माणिक्यवाचकसहस्रनामावलिः

माणिक्यवाचकसहस्रनामावलिः

ॐ अद्भुताय नमः । अद्भुतचारित्राय । अनपायाय । अनङ्गरूपवते । अतिबुद्धये । अतिश्रेष्ठाय । अशेषजन-सौख्यदाय । अमात्यवर्याय । अगधृते । अरिमर्दनपूजिताय । अगजाकरुणापात्राय । अग्निभूसदृशाय । अव्ययाय । अनेकाम्नायवेत्त्रे । अनेकागमवाचकाय । अतिसुन्दरवाचे । अब्जनयनाय । अतिदयान्विताय । अरिजेत्रे । असाध्यबलाय नमः । २० ॐ अवाङ्मानसगोचराय नमः । अप्रमेयबलाय । अनन्तमहिम्ने । अतिमुदान्विताय । अचिन्त्यशक्तये । अक्षोभ्याय । अग्रगण्याय । अजराय । अमराय । अत्युदाराय । अनघाय । अमोघाय । अशोकाय । अनाथवत्सलाय । अपाराय । अनन्तमहिम्ने । अद्वयाय । अनन्तमोक्षदाय । अकल्मषाय । अभिरामाय नमः । ४० ॐ अप्रमेयाय । अध्वराय । अचराय । अग्र्याय । अतुलाय । अमृताय । अघोराय । अधुर्याय । अमितविक्रमाय । अनाथनाथाय । अमलाय । अप्रमत्ताय । अचञ्चलाय । अरिन्दमाय । अखिलाधाराय । अकलङ्काय । अचलिताय । अचपलाय । अभीष्टदायकाय । अदृश्याय । ६० ॐ अमेयात्मने नमः । अतीन्द्रियाय । अव्यक्त-लक्षणाय । आत्मपतये । आत्मनिष्ठाय । आत्मनाथाङ्घ्रिपूजकाय । आर्यवेदविदे । आत्मवेत्रे । आदये । आप्तकामदाय । आगमाम्भोधिभुवे । आनन्दामृतदायकाय । आचार्यपादभक्ताय । आश्रितामरपादपाय । आबालगोपविदिताय । आसेतुकीर्तिमते । आकाश-गमनाय । आकाशसञ्चारपरसौख्यदाय । आत्मपूजापराय । आत्ममन्त्रोद्धारप्रवर्तकाय नमः । ८० ॐ आत्मेश्वराप्तमन्त्राय नमः । आशाविरहिताय । आशापालनुताय । आदित्यसमकान्तिमते । आदिकैलास- नगरीनायकाभिमताय । आर्याय । आढ्याय । आनन्दाय । आपद्विनाशकाय । आनन्दात्मफलप्रदाय । आर्तसंरक्षणाय । आश्रितेष्टार्थदायकाय । आपन्नार्तिविनाशकाय । आर्यसंसर्गतत्पराय । इन्दिरावासवक्त्रश्रिये । इन्दिरापाङ्गवीक्षिताय । इन्दिरारमणस्निग्धाय । इन्दिरावासपात्रकाय । इन्द्रादिदेवतापूज्याय । इन्द्रगोपसमांशुकाय नमः । १०० ॐ इलाधरसुतापुत्राय । इतिहासपराय । इयत्ताविच्छिन्नयशसे । इक्षुसारसमानवाचे । इच्छाविरहिताय । इन्द्रविमानप्रवरस्थिताय । इष्टापूर्तफलप्राप्ताय । इष्टेष्टवरदायकाय । इतिहासस्तुतिस्तुत्याय । इहामुत्रफलप्रदाय । इन्द्रोपेन्द्रसमाभोगाय । इष्टदाय । इष्टवत्सलाय । ईशानचरणासक्ताय । ईप्सितार्थप्रदायकाय । ईहाविरहिताय । ईड्याय । ईतिबाधाविनाशकाय । ईषणात्रयविनिर्मुक्ताय । ईश्वराङ्घ्रिप्रपूजकाय नमः । १२० ॐ ईशताण्डवसेविने नमः । ईशित्वाद्यष्टसिद्धिदाय । ईश्वरोत्सङ्गनिलयाय । ईश्वरध्यानचेतसे । ईशानादिब्रह्मचिन्त्याय । ईशपूजापरायणाय । ईश्वरप्रेरणकराय । ईशाज्ञापरिपालकाय । ईदृगित्यविनिर्देश्याय । ईश्वरारा-धनोत्सुकाय । ईशक्षेत्ररताय । ईशाय । ईश्वरप्रेमभाजे । ईश्वरावासरसिकाय । ईशैश्वर्यसमृद्धिमते । ईतिभीतिहराय । ईडनीयपराक्रमाय । उदारकीर्तये । उत्कृष्टाय । उद्योगिने नमः । १४० ॐ उत्सवप्रियाय नमः । उत्कृष्टशक्तये । उत्साहाय । उज्जृम्भाय । उद्भवाय । उत्कृष्टबुद्धये । उन्मत्ताय । उद्वेगघ्नाय । उरगेश्वराय । उदग्रलोचनाय । उदग्राय । उमाचरणभक्तिमते । उरुप्रभावाय । उरुतराय । उमासूनवे । उदारधिये । ऊर्ध्वरेतसे । ऊर्ध्वगतये । ऊर्ध्वाय । ऊर्ध्वगाय नमः । १६० ॐ ऊर्जिताय नमः । ऊर्जवते । ऊर्जितकीर्तये । ऊर्जिताघप्रमर्दनाय । ऊर्जिताज्ञाय । ऊर्जितगतये । ऊर्जितवाचे । ऊर्जितासनाय । ऋजुरूपाय । ऋजुकराय । ऋजुमार्गप्रदर्शकाय । ऋणत्रयविनिर्मुक्ताय । ऋग्यजुर्वेद-पारगाय । ऋतवाचे । ऋतुपर्णश्रिये । ऋचीकप्रियदर्शनाय । ऋद्धाय । ऋद्ध्यात्मकाय । ऋभुक्षापतिसेविताय । लिङ्गार्चनपराय नमः । १८० ॐ लिङ्गपुराणश्रवणोत्सुकाय नमः । एणाजिनधराय । एणाङ्कधरपूजकाय । एनौघनाशनाय । एकवीराय । एकाग्रचित्ताय । एधमानप्रभावाय । एणाक्षिप्रियभक्तिमते । एकत्र निश्चलमतये । एकभोगाय । एकमानसाय । ऐश्वर्यदायकाय । ऐतिह्माय । ऐन्द्रभोगवते । ऐरावतसमारूढाय । ऐरावतसुपूजिताय । ओजस्विने । ओषधीपतये । ओङ्कारनिरताय । ओम्पदार्थविचारकाय नमः । २०० ॐ ओदनप्रियाय नमः । औदार्यशीलाय । औदार्याय । औन्नत्याय । औन्नतिदायकाय । औपकार्यवरिष्ठाय । औपकाररताय । अम्बरस्थाय । अम्बरतरवे । अम्बरप्रभुसेवकाय । अम्बरारण्यरसिकाय । अंशुमते । अन्नदाय । अम्बराय । अम्बिकातनयाय । अम्बिकारमणप्रियाय । अन्धकारविनाशनाय । अन्धत्वविनिवर्तकाय । अन्धकारिप्रियाय । अन्तकान्तकभक्तिमते नमः । २२० ॐ अम्बुजातमुखाय नमः । अम्बुजावाससुन्दराय । आस्थानमण्डपकराय । आस्थानस्थप्रपूजकाय । आस्थानस्थानरसिकाय । आस्थानावाससौख्यदाय । कल्याणशीलाय । काव्यज्ञाय । कन्दर्पसमकान्तिमते । कनकाङ्गदकेयूरधराय । कनकाम्बरधारकाय । कारुण्यामृतवर्षिणे । करुणारसशेवध्यै । कलिदोषनिवृत्ताय । कमनीयाय । कलान्विताय । कलानाथाय । कल्पवल्ली-समभुजाय । कवाटकठिनोरस्काय । करेणुमन्दगमनाय नमः । २४० ॐ करेणुसमविक्रमाय । कटीतटलसत्सूत्राय । कौपीनवरधारकाय । करस्थपुस्तकधराय । करस्थाक्षस्रगुज्ज्वलाय । कम्बुकण्ठाय । कलालापाय । कर्मठाय । कञ्जलोचनाय । करभोरवे । कामहराय । कामतूणीरजङ्घिकाय । कमलत्विट्पदाय । कान्ताय । कामशासन सेवकाय । कालज्ञाय । काङ्क्षारहिताय । कारणज्ञाय । कृपानिधये । कामप्रदाय नमः । २६० ॐ कान्तियुक्ताय नमः । काञ्चनाभाय । कवीश्वराय । कान्तिमते । क्लेशनाशाय । कलुषघ्नाय । कलाधराय । क्रूरघ्नाय । कवचिने । कोमलाङ्गाय । कृतिने । कृशाय । कल्याय । कृतज्ञाय । कलितापहृते । कामरूपाय । कल्पतरवे । करुणाकराय । ख्यातिप्रदाय । खेचरेशाय नमः । २८० ॐ ख्याताय नमः । खेचरसंश्रयाय । खस्थप्रियाय । खण्डिताघाय । खस्थाय । खेचरपालकाय । खण्डेन्दुमौलिभक्ताय । खरतापहराय । खेलाय । खेटधराय । खट्वाङ्गिने । खलनिग्रहाय । खण्डितैनसे । खण्डिताशाय । खण्डिताय । खण्डपातकाय । खरान्तकहिताय । खेचरीजनपूजिताय । गम्भीराय । गगनानन्दाय नमः । ३०० ॐ गुप्ताय नमः । गुह्याय । गुणाश्रयाय । गुणातीताय । गुणनिधये । गूढरूपाय । गुणाग्रण्यै । गोप्त्रे । गुणज्ञाय । गीतज्ञाय । गुणवते । गुणवर्धनाय । गुहावासाय । गतातङ्काय । गद्यपद्यप्रियाय । गताविद्याय । गतक्लेशाय । गण्याय । गगनगोचराय । गाङ्गेयसमबुद्धिमते नमः ॥ ३२० ॐ गणनीयचरित्राय नमः । गन्धर्वसेव्याय । गन्धर्वाय । गोपालसचिवोत्तमाय । गोप्रियाय । गोनुतयशसे । गिरिशाप्तमनवे । गुणिने । गोपूज्याय । गिरिजासूनवे । गोधराय । गगनस्थिताय । गाङ्गेयशोभिततनवे । गीतवादित्रकौशलाय । घनानन्दाय । घृणाम्भोधये । घनवते । घनपतये । घनविक्रमाय । घनगम्भीरघोषाय नमः । ३४० ॐ घोरासुरविनाशकाय नमः । घनर्द्धये । घननादाय । घटितैश्वर्यवते । घृष्टिमते । घोषिताम्नायाय । घटिताशेष-राज्यवते । चण्डाय । चामीकरप्रख्याय । चण्डाज्ञाय । चिन्मयाय । चिन्मुद्राधारकाय । चित्ज्ञाय । चिदम्बरनिवासकाय । चित्रवेषाय । चित्ररथाय । चिदाज्ञापरिपूजकाय । चिदेकरसाय । चिद्रूपाय । चित्रभानुसमद्युतये नमः । ३६० ॐ चीर्णव्रताय नमः । चीर्णतपसे । चिन्तितार्थप्रदायकाय । चमत्कृते । चिन्तनीयाय । चोरघ्नाय । चतुराय । चन्द्रशेखरसूनवे । चामीकरविभूषणाय । चारवे । चन्द्रार्कसदृशाय । चित्रचेलाय । चिरन्तनाय । छन्दोमयाय । छद्महन्त्रे । छिन्नपाशाय । छविच्छदाय । छत्रीकृतमहाकीर्तये । छेदिताखिलपातकाय । छाडीकृतमहाक्लेशाय नमः । ३८० ॐ छान्दसज्योतिर्दर्शकाय नमः । छान्दसैकरताय । छान्दसाराधनप्रियाय । छन्दस्साराय । छिन्नपाशात्मने । छन्दोगाय । छिन्नसंशयाय । छादितानङ्गवृत्तये । छेदिताखिलसंशयाय । जम्भारिमित्राय । जयदाय । जगत्पूज्याय । जगद्धिताय । जगज्ज्येष्ठाय । जितामित्राय । जेत्रे । ज्योतिर्मयाय । जयाय । जितेन्द्रियाय । जगन्नाथाय नमः ॥ ४००॥ ॐ जगज्जीवाय नमः । जनाश्रयाय । जगद्वन्द्याय । जितक्लेशाय । जगत्कीर्तये । जगत्प्रियाय । जगदानन्द-जनकाय । जनाज्ञानापहारकाय । जितमायाय । जितक्रोधाय । जितासङ्गाय । जनप्रियाय । जयन्ताय । जन्तुतापघ्नाय । जन्मकर्मनिवर्तकाय । जनेश्वराय । जगद्भव्याय । जन्मादिवर्जिताय । जगदाह्लादजनकाय । जगद्गुरवे नमः । ४२० ॐ जयत्सेनाय नमः । जपरताय । जपमालाधराय । जपिने । झञ्झानिलमहावेगाय । झल्लरीवाद्यसुप्रियाय । झङ्कारीकृतवेदाय । झटिताशेषपातकाय । ज्ञानज्ञेयाय । ज्ञानगम्याय । ज्ञानमूर्तये । ज्ञानाम्भोधये । ज्ञाननिधये । ज्ञानिने । ज्ञेयस्वरूपवते । ज्ञानशास्त्रप्रवक्त्रे । ज्ञानशास्त्रविशारदाय । ज्ञापकाय । ज्ञापिताम्नायाय । ज्ञानदीप्ताय नमः । ४४० ॐ टीकाकृतत्रयीघोषाय नमः । टीकावाचे । टङ्किताखिलाय । टङ्कारनृत्यविभवाय । टङ्कावज्रध्वजाङ्किताय । टङ्कितैनस्तमोरवये । डाडिमीसुमचेलाय । डाडिमीबीजदन्तवते । डमड्डमरुकाय । ढङ्कावाद्यप्रियकराय । ढङ्कितामरपूजकाय । ढङ्कानादोन्-मुखाय । तत्त्वज्ञानिने । तपोरूपाय । त्रिगुणात्मकाय । तत्पदाय । तत्त्वगाय । तीव्राय । त्रिकालज्ञाय । त्रयीमयाय नमः । ४६० ॐ तुष्टिदाय नमः । तीक्ष्णाय । त्रिदशेशाय । तपोरूपाय । त्रिमूर्तिमते । स्तवाय । स्तोत्रे । स्तवप्रीताय । त्रिकालविदे । तत्पदज्ञाय । त्वम्पदज्ञाय । त्रयीतनवे । तत्त्वमस्यादिवाक्यज्ञाय । ताराधिपमुखाय । स्थिताय । स्थायिने । स्थापकाय । स्थूलसूक्ष्मप्रदर्शकाय । स्थैर्यदाय । स्थानदाय नमः । ४८० ॐ स्थूलाय नमः । स्थिरप्रज्ञाय । स्थिरपूज्याय । स्थिरकीर्तये । स्थविष्ठाय । स्थापितेश्वराय । दात्रे । दयानिधये । दान्ताय । दुरितघ्नाय । दुरासदाय । दर्शनीयाय । देवपूज्याय । दीर्घबाहवे । दृढव्रताय । दुराधर्षाय । दुर्विगाह्माय । दक्षाय । दर्पणशोभिताय । दुर्धराय नमः । ५०० ॐ दानशीलाय नमः । दीनसन्तापनाशनाय । दीप्याय । दिव्याकृतये । देवाय । दीर्घदृष्टये । दिवस्पतये । दमाय । दण्डाय । दमयित्रे । दर्पदाय । दुर्लभाय । दुष्प्रेक्ष्याय । दुर्गमाय । दीप्ताय । दिव्यमण्डनाय । दुःखघ्नाय । दुरितघ्नाय । दुर्जयाय । दुरतिक्रमाय नमः । ५२० ॐ देवर्षये नमः । देवपूज्याय । देवज्ञाय । दैवचिन्तकाय । दुर्ज्ञेयाय । दुष्टदूराय । देवसिंहाय । दिनेश्वराय । दान्ताय । दयापराय । दुरारिघ्ने । दिशाम्पतये । दण्डनीतये । दण्डकामाय । दहराकाश-पूजिताय । धर्मेशाय । धर्मशास्त्रज्ञाय । धृतिमते । धूतकल्मषाय । धुरन्धराय नमः । ५४० ॐ धर्मपराय नमः । धनदाय । धृतिवर्धनाय । धनाध्यक्षाय । धनपतये । धन्विने । धर्मपरायणाय । धर्मकृते । धर्मशूराय । धर्महेतवे । धर्मव्रताय । धात्रे । धीमते । धर्मचारिणे । धन्याय । धुर्याय । नित्याय । नित्यपतये । नन्द्याय । नित्यतृप्ताय नमः । ५६० ॐ निरञ्जनाय नमः । नित्योत्सवाय । निश्चलात्मने । निर्लेपाय । निरहङ्कृतये । निरवद्याय । निष्कलङ्काय । निर्मोहाय । निरुपद्रवाय । नित्यानन्दाय । निरातङ्काय । निर्ममाय । निरामयाय । निरीहाय । निर्मलाय । निष्प्रत्यूहाय । निरालम्बाय । निस्सङ्गाय । निगमस्तुताय । नैकरूपाय नमः । ५८० ॐ निराकाराय नमः । निधये । नेत्रे । निराश्रयाय । निजोद्भवाय । निर्विकल्पाय । नियतपूजकाय । नादान्तदृशे । नादनुताय । नारदेड्याय । नृवाहनाय । नरसिंहाय । नृपामात्याय । नवात्मने । नादभक्तिमते । पवित्राय । परमोदाराय । पराय । परमपूरुषाय । परब्रह्मविचारज्ञाय नमः । ६०० ॐ परमाय नमः । पावनाकृतये । प्रत्यक्षमूर्तये । परेशाय । परमप्रियाय । पितृभक्ताय । पीतवर्णाय । पुण्याय । पुण्यविवर्धनाय । पुण्यरूपाय । पुण्यकराय । पुण्यकृते । पापनाशनाय । परस्मैज्योतिषे । प्रसन्नात्मने । प्रणतार्तिहराय । प्रभवे । पूतात्मने । परमात्मने । परमात्मेशभक्तिमते नमः । ६२० ॐ परार्थाय नमः । परमस्पष्टाय । पटवे । परिबृढाय । पूर्णाय । पुरुषाय । प्रभवाय । पुरुषोत्तमाय । परस्मै ब्रह्मणे । पवित्राय । पुष्टिमते । पुष्टिवर्धनाय । पापहारिणे । पाशमुक्ताय । पूर्णानन्दाय । पुष्कलाय । परात्पराय । पावनाय । पूज्याय । पूज्यजनावृताय नमः । ६४० ॐ प्रवराय नमः । पवमानज्ञाय । प्रकाशात्मने । प्रतापवते । परब्रह्मस्वरूपाय । प्रज्ञावते । पाण्ड्यराट्प्रियाय । प्रकृष्टार्थाय । प्रशान्ताय । पृथवे । पृथुपराक्रमाय । पवित्रमाणिक्यपतये । परमैश्वर्यकारणाय । परमभागवताय । पार्थिवात्मप्रपूजकाय । पुरन्दरनुताय । पुरुहूतसमद्युतये । पावकाभाय । पातकभिदे । पातकाद्रिपवये नमः । ६६० ॐ परस्मै नमः । प्रार्थितात्मविनोदाय । पतङ्गार्चिषे । परेश्वराय । परमस्वामिशिष्याय । परब्रह्मैकभावनाय । फणिराड्धरभक्ताय । फणामणिविभूषणाय । फलदाय । फलहस्ताय । फुल्लाम्बुजविलोचनाय । बलवते । बहुमित्राय । बभ्रवे । बुधप्रियाय । बहुश्रुताय । बहुमताय । ब्रह्मण्याय । ब्राह्मणप्रियाय । ब्रह्मचारिणे नमः । ६८० ॐ बालरूपाय नमः । ब्रह्मविष्ण्वीशसेवकाय । बहुरूपाय । बृहद्भानवे । बोधाय । ब्रह्मणे । बहुप्रदाय । बहुभाग्याय । बलश्रीमते । बालार्करोचिष्मते । बृहच्चक्षुषे । बृहद्देहाय । बृहद्भावाय । बुधार्चिताय । बन्धमुक्ताय । बन्धशून्याय । ब्रह्मबन्धाय । बिलेशयाय । ब्रह्माराध्याय । ब्रह्मवेद्याय नमः । ७०० ॐ ब्रह्मविदे नमः । ब्रह्मनिष्ठाय । भवभक्ताय । भक्तिगम्याय । भव्याय । भाग्यवर्धनाय । भ्राजिष्णवे । भगवते । भोगिने । भुक्तिमुक्तिप्रदायकाय । भावनाय । भावनागम्याय । भवनाशाय । भवप्रियाय । भाव्याय । भोगीश्वराय । भर्त्रे । भीमाय । भीमपराक्रमाय । भूतिकृते नमः । ७२० ॐ भूतिदाय नमः । भोक्त्रे । भावुकाय । भुवनेश्वराय । भवतापप्रशमनाय । भीकराय । भूतभावनाय । भ्रान्तिनाशाय । भावुकेष्टाय । भानुमते । भुवनाश्रयाय । भोज्यप्रदाय । भूरिभोगप्रदाय । भद्राय । भिषगीश्वराय । भजनीयाय । भद्रमूर्तये । भक्तभक्ताय । भयापहाय । भरतज्ञाय नमः । ७४० ॐ भारतीशाय नमः । भूपमन्त्रिणे । भौतिकाय । महाबुद्धये । महावीर्याय । महोत्साहाय । महाबलाय । महाभोगाय । महाशक्तये । महामायिने । महाद्युतये । मुनिस्तुताय । महामात्याय । मेधाविने । मेखलिने । महते । महानन्दाय । माननिधये । महापुण्याय । महोदयाय नमः । ७६० ॐ मानदाय नमः । मुदिताय । मानिने । महाबलपराक्रमाय । महोत्तमाय । महामुख्याय । महार्थिने । मूर्तिमते । मुक्तिमते । मुनये । मुक्तिदात्रे । महाभागाय । मोक्षदाय । मङ्गलप्रदाय । मुक्तामालादिभूषाढ्याय । मुनिमानसहंसकाय । मौनिने । मङ्गलवाचे । मालिने । महेशाराधनोत्सुकाय नमः । ७८० ॐ माणिक्यवाचकाय । मनोदूराय । महोन्नताय । यमिने । यशस्कराय । योगिने । योगनिष्ठाय । यतिव्रताय । योगयुक्ताय । योगनिधये । योगविदे । योगसिद्धये । यातनारहिताय । यन्त्रिणे । यन्त्राय । यन्त्रज्ञाय । योगीश्वराय । योग्याय । यमिसेव्याय । यथेष्टदाय नमः । ८०० ॐ यमाद्यष्टाङ्गनिरताय नमः । यजुर्वेदमनुप्रियाय । यशस्विने । यज्ञनिरताय । यतिरूपाय । यतेन्द्रियाय । रमणीयाय । रम्यरूपाय । रसज्ञाय । रसभावुकाय । रञ्जनाय । रञ्जिताय । रम्याय । रागद्वेषविनाशनाय । रणप्रियाय । रतोदाराय । रक्तार्चिषे । रुचिराय । रुचये । रूपलावण्यसौन्दर्याय नमः । ८२० ॐ रक्तमाल्यानुशोभिताय नमः । रजस्तमोगुणातीताय । रजनीशमुखोज्ज्वलाय । राजीवाक्षाय । राजराजाय । रोगनाशनाय । रक्ताङ्गदधराय । रक्तकुण्डलमण्डिताय । रणमण्डलमण्डिताय । रणन्मञ्जीरपादाढ्याय । रुचिकृते । रुचिरेक्षणाय । लोकैकनाथाय । लोकेशाय । ललिताय । लोकनायकाय । लोकरक्षकाय । लोकशिक्षकाय । लोकलोचनरञ्जिताय । लोकबन्धवे नमः । ८४० लोचनत्रयमण्डिताय नमः । लावण्याब्धये । लैङ्गवेत्रे । लिङ्गाराधनतत्पराय । वश्याय । वरिष्ठाय । वरदाय । विभवे । वन्द्याय । विरोचनाय । विद्याधराय । विचित्राङ्गाय । विगतातङ्काय । विशोकाय । विद्वत्तमाय । वेद्याय । विभवे । विदुषे । विशाम्पतये । वीतरागाय नमः । ८६० ॐ विधेयात्मने नमः । विश्वदृशे । विमलाय । वराय । वाचालकाय । वाग्विशदाय । वातुलागमपारगाय । वाङ्मनोतीतविभवाय । वटवे । वाचामगोचराय । वाचकप्रभवाय । वाग्मिने । वनसञ्चारवते । विशुद्धात्मने । वेदविदे । विबुधप्रियाय । विज्ञानिने । व्यापकाय । वातग्रामाधिपाय । वेदगर्भाय नमः । ८८० ॐ वीतभयाय नमः । वसवे । विश्वदीप्तये । विशालाक्षाय । विजितात्मने । विभावनाय । वेद्यलक्ष्याय । विद्यात्मने । विभवात्मने । वीतदोषाय । वसुप्रदाय । विश्वमूर्तये । विश्वकर्मणे । विश्वरूपाय । वीरासनाय । वीरचूडामणये । वेत्त्रे । विद्येशाय । विबुधाश्रयाय । विनयिने नमः । ९०० ॐ विजयिने नमः । वरीयसे । विरजाय । विधये । वेगवते । वीर्यवते । वशिने । वरगुणाय । विशोकाय । वरशीलाय । वन्दारुजनवत्सलाय । शरजन्मसमाय । श्रीमते । शङ्करप्रियाय । शूराय । शुद्धाय । शुचये । शिष्टाय । शुद्धात्मने । शोकनाशनाय नमः । ९२० ओ शमादिषट्कसम्पन्नाय नमः । शीलवते । शोभनाकृतये । षट्चक्रज्ञाय । षडूर्मिज्ञाय । षडङ्गश्रुतिपारगाय । षडरिघ्नाय । षडाधाराय । षड्वर्गिणे । षट्क्रमाय । सिद्धार्थाय । सिद्धसङ्कल्पाय । सिद्धाय । साधवे । सुरेश्वराय । स्वयञ्ज्योतिषे । सुप्रसन्नाय । सुमुखाय । सुखदाय । सुहृदे नमः । ९४० ॐ सम्भाव्याय नमः । सौमनस्याय । सकलागम-पारगाय । सर्वलक्षणसम्पन्नाय । सत्त्वधर्मपरायणाय । सच्चिदानन्दद्रष्ट्रे । सदामृष्टान्नदायकाय । सर्ववेदनिधये । सत्याय । सर्वविघ्नविनाशकृते । सुकुमाराय । सुनासाय । सुमुखाय । सुलोचनाय । स्वर्णवर्णाय । सुक्रमाय । सुग्रीवाय । सदाशुचये । सर्वदर्शिने । सर्ववेद्याय नमः । ९६० ॐ सर्वायुधविशारदाय । सदाशिवसमाराध्याय । सर्वमङ्गलदायकाय । समाय । समविभक्ताङ्गाय । समलोष्टाश्मकाञ्चनाय । संसारसङ्गनिर्मुक्ताय । सदाब्रह्मैकभावनाय । सद्विवेकाय । साध्यनिष्ठाय । साधुसङ्गाय । समात्मवते । हस्तलग्नशुकाय । हृताघाय । हतकिल्बिषाय । हविषे । हिरण्यवर्णाय । हितकृते । हेमभूषणाय । हतपापाय नमः ॥ ९८०॥ ॐ हतारये नमः । हर्षदाय । हसिताननाय । हस्तिवाहाय । हर्म्यवासाय । हतद्वैताय । हतार्तिमते । हानिवृद्धिनिवृत्ताय । हरभक्ताय । हुताग्निमते । क्षेत्रज्ञाय । क्षेत्रपालकाय । क्षेत्रवासाय । क्षमाकराय । क्षेत्रपाय । क्षान्तिदाय । क्षेम्याय । क्षालिताघाय । क्षमाक्षमाय । क्षीणसंरक्षणाय । क्षितीशसचिवोत्तमाय । माणिक्यवाचक-स्वामिने नमः । १००२ इति श्रीमाणिक्यवाचकसहस्रनामावलिः समाप्ता । Proofread by Aruna Narayanan Tirupperunthurai (also called the Athmanathaswamy temple) is located in Avudaiyarkoil village, near Aranthangi in the Pudukkottai district of Tamil Nadu. It was built to honor Lord Shiva. The presiding deity is formless (Atmanatar); there is no Śivalingam but only a pedestal (AvudayAr) located in the sanctum, hence the name Avudayar Koil. The God faces South in this temple- in Dakshinamurthy or Guru form. His consort is worshipped as SivayoganAyaki (YogAmbAl) in iconless form. There is no Nandi bull icon as is conventional in almost all Shiva temples. There is deep spiritual significance in this. Hinduism allows deity worship for the novice. As one's devotion matures, one begins to contemplate the truth of formlessness of the Brahman. The temple has been designed to illustrate this theology. This one of the rarest Saivite shrines in whole of India to portray the supreme truth symbolically. Since the soul (athma) has no form, the deity is called Athmanathar. Legend has it that Manickavasagar, one of the four Saivite savants, constructed the temple at Avudaiyarkoil.
% Text title            : Manikyavachaka Sahasranamavali
% File name             : mANikyavAchakasahasranAmAvaliH.itx
% itxtitle              : mANikyavAchakasahasranAmAvaliH
% engtitle              : mANikyavAchakasahasranAmAvaliH
% Category              : shiva, nAmAvalI, sahasranAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri
% Indexextra            : (Scan, Info 1, 2)
% Latest update         : December 12, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org