कलहंसद्विजकृतं शिवस्तोत्रम्
शङ्करस्तु द्रुतं तत्र साक्षात् हसन् समाययौ ।
कलहंसो नमश्चक्रे स्तोतुं समुपचक्रमे ॥ ९॥
नमो भक्तकृपायुक्त महादेव नमोऽस्तु ते ।
नमः शिवाय भक्तानामिष्टप्रदाय ते नमः ॥ १०॥
भवसागरमग्नानामुद्धारकाय ते नमः ।
परब्रह्मस्वरूपाय वैष्णवाग्र्याय ते नमः ॥ ११॥
ॐ नमः श्रीकृष्णनारायणात्मकाय ते नमः ।
पार्वतीपतये प्रभास्वामिदेवाय ते नमः ॥ नारायणीशरूपाय जयाध्यक्षाय ते नमः ।
सर्वबीजस्वरूपाय कारणाय नमो नमः ॥ १३॥
शम्भुः स्तोत्रं शुभं श्रूत्वा वरं वृणु जगाद तम् ।
कलहंसेश्वरं तीर्थं वव्रे च ऋषिसत्तमः ॥ १४॥
तत्र प्राणैर्वियुक्तानां मोक्षं वव्रे शुभं वरम् ।
शम्भुः प्राह तथैवाऽस्तु चान्ते मुक्तिस्तवाऽस्तु च ॥ १५॥
अन्तर्धानं ययावुक्त्वा कलहंसोऽपि सर्वथा ।
भजित्वा नार्मदं तीर्थं चान्ते ब्रह्मपदं ययौ ॥ १६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५५८-अध्यायान्तर्गतं
कलहंसद्विजकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५५८/९-१६॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 558/9-16..
Proofread by PSA Easwaran