श्रीकल्लेश्वरस्तोत्रम्
(वसन्ततिलकवृत्तम्)
जीवेशविश्वसुरयक्षनृराक्षसाद्याः
यस्मिन् स्थिताश्च खलु येन विचेष्टिताश्च ।
यस्मात्परं न च तथाऽऽपरमस्ति किञ्चित्
कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ १॥
यो निष्क्रियो विगतमायविभुः परेशः
नित्यो विकाररहितो भुवि निर्विकल्पः ।
सत्योऽद्वितीय इति यं श्रुतयो ब्रुवन्ति
कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ २॥
कल्पद्रुमं प्रणतभक्तहृदन्धकारं
मायाविलासमखिलं विनिवर्तयन्तम् ।
चित्सूर्यरूपमखिलं विनिवर्तयन्तं
कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ ३॥
स्तोत्रं कल्लेश्वरस्येदं सत्कामितसुरद्रुमम् ।
पठन्ति ये नरास्तेषां भवबन्धोऽपि नश्यति ॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीकल्लेश्वरस्तोत्रं सम्पूर्णम् ।
रचनास्थानं - बदरिकल्लेश्वरक्षेत्रं,
बदरिकाश्रमादागमसमये मध्ये मार्गं
Proofread by Manish Gavkar