ब्रह्मकृता श्रीकुम्भेश्वरस्तुतिः
ब्रह्मोवाच ।
नमो नमः कारणकारणाय
श्रीमत्सुधाकुम्भगविग्रहाय ।
कल्याणसान्द्राय गुणाकराय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ १॥
भीमाय भीमाधिहराय शम्भवे
नागाय शान्ताय मनोहराय ।
महाजटाजूटधराय भूतये
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ २॥
सर्वागमाम्नाय शरीरधारिणे
सोमार्कनेत्राय महेश्वराय ।
यज्ञाय यज्ञेश्वरपूजिताय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ३॥
कात्यायनीकामितदायकाय
दुर्गार्धदेहाय कृतागमाय ।
कालाय कालेश्वरपूजिताय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ४॥
विभूतिदानेकशरीरधारिणे
कल्पाय कल्पान्तकराय शम्भवे ।
विश्वाय वैश्वानरलोचनाय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ५॥
मायाप्रपञ्चाय मनोहराय
मायाघटेशाय महाऽऽधिहारिणे ।
मायाप्रपञ्चैकनिदानमूर्तये
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ६॥
भोगीन्द्रसम्पूजितविग्रहाय
भोगीन्द्रभूषाय भवान्तकाय ।
श्रीभारतीशकरपल्लवपूजिताय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ७॥
ताम्राय चामीकरभूषिताय
श्रीसोमकोटीरविभूषिताय ।
समस्तसत्क्षेत्रतलावराय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ८॥
सृष्टिस्थितिध्वंसनकारणाय
श्रीसृष्टिबीजाङ्गमनोहराय ।
सच्छास्त्रवेदान्तकळेबराय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ९॥
षड्वर्गसम्भेदनदीक्षिताय
षडाननादित्यफलप्रदाय ।
समस्तमन्त्रार्थनिदानरूपिणे
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ १०॥
कुम्भोद्भवप्रमुखपूजितविग्रहाय
वीराय वीरान्तकराय मायिने ।
भक्तेष्टदाननिपुणाय भवाब्धिपोत्रे
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ ११॥
मूलाय मूलागमपूजिताय
पाताळमूलाय निधीश्वराय ।
नित्याय सिद्धेश्वरपूजिताय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ १२॥
समस्तकल्याणवरप्रदाय
समस्तकल्याणनिदानमूर्तये ।
श्रीमङ्गळाम्बाऽर्चितपादपद्मिने
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ १३॥
लग्नाधिपेशाय ग्रहार्चिताय
श्रीकामधेनुसुरसङ्घसुपूजिताय ।
पञ्चाननाय परमार्थनिदर्शकाय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ १४॥
तीर्थाधिनाथाय फलप्रदाय
फलस्वरूपाय फलाङ्गधारिणे ।
श्रीमन्त्रपीठेश्वरिवल्लभाय
श्रीकुम्भलिङ्गाय नमश्शिवाय ॥ १५॥
कारुण्यनिधये तुभ्यं कल्याणगुणसिन्धवे ।
शूलिने मालिने तुभ्यं नमस्ते विश्वमूर्तये ॥ १६॥
अघोराय नमस्तुभ्यं वामदेवाय ते नमः ।
सद्योजाताय नीलाय लोहिताक्षाय ते नमः ॥ १७॥
चण्डखण्डाय शान्ताय कालकालान्तकाय च ।
रुद्राय नीलकण्ठाय नमो मृत्युञ्जयाय च ॥ १८॥
शिपिविष्टाय कालाय कालदण्डाय ते नमः ।
श्रीमते वेदनिधये वेदवेद्याय ते नमः ॥ १९॥
वैद्याय वसुनाथाय वरिष्ठाय नमोनमः ।
शर्वाय शाखिने तुभ्यं मदनाङ्गविभेदिने ॥ २०॥
चन्द्रचूडाय चण्डाय नमस्ते खण्डितारये ।
हरिकेशाय देवाय पुष्टानां पतये नमः ॥ २१॥
पशूनां पतये तुभ्यं वृषभाक्षाय ते नमः ।
वृषवाहाय विषवे पुण्यकालाय ते नमः ।
कार्यकारणरूपाय भेदभेद्याय ते नमः ॥ २२॥
पुरतः पृष्ठतश्चैव पार्श्वतस्ते नमोनमः ।
भूयो भूयो नमस्तुभ्यं भूयो भूयो नमोनमः ॥ २३॥
इति ब्रह्मकृता श्रीकुम्भेश्वरस्तुतिः सम्पूर्णा ।
Encoded from Tamil and proofread by Brahmashri Balaji Dvivedi