माहेश्वरकवचम्
॥ अथ माहेश्वरकवचम् ॥
ॐ नमोभगवते रुद्राय ।
राजोवाच ।
अङ्गन्यासं यदुक्तंभो महेशाक्षर संयुतम् ।
विधानं कीदृशं तस्य कर्तव्यं केन हेतुना ॥ १॥
तद्वदस्व महाभाग विस्तरेण ममाग्रतः ।
भृगुरुवाच ।
कवचं महेश्वरं राजन् देवैरपि सुदुर्लभम् ॥ २॥
यः करोति स्वगात्रेषु पूतात्मा संभवेन्नरः ।
कृत्वा न्यासमिमं यस्तु सङ्ग्राम प्रविशेन्नरः ॥ ३॥
न शरास्तोमरास्तस्य खड्गशक्ति परश्वधाः ।
प्रभवन्ति रिपोः क्वापि भवेच्छिवपराक्रमः ॥ ४॥
व्याधिग्रस्तस्तु यः कश्चित्कारयेच्चैवमार्जनम् ।
एकादशकुशैः साग्रैर्मुक्तोभवति नान्यथा ॥ ५॥
न भूता न पिशाचाश्च कूष्माण्डा न विनायकाः ।
शिवस्मरणमात्रेण न विशन्ति कलेवरे ॥ ६॥
ॐ नमः पञ्चवक्त्राय शशिसोमार्कनेत्राय
भयार्त्तानामभयाय मम सर्वगात्ररक्षार्थे विनियोगः
ॐ ह्रौं ह्रां ह्रं मन्त्रेणानेन
वृषगोमयभस्मनाम् आमन्त्र्यललाटे तिलकमादाय पठेत् ॥
त्राहि मां देव दुष्प्रेक्ष्य शत्रूणांभयवर्धन ।
ॐ स्वच्छन्दभैरवः प्राच्यामाग्नेय्यां - शिखिलोचनः ॥ ७॥
भूतेशो दक्षिणे भागे नैरृत्यां भीमदर्शनः ।
वारुणे वृषकेतुश्च वायौ रक्षतु शङ्करः ॥ ८॥
दिग्वासाः सौम्यतो नित्यमैशान्यां मदनान्तकः ।
वामदेव ऊर्ध्वतो रक्षेदधोरक्षेत्त्रिलोचनः ॥ ९॥
पुरारिः पुरतः पातु कपर्दी पातु पृष्ठतः ।
विश्वेशो दक्षिणे भागे वामे कालीपतिः सदा ॥ १०॥
माहेश्वरः शिरोभागे भवो भाले सदावतु ।
भ्रुवोर्मध्ये महातेजास्त्रिनेत्रो नेत्रयोर्द्वयोः ॥ ११॥
पिनाकी नासिका देशे कर्णयोर्गिरिजापतिः ।
उग्रः कपोलतो रक्षेन्मुखदेशे महाभुजः ॥ १२॥
जिह्वायामन्धकध्वंसी दन्तान्रक्षतु मृत्युजित् ।
नीलकण्ठः सदाकण्ठे पृष्ठे कामाङ्गनाशनः ॥ १३॥
त्रिपुरारिः स्कन्धदेशे बाह्वोश्च चन्द्रशेखरः ।
हस्तिचर्मधरो हस्ते नखाङ्गुलिषु शूलभृत् ॥ १४॥
भवानीशः पातु हृदयं पातूदरकटीर्मृडः ।
गुदे लिङ्गे च मेढ्रे च नाभौ च प्रमथाधिपः ॥ १५॥
जङ्घोरुचरणे भीमः सर्वाङ्गेकेशवप्रियः ।
रोमकूपे विरूपाक्षः शब्दे स्पर्शेच योगवित् ॥ १६॥
रक्तमज्जावसामासशुक्रेवसुगणार्चितः ।
प्राणापानसमानेषुदानव्यानेषुधूर्ज्जटीः ॥ १७॥
रक्षाहीनन्तुयत्स्थानं वर्जितं कवचेन यत् ।
तत्सर्वं रक्षमे देव व्याथिदुर्गज्वरादितः ॥ १८॥
कार्यं कर्म त्विदं प्राज्ञैर्दीपं प्रज्वाल्य सर्पिषा ।
निवेद्य शिखिनेत्राय वारयेच्चोत्तरं मुखम् ॥ १९॥
ज्वरदाहपरिक्रान्तं तथान्यव्याधिसंयुतम् ।
कुशैःसंमार्ज्य समार्ज्यक्षिपेद्दीपशिखेज्वरम् ॥ २०॥
ऐकाहिकं द्व्याहिकं वा तृतीयकचतुर्थकम् ।
वातपित्तकफोद्भूतं सन्निपातोग्रतेजसम् ॥ २१॥
अन्यद्दुःखदुराधर्षं कर्म चाभिचारिकम् ।
धातुस्थं कफसंमिश्रं विषम कामसम्भवम् ॥ २२॥
भूताभिषङ्गसगर्तं भूतचेष्टादिसस्थितम् ।
शिवाज्ञां घोरमन्त्रेण पूर्ववृत्तं स्वयं स्मर ॥ २३॥
जहि देहं मनुष्यस्य दीपं गच्छ महाज्वर ।
कृत्वा तु कवचं दिव्यं सर्वव्याधिभयार्दनम् ॥ २४॥
न बाधन्ते व्याधयस्तं बालग्रहभयाश्च ये ।
लूताविस्फोटकं घोरशिरोर्त्तिच्छर्द्दिविग्रहम् ॥ २५॥ ??
कामलाक्षयकासञ्च गुल्माश्मरिभगन्दरान् ।
शूलोन्मादञ्चहृद्रोगं यकृतं पाण्डुविद्रधिम् ॥ २६॥
अतिसारादयोरोगा डाकिनीग्रहपीडिताम् ।
पामाविचर्चिकाद्द्रुकुष्ठव्याधिविषार्दनम् ॥ २७॥
स्मरणान्नाशयत्याशु कवचं शूलपाणिनः ।
यस्तु स्मरति नित्यं वै यस्तु धारयते नरः ॥ २८॥
समुक्तः सर्वपापेभ्यो वसेच्छिवपुरे चिरम् ।
सख्यव्रतस्य दानस्य यज्ञस्यास्तीव शास्त्रतः ॥ २९॥
न सङ्ख्या विद्यते शम्भोः सर्वकामफलप्रदम् ॥ ३०॥
श्रोतव्यं सततं भक्त्या कवचं सर्वकामिकम् ।
लिखितं तिष्ठते यस्य गृहे सम्यगनुत्तमम् ॥ ३१॥
न तत्र कलहोद्वेगं नाकालमरणंभवेत् ।
नाल्पप्रजाः स्त्रियस्तत्र न दौर्भाग्यसमाश्रिताः ॥ ३२॥
तस्मान्माहेश्वरं नाम कवचं सुरगणार्चितम् ।
श्रोतव्यं पठितव्यञ्च मन्तव्यं भावुकप्रदम् ॥ ३३॥
माहेश्वरस्य कवचं सर्वव्याधिनिषूदनम् ।
यः पठेच्चेन्नरो नित्यं सव्रजेच्छाङ्करं पुरम् ॥ ३४॥
इति श्रीमाहेश्वरकवचं सम्पूर्णम् ॥
Proofread by Nat Natarajan, NA