कुरुक्षेत्रनिर्माणैवं कुरुक्षेत्रेश्वरमहिमवर्णनम्
(शिवगौरीसंवादे)
---
राजा (कुरुसंवरण) -
जय प्रमथमन्दार विश्वाधिक महेश्वर ।
जय वेदान्तसंवेद्य कामान्तक जगत्प्रभो ॥ १॥
जय देवाधिदेवेश प्रपन्नं पाहि मां शिव ।
जय भक्तजनाधार जय सर्वाङ्गसुन्दर ॥ २॥
जय वैद्योत्तम व्योमकेशाशावसनाव्यय ।
जय भूतपते शम्भो करुणावरुणालय ॥ ३॥
जयापर्णापतेशान स्वर्णवर्णाम्बरायत ।
जय वाताशिपर्णाशिहृदयान्तरग प्रभो ॥ ४॥
पाहि पाहि महादेव रक्ष मां शशिशेखर ॥ ५॥
---
ईश्वरः -
इति राज्ञा तदा देवि कुरुणा संस्तुतोऽस्म्यहम् ।
तस्मै दत्तो वरो देवि पुरं भवतु जाङ्गलम् ॥ ६॥
विश्वकर्मा तदेवागान्मया संस्मारितोऽम्बिके ।
प्राञ्जलिः किङ्करोमीति स्थितो मत्सन्निधौ ततः ॥ ७॥
अस्य राज्ञो यथाकामं प्राकारपरिघावृतम्
प्रासादमालाविततं गोपुराट्टालतोरणम् ॥ ८॥
कुरुक्षेत्रेश्वरस्यास्य गर्भागारं मनोरमम् ।
प्राकारैर्मण्टपैश्चैव विस्तृतं गोपुरैरपि ॥ ९॥
धनधान्यसुसम्पूर्णं गोगजाश्वादिसंवृतम् ।
नरनारीगणाकीर्णं विपणापणशोभितम् ॥ १०॥
यन्त्रशस्त्रार्गलैर्युक्तं कुरोरस्य पुरं कुरु ।
इत्युक्त्वा विश्वकर्माणं कुरोर्वीक्षयतः शिवः ॥ ११॥
लिङ्गेऽन्तर्धिं ययौ देवो मुनेस्तस्यापि पश्यतः ।
तदाज्ञयैव देवस्य विश्वकर्मा च तत्र हि ॥ १२॥
प्राकारपरिखोपेतं पुरमिन्द्रपुरं यथा ।
पताकातोरणोपेतं नानाप्रासादसङ्कुलम् ॥ १३॥
क्षणाद्बभौ पुरं रम्यं कुरोस्तत् कुरुजाङ्गलम् ।
आलयं देवदेवस्य कुरुक्षेत्रेश्वरस्य च ॥ १४॥
स मण्टपं च प्राकारं गोपुरैर्दिक्षु शोभितम् ।
कुरुः स राजा तत्रासीद्विप्रेन्द्रेण शशास तत् ॥ १५॥
तं गङ्गा प्लावयामास यमुना परिखाकृती ।
तत्पुरस्तात्समभवत्कुरुक्षेत्रस्य सत्तमाः ॥ १६॥
हस्तिनामाथ तत्पौत्रस्तेनापि प्रथिता पुरी ।
हस्तिनापुरमित्याख्यां प्राप तत्पुरमुत्तमम् ॥ १७॥
कुरुक्षेत्रं प्रयागं च गयां चैवाविमुक्तकम् ।
एतत्प्रधानं क्षेत्राणामुत्कृष्टं प्राह शङ्करः ॥ १८॥
समन्तपञ्चकं तीर्थं कुरुक्षेत्रे महेश्वरि ।
रामेण पितृतृप्त्यर्थं ह्रदाः पञ्चैव कल्पिताः ॥ १९॥
तत्र स्नात्वा नरो यस्तु पितॄन सन्तर्पयेद्यदि ।
कुरुक्षेत्रगतं वारि पितरः प्रार्थयत्नि हि ॥ २०॥
तत्र श्राद्धानि देयानि सर्वैः पर्वणि पर्वणि ।
अमाविषुवसङ्क्रान्तौ राहुग्रस्ते दिवाकरे ॥ २१॥
सोमे चाथ व्यतीपाते कुरुक्षेत्रगतो नरः ।
सन्तर्प्य तारयेदेव स्वपितॄन् नात्र संशयः ॥ २२॥
कुरुक्षेत्रेश्वरं भक्त्या प्राप्य तत्तीर्थवारिभिः ।
बिल्वपत्रैः समभ्यर्च्य निवेद्याथ सुपायसम् ॥ २३॥
उपोषितो नरस्तत्र शतवर्षतपःफलम् ।
प्राप्नोति मनुजो गौरि गयापिण्डाच्छताधिकम् ॥ २४॥
कुरुक्षेत्रगता गङ्गा स्नाता पीता महाघहृत् ।
दर्शनाच्चैव तस्यास्तु मुक्तो भवति पापतः ॥ २५॥
किं पुनः स्नानदानार्चाशिवदर्शनतः शिवे ।
देवाः स्तुवन्ति मां तत्र ब्रह्माद्या मुनिसत्तमाः ॥ २६॥
तत्स्तुतिं श्रृणु देवेशि मत्तः पापापहारिणीम् ।
---
ब्रह्मादयः -
वासीकृतानन्दवन प्रसीद
शम्भो त्वमानन्दघनोऽत्युदारः । (काशीकृतानन्दवन)
सुरावनः संस्तुतपाकशासनः
सुपावनो विप्रनतो हुताशनः ॥ २७॥
सनातन नतावन त्रिपुरदक्षसन्त्रासन
सुधाशनगणावन स्तुतसुवेद पञ्चानन ।
गराशन हुताशनप्रवलनेत्र कालादन
महाघभयनाशन स्मरशरादिधाराशन ॥ २८॥ (हुताशनभालानन)
नीललोहित भवान्त पुरान्त तातभूत जगतां मम मातः ।
पूषदन्तहननादिकरान्त दुःखितावन सदा सवधूक ॥ २९॥
---
ईश्वरः -
इत्थं ब्रह्मदयो देवि मां स्तुवन्ति तदाम्बिके ।
कुरुक्षेत्रेश्वरं दृष्ट्वा यः स्नात्वा तत्पुराम्भसि ॥ ३०॥
गङ्गायां त्रिदिनं देवि सर्वपापैः प्रमुच्यते ।
पुरा देवासुरैः साकं (?) युयुधुः शक्रपूर्वकाः ॥ ३१॥
वाहनैश्च गजैरश्वै रथार्भटगणारवैः ।
मृदङ्गशङ्खजारावैर्दुन्दुभीनां च निस्वनैः ॥ ३२॥
नमुचिप्रमुखा दैत्या वलाद्याः सुमहाबलाः ।
भुसुण्ठीशस्त्रधाराभिर्मुसलैर्लगुडैस्तथा ॥ ३३॥
धनुर्भिः शरवर्षैश्च समवर्षन्परस्परम् ।
एकद्वित्रिशतैर्घोरैः शरैस्ते चिच्छिदुस्तदा ॥ ३४॥
परस्परं देवदैत्या अन्योन्यं समरोद्धताः ।
पराजितास्तदा दैत्या देवैः सन्ताडिता भृशम् ॥ ३५॥
ममन्थुश्च पुनर्देवान्समाराध्य तदा शिवे ।
एवं पुनः पुनर्युद्धं स्वर्गार्थमभवच्छिवे ॥ ३६॥
कुरुक्षेत्रगता भूमिर्युद्धभूमिर्महेश्वरि ।
द्वापरान्ते च भविता नृपाणां विग्रहो महान् ॥ ३७॥
कानीनान्तान्पुरस्कृत्य विष्णुर्भारं भुवः शिवे ।
हरिष्यति मयाज्ञप्तः कृष्णो नाम्ना भविष्यति ॥ ३८॥
कुरुनाम्नाऽथ सञ्ज्ञातमिदं क्षेत्रवरं प्रिये ।
मत्प्रसादात्पुरा प्राप्य कुरुक्षेत्रेशमर्चयत् ॥ ३९॥
तत्र सन्ति महासिद्धा गङ्गा च सरिदुत्तमा ।
निवसन्ति कुरुक्षेत्रे शिवतुष्टिप्रदे शिवे ॥ ४०॥
समन्तपञ्चकं तीर्थं पितृतृप्तिप्रदायकम् ।
पुरा भार्गवरामेण क्षेत्रमुत्पादितं शिवे ॥ ४१॥
क्षेत्रोत्थरुधिरैः पूर्णान् हृदान् पञ्च प्रकल्पयेत् ।
तत्तीरतीर्थे यः पिण्डं पितृभ्यो दास्यति प्रिये ॥ ४२॥
तर्पयेत्तद्ध्रदोत्थाभिरद्भिः प्रीणाति वै पितॄन् ।
तस्य स्युः पितरस्तृप्ता यावदाभूतसम्प्लवम् ॥ ४३॥
तत्रैकां गां दरिद्राय दत्वा गोशतपुण्यभाक् ।
अल्पं तत्रैव यद्दत्तं तन्महाज्जायते प्रिये ॥ ४४॥
पितृतृप्तिप्रदं तीर्थं पुरा रामेण वै कृतम् ।
अत्रैव तद्ध्रदाः पञ्च स्नात्वा पितृगणांस्तथा ॥ ४५॥
श्राद्धैः सम्प्रीणयन्पुत्रः पुत्रत्वं तस्य सिद्ध्यति ।
अत्रैव गाधां गायन्ति पितरः षुत्रिणस्तथा ॥ ४६॥
अपि नः स्वकुले भूयाद्यो गयायां च पिण्डदः ।
कुरुक्षेत्रे स वै पुत्रः ह्रदे रामकृते हि नः ॥ ४७॥
दृष्ट्वा मां चैव पुण्यात्मा कुरुक्षेत्रेश्वरं शिवे ।
धन्यो भवति पूतात्मा सत्यं सत्यं न संशयः ॥ ४८॥
इत्थं कुरुक्षेत्रगतं महिमानं तवोदितम् ।
श्रुत्वैव सर्वपापेभ्यो मुक्तो भवति नान्यथा ॥ ४९॥
तस्मात् कुरुक्षेत्रपरायणानां तत्रैव वासो मम भक्तिदायकः ।
लभेत वै पुण्ययुतो महेश्वरि तपःस्थलं तन्मुनिभिः प्रशस्तम् ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे कुरुक्षेत्रनिर्माणैवं कुरुक्षेत्रेश्वरमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३३॥ -
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 33.. -
Notes:
Shiva appears to King Kurusamvarana (aforementioned in Chapter 32) who has been praying to Him at a Shivalinga in the Kuru Forest near the southern course of Ganga, where he was meant to build a temple. Shiva directs Vishwakarma to build a temple around the Shivalinga that would henceforth be known as Kurukshetreshwara - the Shiva Kshetra being known as Kurushetra. That, Vishnu will be born as Krishna in Dwapara Yuga, and Kurukshetra will be a yuddha-bhumi; is declared by Shiva to Devi. Shiva also highlights the merits of worshipping at Kurukshetreshwara, and the optimal time periods for performing Pitrikarma in Kurukshetra.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan