श्रीकेदारसहस्रनामस्तोत्रम्

श्रीकेदारसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीकेदारनाथाय नमः । श्रीदक्षिणामूर्तये नमः । श्रीरवलनाथाय नमः । कदाचित्सञ्चरन्योगी जामदग्न्याश्रमागतः । सत्कृतस्नेनतं प्राहश्लक्ष्णं मधुरयागिरा ॥ १॥ मुने रवलनाथस्य रत्नाचलनिवासिनः । सहस्रनामस्तोत्रं मे कथयस्व सविस्तरे ॥ २॥ एवं स योगिना पृष्ठो जामदग्न्यरुवाच तम् । त्वया रवळनाथस्य यत्पृष्ठो मङ्गलप्रदम् ॥ ३॥ सहस्रनामस्तोत्रं ते श‍ृणुष्व वदतो मम ॥ ४॥ अस्य श्रीकेदारसहस्रनामस्तोत्रमन्त्रस्य जामदग्न्यऋषिः, अनुष्टुप् छन्दः, श्रीरवलनाथ परमात्मादेवता, श्रीरवलनाथ प्रसादसिध्यर्थे जपे विनियोगः ॥ अथ न्यासः - ॐ रं अङ्गुष्ठाभ्यां नमः । ॐ वं तर्जनीभ्यां नमः । ॐ लं मध्यमाभ्यां नमः । ॐ नं अनामिकाभ्यां नमः । ॐ वं कनिष्ठिकाभ्यां नमः । ॐ लं करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि - ॐ रं हृदयाय नमः । ॐ वं शिरसे स्वाहा । ॐ लं शिखायै वौषट् । ॐ नं कवचाय हुम् । ॐ वं नेत्रत्रयाय वौषट् । ॐ यं अस्त्राय फट् ॥ अथ ध्यानं - ध्यायेद्देवं परेशं त्रिगुणगुणमयं ज्योतिरूपस्वरूपं वामेपात्रं त्रिशूलं डमरूगसहितं खड्गदक्षेविराजम् । शेषारूढं सुरेशं क्रमणपदयुगं भक्तकारुण्यगम्यं (कमलपदयुगं) सर्वाङ्गेलिङ्गभूषं उपवितसहितं नाथमार्गाधिपत्यम् ॥ १॥ दैत्यघ्नं भक्तपालं सकलमघहरं ज्ञानमानन्दचित्तम् । सर्वार्थं सर्वरूपं अगुणसगुणदं श्रीपदं नाथरूपम् ॥ २॥ शेषारूढो भवेद्विष्णु त्रिशूलीशिवरूपधृत् । उपवीतिभवेद् ब्रह्मा खड्गशक्तिसमन्वितः ॥ ३॥ सर्वदेवमयीमूर्तिः सर्वाराध्यस्वरूपवान् । सर्वाचरण मार्गाणां सर्वकर्मफलप्रदः ॥ ४॥ हेतुभूतशरीरस्थं हेतुसाधनवर्जितम् । अहेतुक सदानन्दं श्रीनाथप्रकृतीश्वरम् ॥ ५॥ अथ सहस्रनामस्तोत्रम् । ॐ श्रीनाथो रेणुकानाथो जगन्नाथो जगाश्रयः । श्रीगुरुर्गुरुगम्यश्च गुरुरूपो कृपानिधिः ॥ १॥ गणेशो गणनाथश्च गणपूज्यो गणाश्रयः । पीठेशो पीठरूपस्थो पीठपूज्यो सुखावहः ॥ २॥ भैरवो भैरवश्रेष्ठो भैरवायुधधारकः । सिद्धिः सिद्धिप्रदः साध्यः सिद्धमण्डलपूजितः ॥ ३॥ बटुरूपो बटुस्वामिन् बटुपालनकारणः । पदरूपो पदप्राप्तो पदेशः पदनायकः ॥ ४॥ दूतकर्मो दूतनाथः शाम्भवः शङ्करप्रदः । वीरो वीरप्रदः शूरो वीरेशो वरदायकः ॥ ५॥ वीरनाथो वीररूपो वीर आयुधधारकः । चतुराश्रमनिष्ठश्च चतुरमूर्तिश्चतुर्भुजः ॥ ६॥ षष्ठीशो घण्टिकारूपः पलसङ्केतवर्धकः । (घटिकानाथः) नवनाथो नवाङ्कस्थो नवचक्रेश्वरो विभुः ॥ ७॥ वीरावलिप्रियः शान्तो युद्धविक्रमदर्शकः । पञ्चपञ्चकतत्त्वस्थतत्त्वातीतस्वरूपकः ॥ ८॥ श्रीमन्तः श्रीकलानाथः श्रेयदः श्रेयवानिधिः । (श्रेयवरिधिः) मालाधरो मुनिश्रेष्ठो मुनिमानसहंसकः ॥ ९॥ (मनश्रेष्ठो मनोमानसहंसकः) मन्त्रराजो मन्त्ररूपो मन्त्रपुण्यफलप्रदः । गुरुमण्डलरूपस्थो गुरुमण्डलकारणः ॥ १०॥ तिथिमण्डलरूपश्च वृद्धिक्षयविवर्जितः । तिथिरूपस्तिथिप्रीतस्तिथिलावण्यसुन्दरः ॥ ११॥ प्रथमः प्रथमाकारो द्वितीयः शक्तिसंयुतः । गुणत्रयतृतीयाऽसौ युगरूप चतुर्थकः ॥ १२॥ पञ्चभूतात्मसाक्षीशो ऋतुषड्गुणभावनः । सप्तधातुस्वरूपश्च अष्टमः अष्टसिद्धिदः ॥ १३॥ नवनाद नवम्यस्थो दशदिग्रूपधारकः । रुद्रएकादशाकारो द्वादशादित्य दीपगः ॥ १४॥ सर्वसिद्धि त्रयोदश्यो मनुरूप चतुर्दशः । पूर्णरूप त्रिपञ्चस्थः त्रिपञ्चातीतमानसः ॥ १५॥ रकारो ब्रह्मरूपश्च वकारो विष्णुरव्ययः । लकारशिवरूपोऽसौ श्रीनाथप्रकृतीश्वरः ॥ १६॥ अकारादिक्षकारान्तवर्णसङ्करमन्त्रगः । व्यञ्जनो व्यञ्जनातीतो विसर्गः स्वरभूषणः ॥ १७॥ अनन्तः अव्ययस्त्वाद्यादिशक्तिवरप्रदः । आनन्द आद्यसंस्थान आद्यकारणलक्षणः ॥ १८॥ कर्ता कारयिताकार्यः कार्यकारण भावगः । कलानाथः कलातीतः काव्यनाटकबोधकः ॥ १९॥ कालहन्ता कालसाध्यः कालवक्तृ प्रवर्तकः । कालाग्नि रुद्रसन्दिप्तः कालान्तक भयङ्करः ॥ २०॥ खड्गीशः खड्गनाथश्चः खड्गशक्तिपरायणः । गर्वघ्नो दैत्यसंहर्ता गमागमविवर्जितः ॥ २१॥ घनश्यामो घनानन्दो घनधारा प्रवर्तकः । घनकर्ता घनत्राता घनबीज समृद्धिदः ॥ २२॥ ओङ्कारबीज साध्यश्च नादवर्णन साङ्गकः । चत्वारि वर्णरूपश्च चतुराश्रम निश्चयः ॥ २३॥ छन्दसार छन्दकर्ता छन्दान्वयधारकः । छत्रसिंहासनाधीशो भक्त छत्र समृद्धीमान् ॥ २४॥ जपो जपप्रियो जाप्यो जपसिद्धिप्रदायकः । जपसङ्ख्या जपाकारः सर्वमन्त्रजपप्रियः ॥ २५॥ झषरूपधरोदेवो झषवृद्धिविवर्धकः । यमशासनकर्ता च यमपूज्यो धनाधिपः ॥ २६॥ टङ्कायुध शिवप्रीतो ठकारो लाङ्गलाश्रयः । डमरू प्रीति डामर्यो तन्त्रडामर स्थापकः ॥ २७॥ ढकारढवलाध्यानः पशुपाश विमोचकः । नवार्णव जपप्रीतस्तन्त्री विग्रह विग्रहः ॥ २८॥ थकितश्चित्तचित्तस्थो दयारूपो दयाकरः । धनदो धननाथश्च धनधान्यप्रदायकः ॥ २९॥ नवरूपो नवश्रेष्ठो नरोत्तमनराधिपः । नरसंस्थानकर्ता च नरसर्वत्र व्यापकः ॥ ३०॥ नादो नादप्रियोनाद्यो नादब्रह्माण्डपूरकः । नादज्ञान रतो नित्यो नादान्त पददायकः ॥ ३१॥ पलरूपः पलातीतः पलाक्षरलक्षणः । पलसङ्ख्याक्षरोवर्ण सङ्ख्या सङ्ख्येयकारकः ॥ ३२॥ फलदः फलदाता च फलकर्ता फलप्रियः । फलाश्रयः फलातीतः फलमुक्तिनिरञ्जनः ॥ ३३॥ बलरूपो बलप्रीतो बलाश्रय निराश्रयः । बलानन्दो बलग्रामो बलिशो बलनायकः ॥ ३४॥ भविष्यज्ञो भयत्राता भयकर्ता भयारिहा । भावनारूपध्यानस्थो भावार्थफलदायकः ॥ ३५॥ मानस्थो मनमध्यस्थो मनमानविवर्जितः । मनः सन्तापहर्ता च मनमानसमोहनः ॥ ३६॥ मनःकल्पितकल्पस्थः कल्पनापूरणालयः । मनसङ्कल्प सङ्कल्पो मन सङ्कल्पपूरकः ॥ ३७॥ मनः स्वच्छन्दकर्ता च छन्दमानसतोषकः । मानसो मानसाक्षिस्थो मानसोल्हासकारणः ॥ ३८॥ मानातीत स्वयं मान्यो भक्तानन्दः समाश्रयः । मनःकामादिवाचांशो मनोबुद्धिविवर्जितः ॥ ३९॥ यशस्वीच यशः कर्ता यशेशो यशनायकः । यशमार्गो यशप्राप्तो यशमार्गसुदीपकः ॥ ४०॥ रकाराग्निबीजस्थो रवलाख्यानकीर्तनः । रत्नप्रभा रत्नदीप्तो रत्नासुरवधोत्सवः ॥ ४१॥ रतिनाथो रतिप्रीतो रतिलावण्यसुन्दरः । रमा प्रियकरो रम्यो रमासाम्य महोत्सवः ॥ ४२॥ रत्नाचलनिवासस्थो रत्नभूषणः भूषणः । रत्नेशो रत्नदाता च रत्नविक्रमविग्रहः ॥ ४३॥ लययोगो लयध्येयो लयसाधनसाधकः । लयालय जितोलभ्यो लब्धवाञ्छाप्रवर्तकः ॥ ४४॥ वर्धमानो वर्धरूपो वृद्धिभक्ति प्रियोत्तमः । नवस्थो नवरूपस्थो नवक्रीडापरायणः ॥ ४५॥ वयातीतो वयतृप्तो वरुणो वरुणालयः । वर्षाकालो वर्षरूपो वर्षान्तो वर्षणक्रमः ॥ ४६॥ शक्तिरूपः शक्तिदाता सर्वशक्तिपतिप्रभुः । शक्तिनाथः शक्तिजितः शक्ति एव उपासकः ॥ ४७॥ षण्मासायन् कर्ता च विषुवादि विभावकः । ऋतुकर्ता ऋतुप्रीत ऋतुषट् ग्रहाश्रयः ॥ ४८॥ सर्वत्रः सर्वदापूज्यो सर्वपूजकरक्षकः । सर्वसौभाग्यनित्यस्थो नित्यार्चन रताश्रयः ॥ ४९॥ सदाचार रतोनित्यो नित्याश्रयो निराश्रियः । सर्ववर्णमयो वर्णो वर्णधर्मपरायणः ॥ ५०॥ सर्वज्ञः सर्वगः सर्वः सर्वजित् सर्वनायकः । सर्वान्तरः सर्वव्यापी सर्वकर्मप्रवर्तकः ॥ ५१॥ सर्वार्थसाधकः साध्यः सिद्धिः साधन साधकः । साधनोपायदाता च साधना श्रेयदायकः ॥ ५२॥ हयासनसमारूढो हयनाथो हयाधिपः । हविर्भोक्ता हविःप्रीतो हव्यवाहनहव्यकृत् ॥ ५३॥ लकारवर्णभेदस्थो लघुरूपो लघुप्रियः । स्थूलरूपः स्थूलकार्यःस्थूलास्थूलविशालकः ॥ ५४॥ क्षमारूपो दयासिन्धुः क्षमालक्षणदायकः । क्षमाकारो क्षमानाथो क्षमापूरितलोचनः ॥ ५५॥ क्षमाचिन्तनप्रीतस्थ क्षमासाधन साधकः । क्षमावन्तातिप्रीतः क्षमासञ्चरणोन्मुखः ॥ ५६॥ ओङ्कारमूलमन्त्रस्थो मातृकार्णवः सम्भवः । मातृकाव्यापितब्रह्म मातृकासिद्धिदायकः ॥ ५७॥ षट्चक्रभेदकर्ता च षट्चक्राश्रयदायकः । षट्चक्रमातृकाव्याप्तो षट्चक्रवर्णलक्षणः ॥ ५८॥ मूलाधारनिवासश्च गणेशः सिद्धिदायकः । स्वाधिष्ठानो ब्रह्मरूपः प्रजाजननकारणः ॥ ५९॥ मणिपूरे महाविष्णुः इच्छाशक्तिसमन्वितः । अनाहतो महादेवो द्रव्यशक्तिसमाहितः ॥ ६०॥ जीवरूपो विशुद्धस्थो प्राणशक्तिसुखाश्रयः । हङ्क्षार्णगुरुरूपो सौहं मन्त्रार्धः समन्त्रगः ॥ ६१॥ सहस्रारे सहस्राक्षःशीर्षपाद सहस्रवान् । सहस्रायुध हस्तस्थो वर्णः साहस्रः कर्णिकः ॥ ६२॥ सञ्चिन्मयसमाधिस्थो बिन्दुरूप सुखाश्रयः । सर्वलक्षणसम्पन्नः सर्वत्रः सर्वतोमुखः ॥ ६३॥ सर्वज्ञः प्रीतिचित्तोऽसौ सर्वज्ञानप्रियोत्तमः । सर्वसंस्थानदेवस्थः सर्वशक्तिसमन्वितः ॥ ६४॥ सर्वेश्वरसर्वकार्यः कार्याकारणनिर्जिताः । ज्योतिरूपो जगत्साक्षी ज्योतिर्विज्ज्योतिराश्रयः ॥ ६५॥ ज्योतिर्लयो ज्योतिर्मूर्तिः ज्योतिःकर्ता जगाश्रयः । लिङ्गचिन्हितसर्वाङ्गो लिङ्गार्चनः प्रियोत्तमः ॥ ६६॥ एककालो द्विकालश्च त्रिकालः सार्वकालिकाः । कालकर्ता कालनेमी कालसंज्ञाख्य दीपकः ॥ ६७॥ उपासकप्रियोपास्य उपासकः प्रियङ्करः । महाकालो महारूपो महाशूरो महोत्सवः ॥ ६८॥ महाभागो महावेगो महायोगो महानिधिः । महानिर्वाणरूपस्थः चित्तनिर्वाणदर्शकः ॥ ६९॥ महाबोधो महायोद्धो स्वास्त्रप्रत्यस्त्रः वर्षकः । महायाग हविर्भोक्ता महाकर्मफलप्रदः ॥ ७०॥ ब्रह्मयज्ञो ब्रह्मरूपश्च ब्रह्मण्यो ब्राह्मणोत्तमः । ब्रह्मकर्मक्रियासक्तः कर्मब्रह्मस्वरूपकः ॥ ७१॥ क्षेत्रज्ञक्षेत्रपालश्च क्षेत्रकीर्तनः वर्धनः । क्षात्रधर्मप्रवीणश्च ख्यातिकर्ता क्षयातिगः ॥ ७२॥ विश्वरूपो विश्वकर्ता विश्वासफलदायकः । मुनिध्येयो मुनित्राता मुनिमानस हंसगः ॥ ७३॥ इच्छाज्ञान क्रियातीत इच्छाज्ञान क्रियाश्रयः । वाञ्छा कल्पलतारूपः कल्पना वाञ्छितप्रदः ॥ ७४॥ कल्पवृक्षः कल्पनस्थः कल्पनाकारमानसः । कल्पकर्ता कल्पसाक्षी महाकल्पप्रवर्तकः ॥ ७५॥ सामगायनसुप्रीतः सामवेदः प्रवर्तकः । वेदसारो वेदगम्यो वेदवेदाङ्गपारगः ॥ ७६॥ वेदान्तभाष्यरूपस्थो वेदान्तप्रीतिदायकः । भाष्यलक्षणवेदान्तः सिद्धान्तः सर्वदर्शकः ॥ ७७॥ शास्त्रार्थशास्त्रकर्ता च शास्त्रमार्गः प्रवर्तकः । शास्त्रशासनप्राप्तिस्थः शास्त्राधारो जगन्मयः ॥ ७८॥ अनन्तरूपः नित्यस्थः प्रकाशानन्दरूपकः । अखण्डानन्द दाता च पूर्णानन्दस्वरूपवान् ॥ ७९॥ निराधारो निराकारो निर्मलो निर्मलाश्रयः । निर्गुणो निर्गुणातीतो निष्कामो निरुपद्रवः ॥ ८०॥ नित्यमुक्तो निर्विकारो निःप्रपञ्चो निराश्रयः । नित्यसिध्यो नित्यसाध्यो नित्यानन्दः वरप्रदः ॥ ८१॥ निष्कारणो निष्कलङ्को निरूपाधिर्निरीश्वरः । निर्भेदो निरहङ्कारो निश्चितो निरहङ्कृतिः ॥ ८२॥ निर्मोहो मोहनाशश्च निर्ममो ममताहरः । निःपापः पापनाशश्च निःक्रोधः क्रोधनाशकः ॥ ८३॥ निःसंशयः संशयघ्नो निर्लोभो लोकनाशकः । निर्भावो भावनाशश्च निर्विकल्पो विकल्पहृत ॥ ८४॥ निर्भेदो भेदहन्ता च निर्नाशो मृत्युनाशकः । निन्दाद्वेषातीतकर्ता निन्दा द्वेषापहारकः ॥ ८५॥ गोपालो गोमतिप्रीतो गोधनादिप ईश्वरः । गोसाक्षी गोप्रवर्ता च गोरक्षको गुहाश्रयः ॥ ८६॥ ग्रहनक्षत्रसारस्थ सारक ज्योतिदायकः । तारणाश्रयरूपस्थः तारणाश्रयदायकः ॥ ८७॥ तारको तारकस्वामिन् तारणो तारणाश्रियः । एकतारो द्वितारश्च त्रितारो मन्त्रकाश्रयः ॥ ८८॥ एकरूपो एकनाथो बहुरूपस्वरूपवान् । लोकसाक्षी त्रिलोकेश त्रिगुणातीतमूर्तिमान् ॥ ८९॥ यज्ञपियो यज्ञकर्ता यजमानस्वरूपवान् । यजुर्वेदो यजुः साक्षी यजुर्वेदहविः प्रियः ॥ ९०॥ बालतारुण्यरूपस्थो वृद्धरूपप्रदर्शकः । अवस्थात्रयभूतस्थो अवस्था त्रयवर्जितः ॥ ११॥ वाचाचत्वारि निर्माण्यो वाचातीतप्रकाशवान् । वाच्यवाचक भावार्थो वाक्यार्थ प्रियमानसः ॥ १२॥ महावाक्यप्रमाणस्थो महावाक्यार्थ प्रबोधकः । अर्थसाक्षी अर्थरूपो ज्योतिरूपः प्रकाशवान् ॥ ९३॥ जिताहारो जितक्रोधो जितमानस मानसः । परमाणुः प्रमाणस्थो कोटी ब्रह्माण्डनायकः ॥ ९४॥ श्रीकृष्ण द्वारकानाथो गोपिका भोगदायकः । कंसारीः पूतनाहन्ता संसार श्रमनाशकः ॥ ९५॥ मुकुन्दो मुक्तिदाता च मुक्तो मुक्तजनाश्रयः । मुचुकुन्दवरप्रीतो दैत्यसंहारकारकः ॥ ९६॥ नादासक्तो नादकर्ता वेणुनादनतत्परः । गोपिका मनसंहर्ता गोपबालकनायकः ॥ ९७॥ गोवर्धनधरोगुप्तो भावना गुप्तसंज्ञकः । भावनापूरणश्रेष्ठो भावाभावविवर्जितः ॥ ९८॥ नरनारायणो विष्णुः कार्याकारणरूपवान् । कार्यसाक्षी कार्यरूपी कार्याकार्यः प्रवर्तकः ॥ ९९॥ पन्नगःपन्नगाधीशःपन्नगासनविग्रहः । पञ्चाशद्वर्णपीठस्थो पञ्चाक्षरजपप्रियः ॥ १००॥ स्वरविकृति कर्ता च स्वरातीतःस्वयंविभुः । स्वर्गतः स्वर्गतेर्दाता नियन्ता नियताश्रयः ॥ १०१॥ भूमिरूपो भूमिकर्ता भूधरो भूधराश्रयः । भूतनाथो भूतकर्ता भूतसंहारकारकः । भूतावासो भूपतिश्च भूतभद्रप्रदायकः ॥ १०२॥ भविष्यज्ञो भयत्राता भवदो भवहारकः । वरदो वरदाता च वरप्रीतो वरप्रदः ॥ १०३॥ कूटस्थःकूटरूपस्थः त्रिकूटो मन्त्रविग्रहः । मन्त्रार्थो मन्त्रगम्यश्च मन्त्रांशो मन्त्रभागकः ॥ १०४॥ सिद्धिमन्त्रः सिद्धिदाता जपसिद्धि स्वभागकः । नामातीतो नामरूपो नामरूपो गुणाश्रयः ॥ १०५॥ गुणकर्ता गुणत्राता गुणीतो गुणकारकः । गुणप्राप्तो गुणाधीशो गुणनिर्गुणहारकः ॥ १०६॥ अकारमन्त्ररूपस्थो आकारातीतभावनः । परमैश्वर्यदाता च परमप्रीतिदायकः ॥ १०७॥ परमः परमानन्दपरानन्दः परायणः । वैकुण्ठः पीठरूपस्थो वैकुण्ठो विष्णुविग्रहः ॥ १०८॥ कैलासवासी कैलासःशिवरूपीः शिवप्रदः । जटाजूटो भूषिताङ्गो भस्मधूसरभूषणः ॥ १०९॥ दिग्वाससो भागसंज्ञो दिगन्तरनिवासकः । ध्यानकर्ता ध्यानमूर्ति धारणा धारणप्रियः ॥ ११०॥ सत्त्वस्थस्तत्त्वरूपस्थो तत्त्वातीतोति तत्त्ववित् । तत्त्वसाम्यस्तत्त्वगम्यस्तत्त्वार्थस्तत्त्वदर्शकः ॥ ११॥ तत्त्वासनस्तत्त्वमार्गस्तत्त्वान्तस्तत्त्वविग्रहः । तत्त्वेश्वरस्तत्त्वनाथ तत्त्वदस्तत्त्वकारणः ॥ ११२॥ दर्शनातीतगोदृश्यो दृश्योतीतोऽतिदर्शकः । दर्शनो दर्शनातीतो भावनातिस्वरूपधृक् ॥ ११३॥ मणिपर्वतसंस्थानो मणिभूषणभूषणः । मणिप्रीतो मणिस्रष्टा मणिस्थो मणिरूपकः ॥ ११४॥ (मणिश्रेष्ठो) चिन्तामणिगृहान्तस्थ सर्वचिन्ताविवर्जितः । चिन्ताक्रान्तो चित्तभक्तचित्तज्ञ परचिन्तकः ॥ ११५॥ अचिन्त्यो चिन्त्यरूपश्च निश्चित्यो निश्चयात्मकः । निश्चयो निश्चयाधीशो निश्चयात्मकदर्शकः ॥ ११६॥ त्रिविक्रमस्त्रिकालज्ञः त्रिधामात्रः स्वयंविभुः । त्रिपुरान्तक सुप्रीतो गृहस्थो गृहवासकः ॥ ११७॥ परब्रह्म पञ्चधामा परमात्मा परन्तपः । सर्वेश्वरः सर्वमयः सर्वसाक्षी विलक्षणः ॥ ११८॥ मणिद्वीपो द्वीपनाथो द्वीपान्तो द्वीपरक्षकः । सप्तसागरकर्ता च सप्तसागरनायकः ॥ ११९॥ महीधरो महीभर्ता महीपालो महीस्वकः । महीव्याप्तो व्यक्तरूपः सुव्यक्तो व्यक्तभावनः ॥ १२०॥ सुवेषाढ्यः सुखप्रीतःसुगमो सुगमाश्रयः । नारसिंहो वीरसिंहो विराजो रञ्जनाश्रयः ॥ १२१॥ तापत्रयाग्नि सन्तप्तो समाह्लादनचन्द्रमाः । तरुणस्तपसाराध्यः तनमध्यस्तनोपहः ॥ १२२॥ पररूपः परध्येयः परदैवत दैवतः । ब्रह्मपूज्यो जगत्पूज्यो भक्तपूज्यो वरप्रदः ॥ १२३॥ आश्विनीचाश्व कर्तारो भरणीभरणोत्सवः । कृत्तिका कृत्यरूपश्च रोहिणी बीजरोहकः ॥ १२४॥ मृगशीर्ष मृगस्वामी आर्द्राच आर्द्रचित्तकः । पुनर्वसु वसुप्रीतः पुष्य पुष्यार्क उत्तमः ॥ १२५॥ आश्लेषा श्लेषनाशश्च मघा मघव गर्जकः । पूर्वापूर्वपरदैवं उत्तरा उत्तरोत्तराः ॥ १२६॥ हस्तोहस्त क्रियाशक्तिः चित्राचित्र विचित्रगः । स्वातिस्वस्थ मनश्चैव विशाखा विषहारकः ॥ १२७॥ अनुराधा राधिकेशो ज्येष्ठाज्येष्ठप्रियोत्तमः । मूलकन्दजगत् स्रष्टा पूर्वाषाढा धनाश्रयः ॥ १२८॥ उत्तराषाढा उद्योगो श्रवणः श्रवणप्रियः । धनिष्ठा धनरूपश्च शततारकतारकः ॥ १२९॥ पूर्वाभाद्रपदा भद्रो उत्तराभद्रदायकः । रेवतीरवलेशश्च सपिण्डाक्ष रविग्रहः ॥ ११३०॥ अद्वैतद्वैत चित्तस्थो द्वैताद्वैतविवर्जितः । अभेद्यःसर्वभेद्यश्च भेदाभेदक बोधकः ॥ १३१॥ लाक्षारस सुवर्णाभो लक्ष्मणो लक्ष्मणाग्रजः । अयोध्यावास कर्ता च रामरूप नृपोत्तमः ॥ १३२॥ धनुर्धरो धनुर्वेगो धनुर्भङ्गो धनुर्जितः । नृपरूपो नृपाधीशः प्लवङ्गम प्रियोत्तमः ॥ १३३॥ यागरक्षण कर्ता च हयमेध हविर्हविः । रावणान्तक रामश्च विभीषण वरप्रदः ॥ १३४॥ दैत्यसंहार कर्ता च अवतारपरोहरिः । सीतावरण कर्ता च सीताप्राणप्रियोत्तमः ॥ १३५॥ संविदेशः संविदात्मा संविज्ञानप्रदायकः । संवित्कर्ता च भक्तश्च संविदानन्दरूपवान् ॥ १३६॥ संशयातीत सर्वार्थः सर्वसंशय हारकः । निःसंशय मनोध्येयः संशयात्माति दूरगः ॥ १३७॥ शिवमन्त्रः शिवप्रीतो दीक्षाशैवस्य भावुकः । भूपशिक्षा कृतोभूपो भूपभूपत्वदायकः ॥ १३८॥ सर्वधर्म समायुक्तः सर्वधर्मविवर्धकः । धर्मार्थकाममोक्षस्थश्चातुर्वर्गफलप्रदः ॥ १३९॥ इच्छाज्ञानक्रियाकर्ता इच्छाज्ञानस्य साधकः । इच्छामय इच्छितश्रीः इच्छितार्थार्थनिश्चयः ॥ १४०॥ रविवंश कुलोत्पन्नः सर्ववंशाधिकारणः । सर्वशास्ता सर्ववेत्ता सर्वभोक्ता स्वतृप्तिवान् ॥ १४१॥ भक्तिभावावतारश्च भुक्तिमुक्तिप्रदायकः । भक्तसिद्धार्थसिद्धश्च सिद्धिबुद्धिप्रदायकः ॥ १४२॥ वाराणसी वासदाता वाराणसी वरप्रदः । वाराणसी नाथरूपो गङ्गामस्तकधारणः ॥ १४३॥ यमुनाप्रियवित्तश्च यमुनातीरः वासकः । गङ्गाधरो गिरिपतिर्गजचर्मविभूषणः ॥ १४४॥ पार्वतीशो पर्वतीशो पर्वतो पर्वतालयः । पर्वताश्रय कर्ता च लिङ्गपर्वत त्र्यम्बकः ॥ १४५॥ द्वादश ज्योतिर्लिङ्गश्च सर्वलिङ्गस्वरूपवान् । लिङ्गदेहो लिङ्गकर्ता लिङ्गपूज्योति दुर्लभः ॥ १४६॥ रुद्रप्रियो रुद्रसेव्यो रुद्ररूपो विराट्कृत् । मालारुद्राक्षभूषाङ्गो जपरुद्राक्षतोषकः ॥ १४७॥ सत्यसिन्धु सत्यदाता सत्यकर्ता सदाश्रयः । सत्यसाक्षी सत्यलक्ष्मी लक्ष्म्यातीतो मनोहरः ॥ १४८॥ जनको जगदाधीशो जननी जननीस्वरः । जगदो जगदाकारो जगद्रूपो जनाश्रयः ॥ १४९॥ सृष्टिस्थितो सृष्टिरूपो स्थितिरूपो स्थितिप्रदः । संहाररूपो कालाग्निः कालसंहारकारकः ॥ १५०॥ पञ्चवक्त्र पञ्चभूतस्त्रिनेत्रस्त्रिपुरारिहा । सप्तपाताल पादस्थो महदाकाशः शीर्षवान् ॥ १५१॥ जातवेदो महादेवः सद्योजातः श्रुतिः स्मृतिः । स्रष्टा सृष्टीकरश्रेष्ठो जयिष्ठो जयवर्धनः ॥ १५२॥ नागभूषो नागनाथो नागरूपो नगाधिपः । नागो नागक्रियो नाग्यो नागालय नगान्तकः ॥ १५३॥ अमिता अमृताकारो अमृतामृतरूपगः । अमृताकारचित्तस्थो अमृतोद्भव कारणः ॥ १५४॥ अमृताहार नित्यस्थो अमृत इव रूपवान् । अमृतांशो अमृताधीशो अमृतप्रीतिवर्धनः ॥ १५५॥ अनिर्देशो अहिशयो अनन्तो जगदाश्रयः । श्रेयदः श्रेयरूपश्च श्रेयातीत फलोत्तमः ॥ १५६॥ उत्तमानुत्तम ध्येयो ध्येयातीतोति धेयकृत् । ध्रुवसंस्थान दाता च ध्रुवनिश्चयः कारणः ॥ १५७॥ निश्चयो निश्चयश्रेष्ठो निश्चयातीतः निश्चयः । निश्चयाश्चित्त रहितश्चित्तनिश्चयकारकः ॥ १५८॥ सुरसः सुरसाक्षी च सारासार विचारणः । विचार्य मानमानस्थो विचारातीतधारणः ॥ १५९॥ धारणातीत भावस्थो धारणा चय गोचरः । गोचरो गोचरातीतातीव प्रियगोचरः ॥ १६०॥ प्रियातीतप्रियः स्वार्थः स्वार्थ स्वार्थः फलप्रदः । अर्थार्थसाक्षी लक्षांशो लक्षालक्षणविग्रहः ॥ १६१॥ विग्रहो विग्रहानाथो भक्तनाथो जनार्दनः । जगदीशो जगत् त्राता जगन्मयजगद्गुरुः ॥ १६२॥ गुरुमूर्ति स्वयंवेद्यो वेद्यवेदकरूपकः । रूपातीतो रूपकर्ता सर्वरूपार्थदायकः ॥ १६३॥ अर्थदो अर्थमान्यश्च अर्थार्थि अर्थदायकः । अर्थांशो अर्थकर्ता च अर्थान्तर मनोगतः ॥ १६४॥ मनोगतो मनस्वामिन् मनोबुद्धिपरायणः । बुद्धिप्रदो बुद्धिदाता विबुद्धो जनमानसः ॥ १६५॥ मानसो मानसाकारो मनसातीत मानसः । सर्वमानस सम्पूर्णः पूर्णाश्रयः जगत् प्रभुः ॥ १६६॥ विभवो वैभवश्रेष्ठो सर्ववैभवदायकः । चतुःषष्ठि कलाश्रेष्ठः सूत्रः षष्ठी कलालयः ॥ १६७॥ पुराण श्रवणाकालः पुराणपुरुषोत्तमः । पुरातनः पुराख्यात पूर्वजः पूर्वपूर्वगः ॥ १६८॥ मन्त्रतन्त्रार्थसर्वज्ञः सर्वतन्त्रप्रकाशकः । तन्त्रवेत्ता तन्त्रकर्ता तन्त्रान्तरतीदायकः ॥ १६९॥ (तन्त्रानन्तरनिवासकः) तन्त्रगम्यस्तन्त्रमान्यस्तन्त्रमन्त्रफलप्रदः । सर्वतन्त्रार्थ सर्वज्ञस्तन्त्रराजः स्वतन्त्रगः ॥ १७०॥ ब्रह्माण्डकोटिकर्ता च ब्रह्माण्डोदरपूरगः । ब्रह्मोपदेशदाता च ब्रह्मज्ञानपदायणः ॥ १७१॥ (ब्रह्मज्ञानपरायणः) जन्मकर्ता जन्मदाता जन्मकर्मफलप्रदः । जन्मनाशो जन्मवेद्यो जन्मान्तर निवासकः ॥ १७२॥ जगद्वन्द्यो जगत्पूज्यो जङ्गमो जङ्गमाश्रयः । जगदाधारकर्ता च जगदाधारणाकरः ॥ १७३॥ (जगदाकारकारणः) नरनारीशरीरस्थो नरनारीस्वभागकः । हेतुभूतो हेतुरूपो हेतुसाधनवर्जितः ॥ १७४॥ सर्वधातुस्वरूपस्थः सर्वधातुविवर्जितः । स्वयम्भूः शम्भुरूपश्च सर्वसंशयहारकः ॥ १७५॥ सोऽहम्भावस्वभावश्च सोऽहंरूपः प्रदर्शकः । (हंसविग्रहनिग्रहः) सोऽहमस्मिती नित्यस्थो सोऽहं हंसस्वरूपवान् ॥ १७६॥ सोऽहं हंसस्वरूपश्च हंसविग्रहनिस्पृहः । श्वासनिश्वास विश्वासः केदारो रवलेश्वरा ॥ १७७॥ फलश्रुतिः । अष्टाधिकसहस्रैस्तु नामसाहस्रमुत्तमम् । कीर्तयन्ति सदातेषामिच्छितार्थफलं लभेत् ॥ १७८॥ एककालं द्विकालं वा त्रिकालं नित्यमेव च । शत्रुवस्तस्य नश्यन्ति क्षमारूपो भविष्यति ॥ १७९॥ नित्यं सङ्कीर्तनासक्तः कीर्तयेत् पुण्यवासरे । सङ्क्रान्तौ विषुवश्चैव पौर्णिमास्यां विशेषतः ॥ १८०॥ पौर्णिमास्यां रविवारे सप्तत्रिवारे (एकविंशतिः) पाठकः । स्वप्नेदर्शनमाप्नोति कार्यमार्गोऽपि दृश्यते ॥ १८१॥ (कार्यभोगोऽपि) रविवारे दशावृत्या रोगनाशो भविष्यति । सर्वदा सर्वकार्येषु जपः सिद्धिश्च सर्वदा ॥ १८२॥ धनार्थी धनमाप्नोति यशार्थी यशमाप्नुयात् । विद्यार्थी लभते विद्यां ज्ञानार्थी ज्ञानमाप्नुयात् ॥ १८३॥ पुत्रार्थी लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् । निष्कामं कीर्तयेन्नित्यं ब्रह्मज्ञानमयोभवेत् ॥ १८४॥ बिल्वैर्वा तुलसीपत्रैश्चम्पकैः बकुलादिभिः । कल्हारैर्जाति कुसुमैरम्बुजैर्वा तिलाक्षतैः ॥ १८५॥ एभिर्नामसहस्त्रैतु अर्चयेद्भक्तिमान्नरः । कुलं तारयते तेषां कल्पकोटी समन्वितः ॥ १८६॥ षट्त्रिंशद्दिनपर्यन्तं त्रिरावृत्या पठेन्नरः । एकचित्तो अर्थयुक्तो सत्यवाक्सिद्धिनिश्चयः ॥ १८७॥ द्विमासञ्च त्रिमासञ्च षण्मासं एकभक्तितः । आयुःकीर्तिश्च ऐश्वर्यं प्राप्नोत्येव न संशयः ॥ १८८॥ भूपो भूपत्वमाप्नोति वैश्यो धनपतिर्भवेत् । सस्यानि बहुशूद्रस्य निश्चितार्थेन सिध्यति ॥ १८९॥ यं यं वाञ्छति यो वर्णः सिद्धिर्भवति वाञ्छति । प्रातःस्नात्वा विधानेन नित्यकर्म समाप्य च ॥ १९०॥ सम्यक् पूजाविधिः कुर्यान्नामपाठस्तदन्तरम् । पूजा कर्तुमशक्तोऽपि पूजाफलमवाप्नुयात् ॥ १९१॥ इति श्रीब्रह्माण्डपुराणे केदारमाहात्म्ये जमदग्नि अगस्ति संवादे जमदग्नि प्रोक्तं श्रीकेदारसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीकेदारनाथचरणार्पणमस्तु ॥ ॥ शुभं भवतु ॥ Although it is mentioned in colophone that the stotra is in Brahmandapurana, the location is not traceable in the printed book. Proofread by Aruna Narayanan
% Text title            : Kedara Sahasranama Stotram
% File name             : kedArasahasranAmastotram.itx
% itxtitle              : kedArasahasranAmastotram
% engtitle              : kedArasahasranAmastotram
% Category              : shiva, sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : brahmANDapurANe kedAramAhAtmye jamadagni agasti saMvAde
% Indexextra            : (Scans 1, 2)
% Latest update         : October 1, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org