कल्पेश्वरस्तोत्रम्
(वसन्ततिलका वृत्तम्)
जीवेशविश्वसुरयक्षनृराक्षसाद्याः
यस्मिंस्थिताश्च खलु येन विचेष्टिताश्च ।
यस्मात्परं न च तथाऽपरमस्ति किञ्चित्
कल्पेश्वरं भवभयार्तिहरं प्रपद्ये ॥ १॥
यं निष्क्रियो विगतमायविभुः परेशः
नित्यो विकाररहितो निजविर्विकल्पः ।
एकोऽद्वितीय इति यच्छ्रुतया ब्रुवन्ति
कल्पेश्वरं भवभयार्तिहरं प्रपद्ये ॥ २॥
कल्पद्रुमं प्रणतभक्तहृदन्धकारं
मायाविलासमखिलं विनिवर्तयन्तम् ।
चित्सूर्यरूपममलं निजमात्मरूपं
कल्पेश्वरं भवभयार्तिहरं प्रपद्ये ॥ ३॥
इति श्रीमत् परमहंस परिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना
विरचितं श्रीकल्पेश्वरस्तोत्रं सम्पूर्णम् ।
(रचनास्थलं - स्वर्गाश्रम, हृषीकेश ।
रचनाकालः - कार्तिक वद्य ११ शके १८६८)
Proofread by Paresh Panditrao