श्रीमार्कण्डेयेश्वरेशस्तवः
सर्वेषां दैवतानां सकलसुखफलप्राप्तये पूजकानां
कार्याधीशो गणेशो नगवरतनयानन्दचेष्टाभिरामः ।
यस्य श्रीशेश्वरस्य प्रथितगुणगणालङ्कृतस्यात्मजस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १॥
वैकुण्ठाधीशमायामयसुखगवधूरूपसन्दर्शनाद्यो
मोहात्सम्भ्रान्तमान(म्यमाण)स्सहगमनकलाचातुरीयुक्तचित्तः ।
तन्मायास्त्रीशरीरे वटुकमजनयद्भासते यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ २॥
यस्याङ्गे(ग्निः)फालभागे सुललितनयनं सव्यभागे भवानी
हस्ते ब्रह्मोत्तमाङ्गं सगरलसुगले ब्रह्मशीर्षालिमाला ।
अङ्गेऽनङ्गाङ्गभूतिः पदकमलयुगे विष्णुनेत्राम्बुजातं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ३॥
यस्य श्रीमौलिभूषा कुमुदहितकलाभासमानोत्तमाङ्गे
विद्युत्पुञ्जाभकान्ते विलसितसुजटामण्डले व्योमगङ्गा ।
कण्ठे वज्रासिनीलोपलनिभगरलं भासते यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ४॥
हस्ताब्जे भासमानैर्निशितमुखयुतैः शूलमुख्यायुधैः सं-
दीप्ताङ्गः सर्वशत्रून् खररणसमये निर्जयन् यो बलाढ्यः ।
मार्ताण्डाग्नीन्दुनेत्रत्रययुतसुमुखैः पञ्चभिः संयुतस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ५॥
शान्तं चन्द्रायुताभं शशियुतमकुटं पद्मवक्त्रं त्रिनेत्रं
भास्वत्केयूरहाराङ्गदकटकमुखाशेषभूषाभिरामम् ।
गौरीगङ्गासमेतं प्रमथगणयुतं स्कन्दविघ्नेशसेव्यं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ६॥
मार्कण्डेयर्षिवर्यः शमनभटभयाद्यस्य पादारविन्द-
द्वन्द्वं संश्रित्य भक्त्या शिव भव शरणं ते नमः पालयेति ।
उक्त्वा मृत्युं वि(च)जित्वा चिरमतुलसुखं प्राप्तवांस्तं यमारिं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ७॥
सर्वैर्देवासुरेन्द्रैः प्रमथितकलशाम्भोधिमध्ये फणीन्द्र-
स्यास्यानीके सुरोषाद्विगलितगरलं रुद्रनेत्राग्नितुल्यम् ।
लोकानीकावनार्थं कबलितसुमतिर्यो महेशः शिवस्तं (कवलयतिसुमतिर्यो)
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ८॥
ब्रह्माद्यैर्लोकपालैः प्रणमितचरणाः प्रार्थनाकृष्टचित्त-
स्तान् कारुण्येन वीक्ष्य त्रिपुरदितिसुतानेकबाणेन दग्धुम् ।
सर्वोपायैः समर्थः ससुररिपुपुरीदाहको यः शिवस्तं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ९॥
नन्दीशानन्दनाट्यप्रियमखिलकलाकोविदं सर्वविद्या-
साम्राज्यानन्दपीठस्थितपरमशिवं सुन्दरं मन्दहासम् ।
छन्दोगुह्यार्थतत्त्वात्मकमभयमजानन्दकन्दं मुकुन्दं
मार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १०॥
मार्कण्डेयेश्वरस्य स्तवमिदमघतूलाद्रिवैश्वानराभं
नित्यं यो भक्तियुक्तः पठति स पुरुषः पापसङ्घाद्विमुक्तः ।
सद्भूमौ सर्वभोगैरनवरतसुखं प्राप्तवान् (प्राप्नुयात्) सर्वदेवैः ।
सन्मान्यः श्लाघनीयः स भवति भगवान् श्रीगुरोः सत्प्रसादात् ॥ ११॥
॥ इति श्रीमार्कण्डेयेश्वरेशस्तवः सम्पूर्णः ॥
Proofread by Aruna Narayanan