लिङ्गाष्टोत्तरशतनामावलिः
श्री लिङ्गेभ्यो नमः ।
लिङ्ग ध्यानम्
लिङ्गमूर्तिं शिवं स्तुत्व गायत्र्य योगमाप्तवान् ।
निर्वाणं परमं ब्रह्म वशिष्ठोन्यश्च शङ्करात् ॥
अथ लिङ्गाष्टोत्तरशतनामावलिः ।
ॐ लिङ्गमूर्तये नमः ।
ॐ शिवलिङ्गाय नमः ।
ॐ अद्भुतलिङ्गाय नमः ।
ॐ अनुगतलिङ्गाय नमः ।
ॐ अव्यक्तलिङ्गाय नमः ।
ॐ अर्थलिङ्गाय नमः ।
ॐ अच्युतलिङ्गाय नमः ।
ॐ अनन्तलिङ्गाय नमः ।
ॐ अनेकलिङ्गाय नमः । (१०)
ॐ अनेकस्वरूपलिङ्गाय नमः ।
ॐ अनादिलिङ्गाय नमः ।
ॐ आदिलिङ्गाय नमः ।
ॐ आनन्दलिङ्गाय नमः ।
ॐ आत्मानन्दलिङ्गाय नमः ।
ॐ अर्जितपापविनाशलिङ्गाय नमः ।
ॐ आश्रितरक्षकलिङ्गाय नमः ।
ॐ इन्दुलिङ्गाय नमः ।
ॐ इन्द्रियलिङ्गाय नमः ।
ॐ इन्द्रादिप्रियलिङ्गाय नमः । (२०)
ॐ ईश्वरलिङ्गाय नमः ।
ॐ ऊर्जितलिङ्गाय नमः ।
ॐ ऋग्वेदश्रुति लिङ्गाय नमः ।
ॐ एकलिङ्गाय नमः ।
ॐ ऐश्वर्यलिङ्गाय नमः ।
ॐ ॐकारलिङ्गाय नमः ।
ॐ ह्रीन्कारलिङ्गाय नमः ।
ॐ कनकलिङ्गाय नमः ।
ॐ वेदलिङ्गाय नमः ।
ॐ परमलिङ्गाय नमः । (३०)
ॐ व्योमलिङ्गाय नमः ।
ॐ सहस्रलिङ्गाय नमः ।
ॐ अमृतलिङ्गाय नमः ।
ॐ वह्निलिङ्गाय नमः ।
ॐ पुराणलिङ्गाय नमः ।
ॐ श्रुतिलिङ्गाय नमः ।
ॐ पाताललिङ्गाय नमः ।
ॐ ब्रह्मलिङ्गाय नमः ।
ॐ रहस्यलिङ्गाय नमः ।
ॐ सप्तद्वीपोर्ध्वलिङ्गाय नमः ।
ॐ नागलिङ्गाय नमः । (४०)
ॐ तेजोलिङ्गाय नमः ।
ॐ ऊर्ध्वलिङ्गाय नमः ।
ॐ अथर्वलिङ्गाय नमः ।
ॐ सामलिङ्गाय नमः ।
ॐ यज्ञाङ्गलिङ्गाय नमः ।
ॐ यज्ञलिङ्गाय नमः ।
ॐ तत्त्वलिङ्गाय नमः ।
ॐ देवलिङ्गाय नमः ।
ॐ विग्रहलिङ्गाय नमः ।
ॐ भावलिङ्गाय नमः । (५०)
ॐ रजोलिङ्गाय नमः ।
ॐ सत्वलिङ्गाय नमः ।
ॐ स्वर्ण लिङ्गाय
ॐ स्फटिकलिङ्गाय नमः ।
ॐ भवलिङ्गाय नमः ।
ॐ त्रैगुण्यलिङ्गाय नमः ।
ॐ मन्त्रलिङ्गाय नमः ।
ॐ पुरुषलिङ्गाय नमः ।
ॐ सर्वात्मलिङ्गाय नमः ।
ॐ सर्वलोकाङ्गलिङ्गाय नमः । (६०)
ॐ बुद्धिलिङ्गाय नमः ।
ॐ अहङ्कारलिङ्गाय नमः ।
ॐ भूतलिङ्गाय नमः ।
ॐ महेश्वरलिङ्गाय नमः ।
ॐ सुन्दरलिङ्गाय नमः ।
ॐ सुरेश्वरलिङ्गाय नमः ।
ॐ सुरेशलिङ्गाय नमः ।
ॐ महेशलिङ्गाय नमः ।
ॐ शङ्करलिङ्गाय नमः ।
ॐ दानवनाशलिङ्गाय नमः । (७०)
ॐ रविचन्द्रलिङ्गाय नमः ।
ॐ रूपलिङ्गाय नमः ।
ॐ प्रपञ्चलिङ्गाय नमः ।
ॐ विलक्षणलिङ्गाय नमः ।
ॐ तापनिवारणलिङ्गाय नमः ।
ॐ स्वरूपलिङ्गाय नमः ।
ॐ सर्वलिङ्गाय नमः ।
ॐ प्रियलिङ्गाय नमः ।
ॐ रामलिङ्गाय नमः ।
ॐ मूर्तिलिङ्गाय नमः । (८०)
ॐ महोन्नतलिङ्गाय नमः ।
ॐ वेदान्तलिङ्गाय नमः ।
ॐ विश्वेश्वरलिङ्गाय नमः ।
ॐ योगिलिङ्गाय नमः ।
ॐ हृदयलिङ्गाय नमः ।
ॐ चिन्मयलिङ्गाय नमः ।
ॐ चिद्घनलिङ्गाय नमः ।
ॐ महादेवलिङ्गाय नमः ।
ॐ लङ्कापुरलिङ्गाय नमः ।
ॐ ललितलिङ्गाय नमः । (९०)
ॐ चिदम्बरलिङ्गाय नमः ।
ॐ नारदसेवितलिङ्गाय नमः ।
ॐ कमललिङ्गाय नमः ।
ॐ कैलाशलिङ्गाय नमः ।
ॐ करुणारसलिङ्गाय नमः ।
ॐ शान्तलिङ्गाय नमः ।
ॐ गिरिलिङ्गाय नमः ।
ॐ वल्लभलिङ्गाय नमः ।
ॐ शङ्करात्मजलिङ्गाय नमः ।
ॐ सर्वजनपूजितलिङ्गाय नमः । (१००)
ॐ सर्वपातकनाशनलिङ्गाय नमः ।
ॐ गौरिलिङ्गाय नमः ।
ॐ वेदस्वरूपलिङ्गाय नमः ।
ॐ सकलजनप्रियलिङ्गाय नमः ।
ॐ सकलजगद्रक्षकलिङ्गाय नमः ।
ॐ इष्टकाम्यार्थफलसिद्धिलिङ्गाय नमः ।
ॐ शोभितलिङ्गाय नमः ।
ॐ मङ्गललिङ्गाय नमः । (१०८)
इति लिङ्गाष्टोत्तरशतनामावलिः समाप्ता
Encoded by Shree Devi Kumar
Proofread by Shree, NA, PSA Easwaran