लक्ष्मीप्रोक्ता शिवक्षेत्रमहिमा
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवक्षेत्रनिवासेन जायते पापसङ्क्षयः ।
पुण्यवृद्धिश्च भवति शिवक्षेत्रे शिवार्चनात् ॥ ५१॥
दुर्लभं तन् शिवक्षेत्रं शिवभक्तिश्च दुर्लभा ।
शिवक्षेत्रनिवासोऽपि दुर्लभो मुक्तिदायकः ॥ ५२॥
पुण्यवृद्धिकरं श्रेष्ठं शिवक्षेत्रे शिवार्चनम् ।
तद्भूरिपुण्यतपसा लभ्यते नात्र संशयः ॥ ५३॥
यः करोति शिवक्षेत्रे शिवलिङ्गार्चननं मुदा ।
स धन्य इति विज्ञेयः श्रेष्ठो जनिमतां नृणाम ॥ ५४॥
शिवैकरतचित्तानां शिवक्षेत्रनिवासिनाम् ।
महद्भाग्यं महद्भायं भाग्यस्यान्तो न विद्यते ॥ ५५॥
विष्णुत्वस्थैर्य सिध्यर्थं पुनः पुरपीश्वरम् ।
पूजयस्वातियत्नेन शिवक्षेत्रे यथाविधि ॥ ५६॥
शिवैकशरणो भूत्वा शिवक्षेत्रे शिवं यज ।
शिवक्षेत्रे कृता पूजा यतोऽनन्तफलप्रदा ॥ ५७॥
॥ इति शिवरहस्यान्तर्गते लक्ष्मीप्रोक्ता शिवक्षेत्रमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ५१-५७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 51-57..
Proofread by Ruma Dewan