कश्यपकृतं १ शिवस्तोत्रम्
कश्यप उवाच ।
लोकत्रयैकाधिपतेर्न यस्य कुत्रापि वस्तुन्यभिमानलेशः ।
स सिद्धनाथोऽखिलविश्वकर्ता भर्ता शिवाया भवतु प्रसन्नः ॥ १९॥
तापत्रयोष्णद्युतितापितानामितस्ततो वै परिधावतां च ।
शरीरिणां स्थावरजङ्गमानां त्वमेव दुःखव्यपनोददक्षः ॥ २०॥
सत्त्वादियोगस्त्रिविधोऽपि यस्य शक्रादिभिर्वक्तुमशक्य एव ।
विचित्रवृत्तिं परिचिन्त्य सोमं सुखी सदा दानपरो वरेण्यः ॥ २१॥
इति ब्रह्मपुराणे शततमाध्यायान्तर्गतं
कश्यपकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १००/१९-२१॥
brahmapurANa . adhyAya 100/19-21..
Proofread by PSA Easwaran