कविकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
कविः (उवाच) -
उच्चण्डताण्डवनिमग्नभुवोद्धृतेभ-
शुण्डोरुकाण्डविधृताब्जजसृष्टिपिण्डम् ।
ब्रह्माण्डभाण्डशकलाकलितोरुमुण्ड-
प्रोत्तुङ्गषण्डमगजापतिमानतोऽस्मि ॥ ३०॥
वेतण्डगण्डकलितेक्षणकुण्डलीश-
श्रीकुण्डलारुणमणिच्छविदीप्तगण्डम् ।
कोदण्डितोत्तमनगोद्धृतकाण्डबाण-
चण्डांशुसूनु विनिवारकमानतोऽस्मि ॥ ३१॥
त्रैलोक्यनाथं गिरिजासनाथं
कैलासनाथं कवितासनाथः ।
चित्ते दधानः प्रणिधानभावो
देवं सिषेवे गणनाथमूर्तिम् ॥ ३२॥
॥ इति शिवरहस्यान्तर्गते कविकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ६० । ३०-३२॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 60 . 30-32..
Proofread by Ruma Dewan