कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा
कपिलः -
(इन्दिरे)शरणं याहि शङ्करं लोकशङ्करम् ।
स सर्वमङ्गलाकान्तो मङ्गलानि प्रयच्छति ॥ ४२॥
स सर्वमङ्गलाकारः सर्वमङ्गलदायकः ।
मङ्गलानां स जनकोऽप्यमङ्गलहरो हरः ॥ ४३॥
अमङ्गलहरे सति त्रिपुरकाननध्वंसके
प्रचण्डतरपावके मदनमर्दके संस्मृते ।
अमङ्गलसरिद्वरप्रलय एव तावद्भवेत्
समुद्रतनये सदा शुभनदीसमूहोदये ॥ ४४॥
न कोऽपि जानाति शिवप्रभावमतो न तस्य स्मरणे प्रवृत्तः ।
अतो विनाशो भवतीति मन्ये सदा महादेवपराङ्मुखानाम् ॥ ४५॥
केनापि दृष्टं न महेशरूपं शुभप्रवाहात्मकमप्रमेयम् ।
स्मृते शिवे चेतसि मङ्गलानि पदे पदे शोभनदानि नित्यम् ॥ ४६॥
प्रचण्डः -
कैलासवासी भगवानेकस्तिष्ठति शङ्करः ।
तत्पूजकानामस्माकं भयं सम्भावितं च न ॥ ७१॥
पूजयस्व महादेवं लिङ्गरूपिणमव्ययम् ।
अपारैरुपचारैस्तं भयं सन्त्यज सन्त्यज ॥ ७२॥
यदा मोहेन नास्माकं शिवे भक्तिर्भविष्यति ।
तदा भयं भवत्येव दुःखधारा पदे पदे ॥ ७३॥
येन स्मृतो महादेवः संसारात् स विमुच्यते ।
भयानां तत्र का वार्ता भयलेशोऽपि वा कथम् ॥ ७४॥
क्रूरः -
मृत्युञ्जयाभ्यर्चनेन जयः खलु पदे पदे ।
अतो जयार्थं यत्नेन यजेन्मृत्युञ्जयं प्रभुम् ॥ १२५॥
लक्ष्मीः -
पुनः पुनरिदं ज्ञातं शङ्कराराधनं विना ।
सुखं नेति विशेषेण ज्ञातमत्र न संशयः ॥ १३९॥
सर्वज्ञेन ज्ञायते धर्मतत्वं योगाभ्यासात् शङ्कराराधनेन ।
एतत्सर्वं निश्चयेनाशु तावत् वक्तव्यं मे येन दुःखापहारः ॥ १४२॥
न जाने न जाने न जाने न जाने शिवान्यं न जाने न जाने न जाने ।
शिवाराधनेनैव सौख्यप्रवृद्धिः शिवाराधनेनैव सम्पत्प्रवृद्धिः ॥ ३२३॥
सुराः
यत्सामर्थ्यमपारवेदनिकरैर्न ज्ञायते सर्वथा
यत्पादाम्बुजपूजया जडमतिर्वागीश्वरीवल्लभः ।
स्याल्लक्ष्मीरमणः शचीपतिरपि स्वादिन्दुरग्निस्तथा
भानुश्चेति तमीश्वरं गिरिसुताकान्तं भजे सन्ततम् ॥ ३८२॥
यं भक्तामरभूरुहं सुरकुलाराध्यं च सिद्धार्चितं
गन्धर्वादिसमर्थितं च परमं प्राहुस्तमेकं शिवम् ।
ध्यात्वा चित्तमनन्तपातककुलापाराटवीकोटरा-
पाराग्निं सुखरूपमेत्य सततं तच्चिन्तनाभ्युद्धृतम् ॥ ३८३॥
तं वन्दे मुहुरादरेण गिरिजावक्षोजकाश्मीरजापार-
श्रीरसरञ्जितं प्रविलसत्कस्तूरिकाचित्रितम् ।
तत्पाटीररसाभिरूषितमपि व्याप्तं दुकूलोत्तमैः
हारापारविराजमानवपुषं जोषं प्रदोषेष्वपि ॥ ३८४॥
यलिङ्गादभवत् समस्तमसकृद्भूमण्डलं कुण्डली
यत्कर्णोत्तमकुण्डलं मणिगणश्रीमण्डलालङ्कृतम् ।
तं हारोत्तममानसाम्बुजवसं श्रीकर्णिकाश्रितं
श्रीकान्तार्चितपादुकं भज मनः शैलात्मजाकामुकम् ॥ ३८५॥
॥ इति शिवरहस्यान्तर्गते कपिलप्रचण्डादिप्रोक्ता शिवार्चनमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४०। वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 40. vAvRRittashlokAH ..
Proofread by Ruma Dewan