क्रमस्तोत्रम्
अयं दुःखव्रातव्रतपरिगमे पारणविधि-
र्महासौख्यासारप्रसरणरसे दुर्दिनमिदम् ।
यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरो-
र्विभोः स्तोत्रे शाश्वत्प्रतिफलति चेतो गतभयम् ॥ १॥
विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं
तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये ।
विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये
तदित्थं त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥ २॥
अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाक्
अनामृष्टः स्वात्मेत्यपि हि न विनाऽऽमर्शनविधेः ।
शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरस-
स्ततोऽहं त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥ ३॥
विचित्रैर्जात्यादिभ्रमणपरिपाटीपरिकरै-
रवाप्तं सार्वज्ञं हृदय यदयत्नेन भवता ।
तदन्तस्त्वद्वोधप्रसरसरणीभूतमहसि
स्फुटं वाचि प्राप्य प्रकटय विभोः स्तोत्रमधुना ॥ ४॥
विधुन्वानो बन्धाभिमतभवमार्गस्थितिमिमां
रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभिदाम् ।
विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात्
पिबन् भावानेतान् वरद मदमत्तोऽस्मि सुखितः ॥ ५॥
भवप्राज्यैश्वर्यप्रथितबहुशक्तेर्भगवतो
विचित्रं चारित्रं हृदयमधिशेते यदि ततः ।
कथं स्तोत्रं कुर्यादथ च कुरुते तेन सहसा
शिवैकात्म्यप्राप्तौ शिवनतिरुपायः प्रथमकः ॥ ६॥
ज्वलद्रूपं भास्वत्पचनमथ दाहं प्रकटनं
विमुच्यान्यद्वह्नेः किमपि घटते नैव हि वपुः ।
स्तुवे संविद्रश्मीन् यदि निजनिजांस्तेन स नुतो
भवेन्नान्यः कश्चिद् भवति परमेशस्य विभवः ॥ ७॥
विचित्रारम्भत्वे गलितनियमे यः किल रसः
परिच्छेदाभावात् परमपरिपूर्णत्वमसमम् ।
स्वयं भासां योगः सकलभवभावैकमयता
विरुद्धैर्धर्मौघैः परचितिरनर्घोचितगुणा ॥ ८॥
इतीदृक्षै रूपैर्वरद विविधं ते किल वपु-
र्विभाति स्वांशेऽस्मिन् जगति गतभेदं भगवतः ।
तदेवैतत्स्तोतुं हृदयमथ गीर्बाह्यकरण-
प्रबन्धाश्च स्युर्मे सततमपरित्यक्तरभसः ॥ ९॥
तवैवैकस्यान्तः स्फुरितमहसो बोधजलधे- (तवैकैकस्यान्तः)
र्विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः ।
त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां
शशाङ्कार्काग्नीनां युगपदुदयापायविभवाः ॥ १०॥
अतश्चित्राचित्रक्रमतदितरादिस्थितिजुषो
विभोः शक्तिः शश्वद् व्रजति न विभेदं कथमपि ।
तदेतस्यां भूमावकुलमिति ते यत्किल पदं
तदेकाग्रीभूयान्मम हृदयभूर्भैरव विभो ॥ ११॥
अमुष्मात् सम्पूर्णात् वत रसमहोल्लाससरसा-
न्निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः ।
अनर्घं स्वातन्त्र्यं तव तदिदमत्यद्भुतमयीं
भवच्छक्तिं स्तुन्वन् विगलितभयोऽहं शिवमयः ॥ १२॥
इदन्तावद्रूपं तव भगवतः शक्तिसरसं
क्रमाभावादेव प्रसभविगलत्कालकलनम् ।
मनःशक्त्या वाचाप्यथ करणचक्रैर्बहिरथो
घटाद्यैस्तद्रूपं युगपदधितिष्ठेयमनिशम् ॥ १३॥
क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां
स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः । (देवः)
क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां
त्रिरूपां भूयासं समधिशयितुं व्यग्रहृदयः ॥ १४॥ (त्रिरूपा)
परा सृष्टिर्लीना हुतवहमयी यात्र विलसत्- (विलसेत्)
परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा ।
हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो
तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसतात् ॥ १५॥
विसृष्टे भावांशे बहिरतिशयास्वादविरसे
यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् ।
तदा रक्ता देवी तव सकलभावेषु ननु मां
क्रियाद्रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥ १६॥
बहिर्वृत्तिं हातुं चितिभुवमुदारां निवसितुं
यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः ।
स्थितेर्नाशं देवी कलयति तदा सा तव विभो
स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥ १७॥
जगत्संहारेण प्रशमयितुकामः स्वरभसात्
स्वशङ्कातङ्काख्यं विधिमथ निषेधं प्रथयसि ।
इमं सृष्ट्वेत्थं त्वं पुनरपि च शङ्कां विदलयन् (यमं सृष्ट्वेत्थं)
महादेवी सेयं मम भवभयं सन्दलयताम् ॥ १८॥
विलीने शङ्कौघे सपदि परिपूर्णे च विभवे
गते लोकाचारे गलितविभवे शास्त्रनियमे ।
अनन्तं भोग्यौघं ग्रसितुमभितो लम्पटरसा
विभो संसाराख्या मम हृदि भिदांशं प्रहरतु ॥ १९॥
तदित्थं देवीभिः सपदि दलिते भेदविभवे
विकल्पप्राणासौ प्रविलसति मातृस्थितिरलम् ।
अतः संसारांशं निजहृदि विमृश्य स्थितिमयी
प्रसन्ना स्यान्मृत्युप्रलयकरणी मे भगवती ॥ २०॥
तदित्थं ते तिस्रो निजविभवविस्फारणवशा-
दवाप्ताः षट्चक्रं क्रमकृतपदं शक्तय इमाः ।
क्रमादुन्मेषेण प्रविदधति चित्रां भुवि दशा-
मिमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥ २१॥
इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीं
इमां बोधैकान्तद्रुतिरसमयीं चापि विदधे ।
तदित्थं सम्बोधद्रुतिमथ विलुप्याशुभतती-
र्यथेष्टं चाचारं भजति लसतात् सा मम हृदि ॥ २२॥
क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवी-
मवाप्तस्य स्फारं निजनिजरुचा संहरति या ।
इयं मार्तण्डस्य स्थितिपदयुजः सारमखिलं
हठादाकर्षन्ती कृषतु मम भेदं भवभयात् ॥ २३॥
समग्रामक्षालीं क्रमविरहितामात्मनि मुहु-
र्निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा ।
परा दिव्यानन्दं कलयितुमुदारादरवती
प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च ॥ २४॥
प्रमाणे संलीने शिवपदलसद्वैभववशा-
च्छरीरं प्राणादिर्मितकृतकमातृस्थितिमयः ।
यदा कालोपाधिः प्रलयपदमासादयति ते
तदा देवी यासौ लसति मम सा स्ताच्छिवमयी ॥ २५॥
प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो
बहिर्लीनात्यन्तं प्रसरति समाच्छादकतया ।
ततोऽप्यन्तःसारे गलितरभसादक्रमतया
महाकाली सेयं मम कलयतां कालमखिलम् ॥ २६॥
ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि
क्रमं विच्छिद्याशु स्थितिमतिरसात्संविदधति ।
प्रमाणं मातारं मितिमथ समग्रं जगदिदं (मितमथ)
स्थितां क्रोडीकृत्य श्रयति मम चित्तं चितिमिमाम् ॥ २७॥
अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस्ताः ।
तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ॥ २८॥
इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् (बन्धात्)
आकर्ण्य देव यदि मे व्रजसि प्रसादम् ।
तेनाशु सर्वजनतां निजशासनांशु-
संशान्तिताखिलतमःपटलां विधेयाः ॥ २९॥
षट्षष्ठिनामके वर्षे नवम्यामसितेऽहनि ।
मयाऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ ३०॥
॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Ruma Dewan