अकारादि क्षकारान्ता कुञ्चितपादसहस्रनामावलिः
अथ कुञ्चितपादसहस्रनामावलिः ।
ॐ अखण्डबोधाय नमः । अखण्डात्मने ।
अखण्डानन्दचिद्रूपाय । अगम्यमहिमाम्भोधये ।
अगम्याय । अगोचराय । अग्रण्ये । अग्रेवधाय ।
अग्रेसम्पूज्याय । अघोराय । अच्छेद्याय ।
अजीर्णाय । अणिमादिभुवे । अतर्क्याय ।
अत्युग्राय । अदीर्घाय । अद्भुतचारित्राय ।
अद्भुताय । अद्वयाकृतये । अद्वेष्ट्रे नमः । २०
ॐ अद्वैताय नमः । अध्वनां पतये । अनणवे ।
अनन्तरूपाय । अनन्तशक्तये ।
अनर्घरत्नखचितकिरीटाय । अनहङ्कृतये । अनाकाशाय ।
अनावरणविज्ञानाय । अनिर्देश्याय । अनिलाय ।
अनुत्तमाय । अनुमन्त्रे । अनौपम्ययशोनिधये ।
अन्तर्यामिने । अन्नानां पतये । अन्यस्मै ।
अन्वेष्टव्याय । अपरिच्छेद्याय । अपरोक्षाय नमः । ४०
ॐ अपर्यन्ताय नमः । अपस्मृतिन्यस्तपादाय ।
अप्रतिरथाय । अप्रमेयाय । अभयङ्कराय ।
अभिन्नाय । अमताय । अमन्यवे । अमानाय ।
अमानिने । अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणाय ।
अमृताधाराय । अमृतांशवे । अमृतोद्भवाय ।
अमोघवैभवाय । अरण्यानां पतये । अरुणाय ।
अलिङ्गाय । अलेपकाय । अवट्याय नमः । ६०
ॐ अवभासकाय नमः । अवर्ष्याय । अवशाय ।
अवार्याय । अविक्रियाय । अविशेषकाय ।
अव्यग्राय । अव्ययाकृतये । अव्ययाय । अव्रणाय ।
अशुभक्षयकृते । अश्रुताय । अस्नेहाय ।
अहन्त्याय । अह्रस्वाय । अक्षदाय । अक्षयाय ।
अक्षराय । आचार्याय । आतताविने नमः । ८०
ॐ आतन्वानाय नमः । आतार्याय । आत्मकामाय ।
आदित्यवर्णाय । आदित्याय । आदिभूताय ।
आदिमाय । आनन्दवपुषे । आनन्दाय ।
आप्तकामाय । आभास्वराय । आलाद्याय ।
आव्याधिपतये । आहनन्याय । इच्छानिच्छाविरहिताय ।
इन्द्राय । इषुधिमते । ईश्वराणामधीश्वराय ।
उच्चैर्घोषाय । उदासीनाय नमः । १००
ॐ उद्दण्डताण्डवाय नमः । उपद्रष्ट्रे । ऊर्ध्वताण्डवपण्डिताय ।
ऊर्ध्वपदे । ऊध्वरेतसे । एकात्मने । ओषधीशाय ।
ककुभाय । कङ्कालाय । कदम्बकुसुमारुणाय ।
कन्दर्पकोटिसदृशाय । कपटवर्जिताय । कपर्दिने ।
कपालमालाभरणाय । कपालमालालङ्काराय । कपालिने ।
कम्बुकन्धराय । कमनीयनिजानन्दमुद्राञ्चितकराम्बुजाय ।
कमनीयाय । कमलाननाय नमः । १२०
ॐ कमलेक्षणाय नमः । कराब्जधृतकालाग्नये ।
करिचर्माम्बरधराय । करोटिभृते । कलाधराय ।
कलानाथशेखराय । कलापूर्णाय । कलिनाशनाय ।
कलुषापहाय । कल्याणमूर्तये । कल्याणीरमणाय ।
कल्हारकिरणद्युतये । कवये । कक्षपाय । काट्याय ।
कान्ताय । कामदाय । कामपालकाय ।
कामारये । कामेशाय नमः । १४०
ॐ कार्कोटकविभूषणाय नमः । कालकण्ठाय ।
कालकालाय । कालकूटविषाशनाय । कालकोविदाय ।
कालचक्रप्रवर्तकाय । कालनेत्रे । कालहन्त्रे ।
कालज्ञाय । कालातीताय । कालात्मने ।
कालान्तकवपुर्धराय । कालाय । कालिकानाट्यरसिकाय ।
कालिकानाथाय । कालीवादप्रियाय । किंशिलाय ।
कुङ्कुमेश्वराय । कुञ्चितैकपदाम्बुजाय । कुठारभृते नमः । १६०
ॐ कुन्दपाण्डुराय नमः । कुलाद्रीशाय । कुलुञ्चानां पतये ।
कुशलिने । कूटस्थाय । कूप्याय । कूर्मपीठस्थाय ।
कूलङ्कषकृपासिन्धवे । कूल्याय । कूष्माण्डग्रहमोचकाय ।
कृतज्ञाय । कृताकृताय । कृतान्तकृते । कृतिने । कृतिसारज्ञाय ।
कृत्तिवाससे । कृत्स्नवीताय । कृपणरक्षकाय । कृपाकराय ।
कृशानवे नमः । १८०
ॐ कृशाय नमः । कृष्णपिङ्गलाय । कृष्णाय । केलीकराय ।
केवलनायकाय । केवलाय । केशवाय ।
कैलासवासिने । कोटिकन्दर्पसौभाग्यसुन्दराय ।
क्रियाधाराय । गगनावासाय । गजासुरविमर्दनाय ।
गणसेविताय । गणस्वामिने । गणाधीशाय ।
गणेशाय । गतये । गतिवर्जिताय । गदाधराय ।
गरिष्ठाय नमः । २००
ॐ गरुडारूढाय नमः । गर्विताय । गहरेष्ठाय ।
गायकानुग्रहोन्मुखाय । गायकाय । गायत्रीवल्लभाय ।
गार्ग्याय । गार्हपत्याय । गिरिचराय । गुणातीताय ।
गुरवे । गुरुमूर्तये । गुहप्रियाय । गुहाशयाय ।
गुह्यकैःसमभिष्टुताय । गुह्यतराय । गुह्याय । गूढाय ।
गृत्सपतये । गृत्साय नमः । २२०
ॐ गृह्याय नमः । गोपरिपालकाय । गोप्याय ।
गोरक्षिणे । गोष्ठ्याय । ग्रन्थित्रयविभेदनाय ।
घण्टामण्डलमण्डिताय । चक्रधराय । चटुलापाङ्गाय ।
चण्डाय । चतुर्भुजाय । चतुर्वक्त्राय । चतुष्पादाय ।
चिच्छक्तिलोचनानन्दकन्दलाय । चिच्छिदे । चित्केवलवपुर्धराय ।
चित्सभाधिपाय । चिदानन्दनटाधीशाय । चिदेकरससम्पूर्णाय ।
चिन्मात्राय नमः । २४०
ॐ चैतन्याय नमः । जगत्पतये । जगत्स्वामिने । जगदाधाराय ।
जटाधराय । जटिलाय । जनार्दनाय । जन्मकर्मनिवारकाय ।
जन्मजरामृत्युनिवारकाय । जमदग्नये । जराहराय । जवनाय ।
जन्हुकन्याधराय । ज्योतिषे । ज्ञानगम्याय ।
ज्ञानलिङ्गाय । ज्ञानिने । णान्तनादिनामयुक्त विष्णुनम्य
पदाम्बुजाय । तत्त्वबोधकाय । तत्त्वभावाय नमः । २६०
ॐ तत्त्वमर्थाय नमः । तत्त्वावबोधाय । तत्त्वेशाय ।
तपोनिधये । तपोमयाय । तरिष्णवे । तरुणाय ।
तस्कराणामधीश्वराय । तस्मै । ताम्राय ।
तारकाय । ताराय । तिमिरापहाय । तिर्यगूर्ध्वगाय ।
तीक्ष्णदंष्ट्राय । तीक्ष्णेषवे । तुर्यपादाय । तृतीयाय ।
तोमरायुधाय । त्रिकर्त्रे नमः । २८०
ॐ त्रिगुणातिगाय नमः । त्रिजगद्धेतवे । त्रिधाम्ने ।
त्रिपुरभैरवाय । त्रिमात्रकाय । त्रिवृद्रूपाय ।
त्रिस्थाय । त्र्यक्षराय । त्र्यक्षाय । त्विषीमते ।
दमनाय । दयानिधये । दर्शयित्रे । दहरस्थाय ।
दक्षाध्वरहराय । दक्षाय । दक्षिणाग्नये ।
दक्षिणामूर्तिरूपभृते । दातये । दान्ताय नमः । ३००
ॐ दानवान्तकाय नमः । दिगम्बराय । दिशां पतये ।
दीर्घपिङ्गजटजूटाय । दीर्घबाहवे । दुन्दुभ्याय ।
दुराचारनाशनाय । दुराधर्षाय । दुराराध्याय ।
दुरासदाय । दुर्मदान्तकाय । दुर्विज्ञेयाय । दुष्टदूराय ।
दूताय । दैव्याय । द्रष्ट्रे । धनदाधिपाय ।
धनाधिपाय । धन्याय । धन्वाविने नमः । ३२०
ॐ धन्विने नमः । धराधिपाय । धर्मगोप्त्रे । धर्मविदां
वराय । धावते । धृष्णवे । ध्यातृरूपाय ।
ध्यानगम्याय । ध्येयाय । नक्तञ्चराय । नगाध्यक्षाय ।
नटवेषमृते । नटेशाय । नन्दिनाट्यप्रियाय ।
नन्दिने । नमदानन्दाय । नवरसाय । नादवर्जिताय ।
नादान्ताय । नाद्याय नमः । ३४०
ॐ नामरूपविवर्जिताय नमः । नारसिंहाय । निकटे स्थिताय ।
निगमानन्दाय । निचेरुकाय । नित्यबुद्धाय । नित्यशुद्धाय ।
निदानभुवे । नियमाय । निरङ्कुशाय । निरञ्जनाय । निरत्ययाय ।
निरन्तराय । निरपायाय । निराधाराय । निरानन्दाय । निरामयाय ।
निरालम्बाय । निराश्रयाय । निरुपाधिकाय नमः । ३६०
ॐ निरंशाय नमः । निर्णिमेषाय । निर्वाणदाय । निर्विकल्पाय । निर्विकाराय ।
निर्विभागाय । निर्वृतिस्थाय । निर्वैराय । निव्याधिने ।
निशानटननिश्चलाय । निषङ्गिणे । निष्पन्दाय । नीप्याय ।
नैष्कर्म्यदाय । पञ्चकृत्यपरायणाय । पञ्चत्वनिर्मुक्ताय ।
पञ्चपूजासन्तुष्टमानसाय । पञ्चप्राणाधिपतये । पञ्चभूतप्रभवे ।
पञ्चयज्ञप्रियाय नमः । ३८०
ॐ पञ्चवक्त्राय नमः । पञ्चाशद्वर्णरूपभृते । पटवे । पटुतराय ।
पतञ्जलिप्राणनाथाय । पत्तीनामधिपाय । पत्ये । पथ्याय ।
पदात्मकाय । परमात्मने । परमानन्दताण्डवाय ।
परमानन्दसागराय । परमापन्निवारकाय । परमेष्ठिने ।
परमोदाराय । परमोन्नताय । परात्पराय । परापरविवर्जिताय ।
परिचराय । परिभ्रमणताण्डवाय नमः । ४००
ॐ परोदासाय नमः । परस्मै ज्योतिषे । परस्मै तत्त्वाय ।
परन्तपाय । पर्ण्याय । पर्णशद्याय । पवये । पवित्राय ।
पशुपतये । पक्षपातविवर्जिताय । पाटलांशवे । पातकसंहर्त्रे ।
पापाटवीबृहद्भानवे । पारदर्शिने । पारिजातद्रुमूलगाय । पार्याय ।
पार्वतीदाराय । पाशिने । पुण्याय । पुण्यगोचराय नमः । ४२०
ॐ पुण्यफलप्रदाय नमः । पुरजिते । पुरत्रयविहारवते ।
पुरद्वेषिणे । पुरन्दराय । पुरातनाय ।
पुरिशयाय । पुरुहूताय । पुलस्त्याय । पुष्कलाय ।
पुष्टानां पतये । पुष्पहासाय । पुंसे । पूर्णाय ।
पूर्वजाय । पूष्णे । पेशलाय । प्रकृतीशाय ।
प्रकृन्तानां पतये । प्रणवाय नमः । ४४०
ॐ प्रतरणाय नमः । प्रतिभात्मकाय । प्रतिष्ठात्रे । प्रथिने ।
प्रत्यगात्मने । प्रत्यग्ब्रह्मैक्यनिश्चयाय । प्रत्ययानन्दाय ।
प्रत्यक्षाय । प्रद्युम्नाय । प्रणर्तनपरायणाय । प्रपञ्चोपशमाय ।
प्रपञ्चोल्लासनिर्मुक्ताय । प्रबुद्धाय । प्रभवाय ।
प्रमथाय । प्रमथेश्वराय । प्रमदार्धाङ्गाय ।
प्रमाणज्ञाय । प्रमाणाय । प्रमात्रे नमः । ४६०
ॐ प्रमृशाभिधाय नमः । प्रवाहजाय । प्रवेगाय । प्रसन्नाय ।
प्राग्वर्तिने । प्राणदाय । प्राणनायकाय । प्राज्ञाय ।
प्रेमसागराय । प्रौढनर्तनलम्पटाय । फट्काराय । फेन्याय ।
बन्धविच्छेत्रे । बभ्रुवे । बभ्रुशाय । बलप्रमथनाय । बलिने ।
बहुविधाकाराय । बिल्मिने । बृहद्भर्गाय नमः । ४८०
ॐ बृहस्पतये नमः । ब्रह्मचेतनाय । ब्रह्मणे । ब्रह्मण्याय ।
ब्रह्मपुच्छाय । ब्रह्मविदां वराय । ब्रह्मविद्यागुरवे ।
ब्रह्मविद्याप्रदाय । ब्रह्मसूत्रार्थाय । ब्रह्मज्ञाय ।
ब्रह्माण्डकाण्डविस्फोटमहाप्रलय ताण्डवाय ।
ब्रह्मिष्ठाय । ब्राह्मणात्मकाय । भक्तवत्सलाय ।
भक्तिमन्निधये । भगनेत्रहराय । भगवते ।
भद्रप्रदाय । भद्रवाहनाय । भद्राय नमः । ५००
ॐ भराय नमः । भर्गाय । भवघ्नाय । भवहेतये ।
भवाख्याय । भव्याय । भानुमत्कोटिकोटिभाय ।
भारूपाय । भावनागम्याय । भावज्ञाय । भाव्याय ।
भावातीताय । भावाभावविनिर्मुक्ताय ।
भाविताय । भिषजे । भुजङ्गभृते । भुवन्तये ।
भूतपतये । भूतपूर्वाय । भूतमुक्तावलीतन्तवे नमः । ५२०
ॐ भूम्ने नमः । भूर्भुवोव्याहृतिप्रियाय ।
भृङ्गिनाट्यप्रमाणज्ञाय । भ्रमरायितनाट्यकृते ।
भ्राजिष्णवे । भ्रान्तिज्ञानविनाशनाय । मधवे ।
मदनाय । मधुरस्मिताय । मननैकपरायणाय ।
मनवे । मनीषिणे । मनुजाधीशाय । मनोगम्याय ।
मनोभर्त्रे । मनोवचोभिरग्राह्याय । मन्त्रिणे ।
मयस्कराय । मयोभवाय । महते नमः । ५४०
ॐ महर्द्धये नमः । महसां निधये । महसे । महाकर्त्रे ।
महाग्रासाय । महाताण्डववैभवाय ।
महातात्पर्यनिलयाय । महातीर्थ्याय । महानटनलम्पटाय ।
महानन्दाय । महाप्रभवे । महाबिलकृतालयाय ।
महाभुजाय । महाभूताय । महाभोक्त्रे ।
महामायाय । महारुद्राय । महावीर्याय ।
महासेनगुरवे । महासंविन्मयाय नमः । ५६०
ॐ महास्कन्दाय नमः । महिमाधाराय । महेन्द्राय ।
महोग्रताण्डवाभिज्ञाय । माणिभद्रार्चिताय । मानदाय ।
मान्त्रिकाय । मान्याय । मायानटनशिक्षकाय ।
मायानाटककृते । मायानाट्यविनोदज्ञाय ।
मायायन्त्रविमोचकाय । मायाविने । मायिने ।
मिथ्याप्रत्ययनाशनाय । मीढुष्टमाय । मुक्तिदाय ।
मुदिताननाय । मुनये । मुनीश्वराय नमः । ५८०
ॐ मुष्णतां नाथाय नमः । मृकण्डुतनयप्रियाय । मृगधराय ।
मेध्याय । मोचकाय । मोदनीयाय । मोहविच्छेत्रे ।
मौनगम्याय । यजनप्रियाय । यजमानात्मने । यथाभूताय ।
यमाय । यशस्कराय । यशस्विने । यक्षगन्धर्ववन्दिताय ।
यक्षराजे । यज्ञफलदाय । यज्ञभुजे । यज्ञमूर्तये ।
युधिष्ठिराय नमः । ६००
ॐ योगगम्याय नमः । योगनिष्ठाय । योगयोनये ।
योगानन्दाय । रजोगुणविवर्जिताय । रम्याय ।
रविमण्डलमध्यस्थाय । राजराजेश्वराय । रातये ।
रात्रिञ्चरविनाशनाय । राद्धान्ताय । रुग्विमोचकाय ।
रुद्राक्षस्रङ्मयाकल्पाय । रूप्यनगराजनिकेतनाय ।
रेष्मियाय । रोहिताय । लास्यामृताब्धिलहरीपूर्णेन्दवे ।
लोप्याय । वज्रभृते । वज्रवर्मभृते नमः । ६२०
ॐ वटुकाय नमः । वनपाय । वन्दारुजनवत्सलाय ।
वन्द्याय । वरदाय । वराभयप्रदाय । वराय ।
वरिष्ठाय । वरीयसे । वरुणात्मकाय । वरुणेश्वराय ।
वरूथिने । वरेण्याय । वर्याय । वर्षकाय ।
वर्षीयसे । वशिने । वषट्काराय । वसवे ।
वसुमनसे नमः । ६४०
ॐ वह्निमण्डलमध्यस्थाय नमः । वागगोचराय ।
वागीशाय । वाच्यवाचकनिर्मुक्ताय । वाणिजाय ।
वामनाय । वारिवस्कृताय । वास्तुपाय ।
विकाररहिताय । विक्रमोन्नताय । विगतज्वराय ।
विगतभिये । विघ्ननेत्रे । विघ्नहन्त्रे । विघ्नेश्वराय ।
विजिघत्साय । वितताय । विदग्धमुग्धवेषाढ्याय ।
विदूरस्थाय । विद्यानिधये नमः । ६६०
ॐ विद्युत्याय नमः । विद्योताय । विद्रुमप्रभाय । विद्वत्तमाय ।
विधये । विनोदाय । विन्ध्यदर्पविनाशनाय । विपिपासाय ।
विप्राय । विबुधाश्रयाय । विभवे । विभावनाय । विभावसवे ।
विभीषणाय । वियदादिजगत्स्रष्ट्रे । वियद्धेतवे । विरजसे ।
विराटहृदयपद्मस्थाय । विराडीशाय । विराण्मयाय नमः । ६८०
ॐ विरामाय नमः । विरूपाय । विरूपाक्षाय । विरोचनाय ।
विलासिने । विवसनाय । विविधानन्ददायकाय ।
विव्याधिने । विशदाय । विशारदाय । विशालाक्षाय ।
विशोकदाय । विशोधकाय । विशाम्पतये । विश्रमाय ।
विश्रान्तिभुवे । विशृङ्खलाय । विश्वदिग्व्यापिने ।
विश्वभोक्त्रे । विश्वयोनये नमः । ७००
ॐ विश्ववञ्चकाय नमः । विश्वस्यायतनाय । विश्वातीताय ।
विश्वाधिकाय । विषमाय । विषहाय । विष्णवे ।
विष्णुबाणाय । विष्वक्सेनाय । विहारिणे । विज्ञानमात्राय ।
वीतभयाय । वीतशोकाय । वीरप्रियाय । वीरभद्राय ।
वीर्यवर्धनाय । वृद्धिक्षयविनिर्मुक्ताय । वृषध्वजाय ।
वृक्षपतये । वेतण्डत्वक्कृताम्बराय नमः । ७२०
ॐ वेतालनटनप्रीताय नमः । वेदनामयाय । वेदयोनये ।
वेदवेदान्तवित्तमाय । वेदवेद्याय । वेदरूपाय ।
वेदसंस्तुताय । वेदाङ्गाय । वेदान्तकृते ।
वेदार्थविदे । वेलातिलङ्घिकरुणाय । वैकुण्ठवल्लभाय ।
वैद्युताय । वैराग्यशेवधये । वैशन्ताय ।
वैश्वानरविलोचनाय । वौषट्काराय । व्याकृताय ।
व्याख्यामुद्रालसत्कराय । व्याघ्रचर्मधृते नमः । ७४०
ॐ व्याघ्रपादप्रियाय नमः । व्याधिनाशनाय । व्यापिने ।
व्यापृताय । व्याप्यसाक्षिणे । व्यामोहनाशनाय ।
व्यासाय । व्याहृतये । व्युप्तकेशाय । व्योमकेशाय ।
व्योममूर्तये । व्योमाकाराय । व्रातपतये । व्राताय ।
शक्ताय । शक्तिपाणये । शक्तिपातकराय । शङ्गाय ।
शतक्रतवे । शततनवे नमः । ७६०
ॐ शतानन्दाय नमः । शत्रुहराय । शन्तमाय ।
शमिताखिलकौतुकाय । शयानाय । शरणाय ।
शरण्याय । शरभाकृतये । शराय । शरोद्भवाय ।
शर्मदाय । शर्वाय । शष्प्याय । शान्ताय ।
शान्तिदाय । शाश्वताय । शासकाय ।
शिवङ्कराय । शिवतराय । शिवागमाय नमः । ७८०
ॐ शिवाय नमः । शिष्टहृष्टाय । शीघ्रियाय । शीभ्याय ।
शुचिस्मिताय । शुद्धस्फटिकसङ्काशाय ।
शुभाकाराय । शुभ्रमूर्तये । शुष्क्याय । शूरसेनाय ।
शूलिने । श्यामलाप्रियाय । श्राव्याय ।
श्रीपतिपूजिताय । श्रीमते । श्रीमहेश्वराय ।
श्रीशिवानाथाय । श्रीशिवाय । श्रुतिप्रस्तुतवैभवाय ।
श्रुतिस्मृतिविधायकाय नमः । ८००
ॐ श्रुत्याय नमः । श्रेयसां निधये । षडक्षरसमाश्रयाय ।
षड्गुणैश्वर्यदायकाय । षडाधारगताय ।
षडूर्मिरहिताय । सकलोर्जिताय । सकृद्विभाताय ।
सङ्गनिर्मुक्ताय । सततोदिताय । सतामीशाय ।
सत्तामात्राय । सत्यकामाय । सत्यधर्मणे ।
सत्यवादिने । सत्यसङ्कल्पाय । सत्याय । सत्रिणे ।
सत्वपाय । सत्वसंस्थाय नमः । ८२०
ॐ सत्वावलम्बकाय नमः । सत्स्वरूपगाय ।
सदसत्कोटिवर्जिताय । सदस्पतये । सदादयाय ।
सदाराध्याय । सदाशिवाय । सदोदिताय ।
सद्योजाताय । सनकादिमुनिस्तुताय । सनातनाय ।
सन्धात्रे । समग्रदृशे । समदृष्टये ।
समनीरागचेतनाय । समरप्रियाय । समशीलाय ।
समस्तभुवनव्यापिने । समाय । समुत्सुकाय नमः । ८४०
ॐ समृद्धाय नमः । समृद्धिदाय । सरस्याय । सर्गाय ।
सर्वकृते । सर्वजिते । सर्वदा तुष्टाय । सर्वदाय ।
सर्वदारिद्र्यक्लेशनाशनाय । सर्वदुर्ग्रहाय । सर्वदृशे ।
सर्वद्वन्द्वक्षयकराय । सर्वपूरणाय । सर्वप्रियतमाय ।
सर्वभृते । सर्वमयाय । सर्वविद्यानामीशानाय ।
सर्वशास्त्रार्थसम्मताय । सर्वसाक्षिणे ।
सर्वहृत्कोशसंस्थिताय नमः । ८६०
ॐ सर्वज्ञाय नमः । सर्वातीताय । सर्वात्मने ।
सर्वान्तरस्थाय । सर्वापद्विनिवारकाय । सर्वार्थाय ।
सर्वेशाय । सर्वेश्वराय । सर्वोपनिषदाशयाय ।
सर्वोर्ध्वसंस्थिताय । सव्यताण्डवसम्पन्नाय ।
सस्पिञ्जराय । सहमानाय । सहस्रदृशे ।
सहस्रवदनाम्बुजाय । सहस्राक्षाय । सहस्राङ्घ्रये ।
सहस्राक्षार्चिताय । सामगाय । सामसंस्तुताय नमः । ८८०
ॐ सारतराय नमः । सारस्वतप्रदाय । साराय ।
साक्षिवर्जिताय । सिकत्याय । सिद्धवैभवाय ।
सिद्धान्ताय । सिद्धिजनकाय । सिद्धेशाय । सुकराय ।
सुकुमाराय । सुकृतोद्भवाय । सुखघनाय ।
सुखावहाय । सुखिने । सुतदाय । सुतल्पाय ।
सुधन्वने । सुधारूपाय । सुधिये नमः । ९००
ॐ सुनिश्चितार्थाय नमः । सुन्दराननाय । सुभ्रुवे ।
सुराध्यक्षाय । सुराय । सुरासुरनमस्कृताय ।
सुलभाय । सुव्रताय । सुषुप्तिस्थाय । सुहृद्वराय ।
सूताय । सूत्रभूताय । सूत्रात्मने । सूदराय ।
सूद्याय । सूरये । सूर्म्याय । सूर्याय ।
सूक्ष्मस्थूलत्ववर्जिताय । सूक्ष्मात्सूक्ष्मतराय नमः । ९२०
ॐ सृकाविने नमः । सेनान्ये । सोममण्डलमध्यस्थाय ।
सोमाय । सौम्याय । सङ्कल्पोल्लासनिर्मुक्ताय ।
सङ्क्रमाय । सञ्ज्योतिषे । सन्दात्रे । सन्निकृष्टाय ।
सन्निविष्टाय । सम्पदालयाय । सम्पन्नाय ।
सम्प्रमर्दनाय । सम्प्रविष्टाय । सम्प्रवृद्धाय । सम्प्रहृष्टाय ।
सम्यग्दर्शनतत्पराय । संयद्वामाय । संयमस्थाय नमः । ९४०
ॐ संयमीन्द्राय नमः । संराजे । संवत्सराय । संवर्ताग्न्युदराय ।
संविमृष्टाय । संवेत्रे । संशयच्छिदे ।
संशान्तसर्वसङ्कल्पाय । संसदीशाय । संस्पष्टाय ।
संहृदिस्थाय । साङ्ख्याय । साम्बाय । स्तव्याय ।
स्थपतये । स्थाणवे । स्थास्रवे ।
स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनाय । स्वच्छन्दाय ।
स्वच्छसंवित्तये नमः । ९६०
ॐ स्वच्छाय नमः । स्वतन्त्रस्थाय । स्वधा । स्वप्रकाशाय ।
स्वभुवे । स्ववशाय । स्वस्तरवे । स्वसंवेद्याय ।
स्वात्मबन्धहराय । स्वात्मस्थाय । स्वानन्दैकघनाकृतये ।
स्वानन्याय । स्वामिने । स्वायुधाय । स्वाहारूपाय ।
स्वांशिताखिलाय । स्वेच्छाकलितविग्रहाय । हन्त्रे । हराय ।
हरिकेशाय नमः । ९८०
ॐ हरित्याय नमः । हरिध्येयाय । हिताय । हिरण्मयाय ।
हिरण्यबाहवे । हुङ्काराय । हेतवे । हेतुदृष्टान्तनिर्मुक्ताय ।
हेमश्मश्रवे । हेयादेयविनिर्मुक्ताय । हेरम्बजन्मभुवे ।
हेलाकलितताण्डवाय । हेलाविनिर्मितजगते । ह्रींशिवाय ।
क्षमिणे । क्षयणाय । क्षयद्वीराय । क्षुल्लकाय ।
क्षेत्रपालकाय । क्षेत्राणामधिपाय नमः । १०००
इति अकारादिक्षकारान्ता कुञ्चितपादसहस्रनामावलिः समाप्ता ।
Proofread by Aruna Narayanan