श्रीमार्गसहायलिङ्गस्तुतिः
॥ श्रीमदप्पय्यदीक्षितेन्द्रविरचिता ॥
पयोनदीतीरनिवासलिङ्गं बालार्ककोटिप्रतिमं त्रिनेत्रम् ।
पद्मासनेनार्चितदिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ १॥
गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्रचर्माम्बरभूषिताङ्गम् ।
गौरीमुखाम्भोजविलोलभृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ २॥
सुकङ्कणीभूतमहाभुजङ्गं संज्ञानसम्पूर्णनिजान्तरङ्गम् ।
सूर्येन्दु बिम्बानलभूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ३॥
भक्तिप्रियं भावविलोलभृङ्गं भक्तानुकूलामलभूषिताङ्गम् ।
भावैकलोकान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ४॥
सामप्रियं सौम्यमहेशलिङ्गं सामप्रदं सौम्यकटाक्षलिङ्गम् ।
वामाङ्गसौन्दर्यविलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ५॥
पञ्चाक्षरीभूतसहस्रलिङ्गं पञ्चामृतस्नानपरायणाङ्गम् ।
पञ्चामृताम्भोजविलोलभृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ६॥
वन्दे सुराराधितपादपद्मं श्रीश्यामवल्लीरमणं महेशम् ।
वन्दे महामेरुशरासनं शिवं वन्दे सदा मार्गसहायलिङ्गम् ॥ ७॥
॥ इति श्रीमार्गसहायलिङ्गस्तुतिः सम्पूर्णा ॥
॥ ॐ तत्सत् ॥
Encoded by N. Balasubramanian
Proofread by N. Balasubramanian, Ruma Dewan