कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा

कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा

कपिलः - (इन्दिरे)शरणं याहि शङ्करं लोकशङ्करम् । स सर्वमङ्गलाकान्तो मङ्गलानि प्रयच्छति ॥ ४२॥ स सर्वमङ्गलाकारः सर्वमङ्गलदायकः । मङ्गलानां स जनकोऽप्यमङ्गलहरो हरः ॥ ४३॥ अमङ्गलहरे सति त्रिपुरकाननध्वंसके प्रचण्डतरपावके मदनमर्दके संस्मृते । अमङ्गलसरिद्वरप्रलय एव तावद्भवेत् समुद्रतनये सदा शुभनदीसमूहोदये ॥ ४४॥ न कोऽपि जानाति शिवप्रभावमतो न तस्य स्मरणे प्रवृत्तः । अतो विनाशो भवतीति मन्ये सदा महादेवपराङ्मुखानाम् ॥ ४५॥ केनापि दृष्टं न महेशरूपं शुभप्रवाहात्मकमप्रमेयम् । स्मृते शिवे चेतसि मङ्गलानि पदे पदे शोभनदानि नित्यम् ॥ ४६॥ प्रचण्डः - कैलासवासी भगवानेकस्तिष्ठति शङ्करः । तत्पूजकानामस्माकं भयं सम्भावितं च न ॥ ७१॥ पूजयस्व महादेवं लिङ्गरूपिणमव्ययम् । अपारैरुपचारैस्तं भयं सन्त्यज सन्त्यज ॥ ७२॥ यदा मोहेन नास्माकं शिवे भक्तिर्भविष्यति । तदा भयं भवत्येव दुःखधारा पदे पदे ॥ ७३॥ येन स्मृतो महादेवः संसारात् स विमुच्यते । भयानां तत्र का वार्ता भयलेशोऽपि वा कथम् ॥ ७४॥ क्रूरः - मृत्युञ्जयाभ्यर्चनेन जयः खलु पदे पदे । अतो जयार्थं यत्नेन यजेन्मृत्युञ्जयं प्रभुम् ॥ १२५॥ लक्ष्मीः - पुनः पुनरिदं ज्ञातं शङ्कराराधनं विना । सुखं नेति विशेषेण ज्ञातमत्र न संशयः ॥ १३९॥ सर्वज्ञेन ज्ञायते धर्मतत्वं योगाभ्यासात् शङ्कराराधनेन । एतत्सर्वं निश्चयेनाशु तावत् वक्तव्यं मे येन दुःखापहारः ॥ १४२॥ न जाने न जाने न जाने न जाने शिवान्यं न जाने न जाने न जाने । शिवाराधनेनैव सौख्यप्रवृद्धिः शिवाराधनेनैव सम्पत्प्रवृद्धिः ॥ ३२३॥ सुराः यत्सामर्थ्यमपारवेदनिकरैर्न ज्ञायते सर्वथा यत्पादाम्बुजपूजया जडमतिर्वागीश्वरीवल्लभः । स्याल्लक्ष्मीरमणः शचीपतिरपि स्वादिन्दुरग्निस्तथा भानुश्चेति तमीश्वरं गिरिसुताकान्तं भजे सन्ततम् ॥ ३८२॥ यं भक्तामरभूरुहं सुरकुलाराध्यं च सिद्धार्चितं गन्धर्वादिसमर्थितं च परमं प्राहुस्तमेकं शिवम् । ध्यात्वा चित्तमनन्तपातककुलापाराटवीकोटरा- पाराग्निं सुखरूपमेत्य सततं तच्चिन्तनाभ्युद्धृतम् ॥ ३८३॥ तं वन्दे मुहुरादरेण गिरिजावक्षोजकाश्मीरजापार- श्रीरसरञ्जितं प्रविलसत्कस्तूरिकाचित्रितम् । तत्पाटीररसाभिरूषितमपि व्याप्तं दुकूलोत्तमैः हारापारविराजमानवपुषं जोषं प्रदोषेष्वपि ॥ ३८४॥ यलिङ्गादभवत् समस्तमसकृद्भूमण्डलं कुण्डली यत्कर्णोत्तमकुण्डलं मणिगणश्रीमण्डलालङ्कृतम् । तं हारोत्तममानसाम्बुजवसं श्रीकर्णिकाश्रितं श्रीकान्तार्चितपादुकं भज मनः शैलात्मजाकामुकम् ॥ ३८५॥ ॥ इति शिवरहस्यान्तर्गते कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४०। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 40. vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Kapilaprachandadiprokta Shivarchanamahima
% File name             : kapilaprachaNDAdiproktAshivArchanamahimA.itx
% itxtitle              : shivArchanamahimA kapilaprachaNDAdiproktA (shivarahasyAntargataA)
% engtitle              : kapilaprachaNDAdiproktA shivArchanamahimA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 40 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org