरत्नकञ्जमालानवनीलोत्पलजैस्सहस्रमालिकाभिः ।
मधुबन्धुरगन्धदिव्यगन्धैस्सितमन्दारजरक्तमालिकाभिः ॥ ६२॥
दिनान्तसमयोल्लसन्मधुरगन्धजातीसरै-
र्वसन्तकलिकास्फुरन्मधुरगन्धमल्लीसरैः ।
विकुण्ठितमिदं मम प्रकटसोमधामप्रभा-
समुत्थमगकन्यके विमलद्रोणमालायुतम् ॥ ६३॥
कदम्बवननीपजस्फुरदपारमालाभरै-
र्विलोलवरपीठगं प्रकटमौलिलिङ्गं शिवे ।
प्रपश्य नयनाञ्चलैर्विकचमञ्जरीकप्रभैः
प्रदोषसमयेऽम्बिके नयनजन्मनस्तत्फलम् ॥ ६४॥
तद्बिल्वरत्नकमलैरमलैर्भवानि पुन्नागनागनवचम्पकदूर्वयापि ।
नीलोत्पलैर्दमनकैः करवीरजातिद्रोणार्ककाशजवकैः कनकैस्समर्च्य ॥ ६५॥
सत्पुण्डरीकवकुलैर्धवकर्णिकारमालूरकुन्दकुसुमैरतिहर्षतोऽहम् ।
राजीवामलमल्लिकासुमसरस्फारोत्थगन्धान्धकै-
र्लोलम्बेर्विकसत्सुमोत्थमधुपैः पश्याम्बिके पूजितम् ।
एतल्लिङ्गवरं प्रदोषसमये बिल्वीदलोत्तंसकं
धुत्तूरेण हि शोभतेऽद्य नितरां मौलिस्थचन्द्राधिकम् ॥ ६६॥
अगरुतरुजातधूपधूमैर्बहुलामोदविकासिदिक्समूहैः ।
मरुदाकुललम्बितोरुधाराविकसत्स्वर्गपथाः प्रचारजालैः ॥ ६७॥
सुवर्णमणिभाजने शिशुनभोद्यदम्भोजिनी-
प्रियांशुचयसङ्क्रमिप्रकटदाक्ष्यरत्नांशुभिः ।
मनोरथपथातिगैर्मम सुलिङ्गमालायितै-
स्सुपाण्डरशशिप्रभैर्हिमतुषारकुन्दप्रभैः ॥ ६८॥
सुचन्द्रवरखण्डकैर्विरचितोरुदीपावली-
सुगोघृतसुवर्तिकोज्वलसुदीपजालैरपि ।
गृहाङ्कणतमस्ततिप्रविददारद्दत्यादरै-
रखण्डतरमण्डनैः प्रथितपद्महंसोपमैः ॥ ६९॥
सुतारकगणावलीललितमुक्तजालप्रभै-
र्विलोकय गिरीन्द्रजे मम सुमौलिभासङ्करैः ।
नानाभक्ष्यमहाद्रिगन्धसुरसाश्चमोदितास्तादिश-
स्सुखागन्नजराशिभिश्च घृतजैस्सूपप्रवाहैश्शिवे ॥ ७०॥
शाकैश्शैलनिभैर्मधुप्रमथितैः क्षीरादिदध्योदनैः
प्रालेयाचलसन्निभैस्सुगुडकैर्नैवेदितैश्शङ्करि ।
नारिकेललिकुचैस्सुकपित्थैर्मातुलिङ्गकदलीसुरसालैः ॥ ७१॥
खर्जूरैर्बदरीसुगन्धजरसैडिम्बनारङ्गकैः
कङ्कोलामलकैस्सुरादनफलै राजादनैर्जातिकैः ।
नैवेद्येक्षुजकाण्डकैर्गिरिवराज्जाते मुदे मे भवे-
त्ताम्बूलैः खदिरैर्लवङ्गमुखरैर्जातीफलैलायुतैः ॥ ७२॥
मुक्ताचूर्णसुपूर्णपूगमधुरैः कर्पूरसंवासितै-
रुत्फुल्लामलनागवल्लिजदलैः प्रोद्यद्गिरीन्द्रप्रभैः ।
नैवेद्यं परिकल्पयामि गिरिजे तस्मिन्प्रदोषे ह्यहं
वीणानिक्वणमञ्जुमञ्जुलसुधाधारासमैर्गायनैः ॥ ७३॥
मन्नामामृतमीश्वरेश्वरि मुदा रुद्राणिभिः कल्पितं
शम्भो शङ्कर धूर्जटे त्रिणयन कालान्धकारे हर ।
पाहीश प्रमथाधिनाथ महिमन्लिङ्गाकृते पाहिनो
रत्नैः कल्पितमद्दलध्वनियुतैश्शङ्खोत्थनादैश्शिवे ॥ ७४॥
प्रोद्यत्काहलनिस्वनैर्मधुरितं तन्मड्डुडिण्डीरवैः ॥ ७५॥
दुन्दुभ्याघातनादैर्मम गणवरगास्योरुनिश्वासरागै-
र्वेणूरन्ध्रनिषेवणाङ्गुलिभवैस्तालैश्च सज्झल्लरैः ।
तुष्टोऽहं प्रथिते प्रदोषसमये तल्लिङ्गसेकादरो
नान्यत्किञ्चिदवेदिषं त्रिजगतां व्यापारमप्यद्रिजे ॥ ७६॥
रङ्गे तुङ्गतरङ्गभङ्गचपलैर्नृत्यैर्महामद्दलै-
र्वीणावेणुनिनादसाम्यलयतो नृत्यन्ति लिङ्गाग्रतः ।
रुद्राणीगणकोटयोऽत्र सुभगे मञ्जीरशिञ्जस्वनै-
श्शम्भो शङ्कर साम्ब पाहि शिव नस्तूर्णं प्रसादङ्कुरु ॥ ७७॥
इत्येवं सुभगा विलासमधुरा हावैश्च भावैरपि
चोत्क्रान्तावृतरत्नकान्तिविलसत्पूर्णेन्दुसाम्यानना ।
कुम्भोद्यत्करिकुम्भसन्निभकुचाः काञ्चीझणन्निस्वना-
स्तालोत्थाहतिपादपद्मजरवैः कुर्वन्ति विद्युद्ध्वनिम् ॥ ७८॥
गणेशकरभास्वता विविधलोकसाम्राज्यधु-
ग्विविक्तकृतलाञ्छनैश्शशिसुवृत्तमुक्ताततैः ।
महोडुगणमौक्तिकप्रकटतारपङ्क्तीततै-
र्गिरीन्द्रतनये धृतान्यमितछत्रकोट्यो गणैः ॥ ७९॥
परटारमणोत्थकामिताङ्गोत्थितपक्षाहननाभचामरौघैः ।
गणबृन्दैरखिलैश्च सेव्यमानं मम लिङ्गालयधूननैश्शिवेऽद्य ॥ ८०॥
प्रवालमयदण्डिना मलयशैलभूमारुत-
सुपोततरवायुना नगवरारिपाणीजुषा ।
जयेन चमरीमृगप्रचलवालगुच्छात्मना
सुखी जितमुमे तदा मम सुलिङ्गमत्यादरात् ॥ ८१॥
धृतैः प्रमदपाणिभिर्वनकलापिपुच्छोच्चयैः
कृतैर्व्यजनकोटिभिर्हरितचन्द्रकोट्यंशुभिः ।
मदीयमणिमण्डपं हरिमणीभिराकल्पित-
मिवाद्य गिरिजे तदा प्रथितभाभिरादीपितम् ॥ ८२॥
प्रमथप्रकरोर्ध्वहस्तसंस्थैर्मणिवर्यैर्विविधैस्सराग्रलम्बैः ।
बिलसन्नवरत्नगुच्छसच्छैर्धुवदीशानवराग्रगाः पताकाः ॥ ८३॥
लिङ्गप्रक्रमणैरहं स इति तल्लिङ्गप्रणामादर-
स्स्वात्मानं परिचिन्तयामि गिरिजेऽप्यानन्दधारावृतः ।
प्र(वृ)त्युत्थाखिललोकजालमखिलं मत्तो न भिनं क्वचि-
त्किञ्चिचापि शिवे ममैव मनसस्सङ्कल्पजालं जगत् ॥ ८४॥
मय्येवागसुते लयं प्रयाति निखिलञ्चैकोऽद्वयोऽहं सदा
नानेति प्रसभं वदन्ति निगमा वाचां मनोदूरगम् ।
अन्यानन्द समं (अन्यानन्दमुमे) मदीयममलं जानन्ति नो योगिनो
नो वेदा यतयस्सुरासुरगणा विष्पादयोऽप्यब्जजाः ॥ ८५॥
ज्ञानं ज्ञेयमिदं जगद्गतमुमे ज्ञाता न किञ्चित्स्थिति-
र्भूमाहं सुखधामको हि महतां ह्रस्वो न चाणुस्स्थिरः ।
स्वात्मानन्दमुमे ममाल्पकमिदं लिङ्गेऽप्यलिङ्गोऽस्म्यहं
चा(आ)काशादिविदूरगस्थितिलयोत्पत्तिष्वसङ्गोऽस्म्यहम् ॥ ८६॥
इत्येवं परमार्थतस्त्रिभुवने तिष्ठामि विश्वातिगो
गोप्यम्मद्धृदयं गिरीन्द्रतनये तुभ्यम्मया दर्शितम् ।
इत्युक्त्वा परमेश्वरस्त्रिजगतां नाथोऽपि विश्वाकृति-
र्दृष्ट्वा लिङ्गमपारबिल्वकुसुमैस्सम्पूजितं मस्तके ॥ ८७॥
दृष्ट्वा तामगजां ननर्तपरमानन्दप्रसादैकभूः
कैलासाचलमौलिमण्डपवरे तल्लिङ्गसान्निध्यके ।
अण्डखण्डनमहाघनघोषश्चण्डताण्डवललद्विधिमुण्डः ।
कुण्डलीशकृतकुण्डलगण्डस्तण्डुमड्डनिनदोत्थलयाङ्घ्रिः ॥ ८८॥
नन्दिभृङ्गिकृतडिण्डिमनादैर्मण्डितो हि शिवया स हि रङ्गः ।
ढुण्ढिराजकृतशङ्खनिनादैस्तुण्डषट्ककृततूर्यनिनादैः ॥ ८९॥
जटाच्छटविघर्षिताः परिपतन्ति तारागणा
वमन्ति रुधिरम्मुखैर्भुवननागनागा नगाः ।
जगन्नटनसम्भ्रमाद्भवति हेलयान्दोलितं
हरीन्द्रविधयस्सुरा मुनिजनास्सकम्पाङ्गकाः ॥ ९०॥
अष्टावक्त्रसुगीतसाममुरजोच्चण्डप्रचण्डोल्लस-
ड्डिण्डीमध्वनिमड्डुमद्दलमहासामाष्टदंष्ट्रारवैः ।
भ्राजत्पद्मजमुण्डषण्डजमहामालालसद्वक्षसं
लीलाचालितहस्तकङ्कणमहानागोर्ध्वमौलीलसत् ॥ ९१॥
रत्नाप्लावितकान्तिरञ्जितदृशं नृत्यन्तमैक्षच्छिवा
चोद्यद्भानुमरीचिसन्निभजटासाम्राज्यपट्टायिता ।
लोलन्नीलसुरत्नपङ्कजलसद्गङ्गातरङ्गोत्थिता
पारावारसुधाघनोत्थनटनाटोपा फणीमञ्जुलम् ॥ ९२॥
आनम्राखिललोकजालमुमया सद्रत्नरङ्गान्तरे
नृत्यन्तं ददृशुस्सरुद्रगणपाः कैलासमौलिस्थितम् ।
झलञ्झलितकङ्कणं पदवलत्क्वणन्नूपुरं
किणीकिणितसध्वनिं स्फटिकरत्नसन्मेखलम् ॥ ९३॥
घुणङ्घुणकृतारवं पदगरत्नमञ्जीरकं
चटच्चटरवोत्थितप्रपदपद्मघोषं शिवम् ॥ ९४॥
तौर्यत्रिकोत्थितमहारवजातघोषलोकत्रयोद्गतसुरासुरकिन्नरेड्यम् ।
मन्दस्मिताखिलविमोहनवेषभूषं राजच्छशाङ्कमहसा धवलीकृताशम् ॥ ९५॥
तं नीललोहितमुमा जगदादिहेतुं नृत्यन्तमिष्टदमुपैति च तुष्टच(व)क्रम् ।
अष्टाकृतिं निखिलकष्टहरं प्रदोषेऽपश्यच्छिवा सकरुणारससारदृष्ट्या ॥ ९६॥
तां वीक्ष्यागसुतां स्मयन्निव महादेवस्सकैलासभू-
कैलासेश्वरपूजया सरसया कष्टानि सञ्जहिवान् ।
लोकानां गणपात्मनामथ उमां प्राह प्रसन्नाननः
पश्याम्बेति वदन्त्सदाशिवतरोर्मुग्धेन्दुचूडश्शिवः ॥ ९७॥
ईश्वर उवाच -
कैलासेश्वरलिङ्गमेतदमलं मुक्तिप्रदं शाश्वत-
ञ्चापातालनिमग्नमूलमसकृत्सम्पूजितं तन्मया ।
तस्योर्ध्वामलमौलिरप्यगसुते जानन्ति नैवागमा
देवाद्यैर्मुनिभिस्त्वयापि च मया को वास्ति तत्पूजकः ॥ ९८॥
पूजापूजकपूज्यशब्दरहितं तत्केवलोऽहं शिवः
तल्लिङ्गं वरदं सदाशिवमयं मच्छैलराजे शिवे ।
(तल्लिङ्गं च सदा चकास्ति(गिरिजे)मच्छैलवर्येऽम्बिके ।)
तद्दर्शनार्थं मुनयस्सुरासुरास्तप्यन्ति चाद्यापि जगत्यविप्लवाः (हराजविष्णवः) ॥ ९९॥
देव्युवाच -
त्वयापि न ज्ञायत इत्यहो मे साश्चर्यमुक्तं हि त्वया सदाशिव ।
तवापि तत्किं कृतलिङ्गपूजया रहस्यमेतन्मम तद्वद प्रभो ॥ १००॥
इत्युक्तं गिरिजामनोहरवचश्श्रुत्वा महस्याम्बिकां
लोकं स्रष्टुमथात्ति पाति सुतरान्तत्पालकश्शङ्करः ।
वाचा चन्दनशीतया सुखकरश्शीतांशुधारी शिवः
प्राहोत्फुल्लमनोहराब्जवदनो देवीं तदा भूतपः ॥ १०१॥
ईश्वर उवाच -
नकर्मणा नैव समाधिभिर्जपैस्तपस्यया वा विविधैश्च यज्ञैः ।
व्रतैश्च दानैर्नियमैर्ममेश्वरि प्राप्नोति किम्मत्पदपूजनं विना ॥ १०२॥
तस्मादहं लिङ्गवरं सदा मुदा सम्पूजयामीष्टदमेव लोकान् ।
संशिक्षितुं कार्यमिदं विमुक्त्यै सर्वार्थदञ्चेति मतम्मुदे मम ॥ १०३॥
ध्यायामि तद्वेदशिरोऽधिगम्यमोङ्कारगम्यं परमार्थतत्वम् ।
सत्यं शिवं ज्ञानसुखं सुबोधन्निर्द्वन्द्वमद्वैतमनन्तरूपम् ॥ १०४॥
एकं स्थिरं शाश्वतमव्ययं तत्प्राक्सृष्टितो विश्वमिदन्न यत्र ।
संवीक्षितं तत्पुनरुद्बभूव तदेव जाये हृदि भावयामि ॥ १०५॥
यस्मात्परन्नापरमस्ति किञ्चित् यस्मागरीयो (यस्मादणीयः) न हि किञ्चिदस्ति ।
येनैव पूर्णं परिदृश्यमानं विश्वन्तदेवाद्य विभावयामि ॥ १०६॥
इत्युक्त्वा गिरिजां महाशिवतरोद्ध्यायन्भवस्स्थाणुव-
न्निर्व्यापारतरङ्गसागर इवाप्य(त्य)क्षुब्ध(क्षुद्र)गात्रश्शिवः ।
देवीचापि मुमोद हर्षभरिता(ऽऽ)नन्दाङ्गकास्ते गणाः
चेत्थं तस्य (इत्येस्तस्य) सुपूजनं मुनिवरास्सत्यं वदामि स्फुटम् ॥ १०७॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरप्रदोषपूजावर्णने
देव्याप्रति ईश्वरप्रोत्क्तं कैलासेश्वरप्रदोषपूजाकथनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १३ - कैलासेश्वरप्रदोषपूजावर्णनम् । ३३-१०७॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 13 - kailAseshvarapradoShapUjAvarNanam . 33-107..
Notes:
Śiva शिव details to devI; the process and merits of Kailāśeśvaraliṅga Pradoṣa Pūjā कैलाशेश्वरलिङ्ग प्रदोष पूजा.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan