श्रीमार्कण्डेयकृतं शिवाष्टकम्
सदा गोदावर्यास्तटनिकटवासं पशुपतिं
वदान्यं सर्वेशं वरदमखिलार्थैक घटनम् ।
शिवं गौरीनाथं शशिधरमनन्तार्चितपदं
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ १॥
सदा कैलासाद्रि स्वपदमनघं सर्वजगतां
प्रभुं श्रीविश्वेशं प्रकटित परन्धामसरथम् ।
नटेशं गौरीशं ललितरविचन्द्रानलसदृशं
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ २॥
महादेवं सर्वं मधुरिपुसखं मङ्गलकरं
परं शम्भुं साम्बं पुरमथनमीशं भवहरम् ।
स्मरारिं सर्वज्ञं स्मरहरमनादिं मृगधरं
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ ३॥
प्रदोषेषु स्वान्तं प्रबलतरतौर्यत्रिककृतं
त्रयत्रिंशत्कोटि त्रिशदप्रवरैः सं परिवृतम् ।
रमावाणीन्द्र श्रीपति विधिकृतोल्लास्यकरणं
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ ४॥
भवानीहृत्पद्मारुणमहिनि नीलोत्पलगलं
सहस्रारे पद्मानिशमविवसन्तं सुरगुरुम् ।
स्तुतिभ्यो भक्तानां निखिलसुखदं सुस्थिरपदं
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ ५॥
शिवस्त्वं विष्णुत्वं सकलभुवनस्त्वं रविशशि-
नभस्त्वं कायस्त्वं सकलजगात्मा त्वमसि भो ।
यतिर्देयं सान्ते सुखतमखिलं जैमिनिवरेः
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ ६॥
सदोच्चैराह्वानं हरहरहरेति प्रवचसा
सदा भक्त्यानन्दो शिवशिवशिवेति स्वमनसा ।
स्तुतिं वारं वारम्भवभवभवेति प्रतिभया ।
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ ७॥
यमाहूतं भीतं मुनिवरनुतं पाशनिहतिं
भवन्तं सद्भक्त्या हृदिशिशुमवन्तं करुणया ।
शरण्यं भक्तानां परमगतिमीशं परशिवं
भजे मार्कण्डेयं भसितनिटलं भव्यनटनम् ॥ ८॥
श्रीकोलाचलसद्वंशवारिदेस्तु सुधाकरः ।
यज्ञेशो भूसुरश्चक्रे मार्कण्डेयशिवाष्टकम् ॥ ९॥
इति श्रीमार्कण्डेयकृतं शिवाष्टकं सम्पूर्णम् ।
Proofread by Vani V.