लक्ष्मीविष्णूकृत शिवध्यानस्तुतिः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
अथ ध्यानम्
ध्यायेन्नित्यं महादेवं साम्बं चन्द्रकलाधरम् ।
मृगटङ्कधरं सौम्यं लोचनत्रयभूषितम् ॥ १॥
नीलकण्ठं विरूपाक्षं रत्नसिह्मासनस्थितम् ।
फुल्लकल्हारमालाङ्कं दिव्यपीताम्बरावृतम् ॥ २॥
अनल्परत्नाकल्पेन शोभमानं महत्तरम् ।
स्वहृदुत्फुल्लपद्मस्थमेवं ध्यायन्त्स शङ्करम् ॥ ३॥
अथ स्तुतिः
सोमास्कन्द विभो त्वदीयविमलं रूपं सुधांशुस्फुर-
ज्जूटाहिस्फुटमौलिकाञ्चितमणिस्फाराङ्गरागोद्धतम् ।
त्र्यक्षं सौम्यसुधांशुकान्तिविलसत्तिर्यक्त्रिपुण्ड्राङ्कितं
वीक्षेऽक्षादिविदूरगं तव विभो वक्त्रं कटाक्षोदयम् ॥ ४॥
त्वत्पादाब्जमरन्दसुन्दरमहावीचीस्फुरन्मौलयो
वृन्दारद्युतिवृन्दवन्दितमहानन्दाम्बुधारास्पदम् ।
ध्यायं ध्यायमुपास्महे तव महापापौघभित्केवलं
युक्त्या किं मम साम्प्रतं तव विभो भक्तिं हि याचे सदा ॥ ५॥
श्री बिल्मिने कवचिने वरसोमधाम
सामिप्रकामशिरसे मम दुःखहन्त्रे ।
पात्रे समस्तसुरतावनदीक्षिताय
वल्मीकमध्यविलयाय नमः शिवाय ॥ ६॥
गौरीविलासमुखपङ्कजसानुनेत्र-
प्रोद्यत्प्रभाधवलिताय महेश्वराय ।
प्रोद्यत्सुधांशुचयवार्धितरङ्ग रिङ्ख-
द्गङ्गातरङ्गकलितेन्दुजटालकाय ॥ ७॥
उद्दण्डचण्डकरधारितमेरुमध्य-
कोदण्डकाय सततं हरशङ्कराय ।
वाञ्छी(ञ्छे)श तुच्छफलदेषु न मे स्पृहा स्यात्
पुच्छं त्वमेव श्रुतिमौलिगिरां सदैव ।
इच्छा भवेत्तव पदे मम भक्तिभाव-
स्त्वच्छासनं कलयतो मम किं हि भोगैः ॥ ८॥
॥ इति शिवरहस्यान्तर्गते लक्ष्मीविष्णूकृत शिवध्यानस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २२ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 22 . vAvRRittashlokAH ..
Notes:
Lakṣmī लक्ष्मी and Viṣṇu विष्णु worship and eulogize Śiva शिव. The place where they stayed and conducted the worship came to be known as Kamalālaya कमलालय, and Śiva शिव came to be known as Valmīkeshvara वल्मीकेश्वर.
The word dhyAyannAste has been modified to dhyAyennityaM for the ease of reading this as a standalone composition. The Śloka-s have been renumbered for benefit of the reader(s).
Proofread by Ruma Dewan