कुळीराष्टकम्

कुळीराष्टकम्

तवास्याराद्धारः कति मुनिवराः कत्यपि सुराः तपस्यासन्नाहैः सुचिरममनोवाक्पथचरैः । अमीषां केषामप्यसुलभममुष्मै पदमदाः कुळीरायोदारं शिव तव दया सा बलवती ॥ १॥ अकर्तुं कर्तुं वा भुवनमखिलं ये किल भव- न्त्यलं ते पादान्ते पुरहर वलन्ते तव सुराः । कुटीरं कोटीरे त्वमहह कुळीराय कृतवान् भवान् विश्वस्येष्टे तव पुनरधीष्टे हि करुणा ॥ २॥ तवारूढो मौळिं तदनधिगमव्रीळनमितां चतुर्वक्त्रीं यस्त्वच्चरणसविधे पश्यति विधेः । कुळीरस्यास्यायं कुलिशभृदलक्ष्यश्शिव भव- द्दया सेयं त्वामप्यधरितवती किं न कुरुताम् ॥ ३॥ श्रुतिस्मृत्यभ्यासो नयनिचयभूयःपरिचयः तथा तत्तत्कर्मव्यसनमपि शुष्कश्रमकृते । त्वयि स्वान्तं लग्नं न यदि यदि लग्नं तदियता जिता कैवल्यश्रीः पुरहर कुळीरोऽत्र गमकः ॥ ४॥ तपोभिः प्राग्जन्मप्रकरपरिनम्रैः पुररिपो तनौ यस्यां कस्यामपि स हि भवार्तिप्रतिभटः । त्वयि स्याद्धीबन्धस्तनुरचरमा सैव चरमा कुळीरो ब्रूते तन्महिमपथविद्वद्गुरुरयम् ॥ ५॥ धियो धानं नाम त्वयि शिव चिदानन्द परमो- न्मिषत्साम्राज्यश्रीकुरळरभसाकर्षकुतुकम् । कुळीरेण ज्ञातं कथमनधिगम्यं दिविषदां दया ते स्वच्छन्दा प्रथयति न कस्मै किमथवा ॥ ६॥ तदुच्चत्वं नैच्यं त्वितरदिति लोकाः शिव मुधा व्यवस्थामस्थाने विदधति च नन्दन्ति च मिथः। कुळीरस्त्वन्मौळिस्थितिमसुलभामेत्य स भवत्- कृपामुच्चत्वं तद्विरहमपि नैच्यं प्रथयति ॥ ७॥ कुळीरेशाख्यातिर्गिरिश कृपयोच्चैरुपहृता तवेयं भक्तायोन्नतिवितरणश्रीगमनिका । भवद्भक्त्युन्मीलत्फलगरिमटीकास्थितिजुषा कुळीरस्य ख्यात्या जगति सहचर्या विहरते ॥ ८॥ कुळीरेश स्तोत्रं त्वदनुपधिकानुग्रहभवं पठेयुर्ये नित्यं श‍ृणुयुरपि वा ये पुनरिदम् । प्रसादात्ते तेऽमी विधुतदुरितास्त्वय्यभिरताः भवेयुर्निर्यत्नाधिगतसकलाभीप्सितफलाः ॥ ९॥ कर्कटकचन्द्रयोगः कर्कटकेशान मूर्ध्नि ते दृष्टः । कारय वृष्टिममोघां वारय वर्षोपरोधदुर्योगम् ॥ १०॥ इति श्री श्रीधरवेङ्कटेशार्य विरचितं कुळीराष्टकं समाप्तम् ॥ Proofread by Rajani Arjun Shankar
% Text title            : Kulirashtakam
% File name             : kuLIrAShTakam.itx
% itxtitle              : kuLIrAShTakam
% engtitle              : kuLIrAShTakam
% Category              : shiva, shrIdhara-venkaTesha, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shridharavenkatesa of Tiruvisanallur or Ayyaval with respect
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajani Arjun Shankar
% Indexextra            : (Works)
% Latest update         : July 6, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org