श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः
शिवलिलार्णवतः
चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर-
प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे ।
मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी-
सम्मुह्यज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ १॥
योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्घ्रिद्वये
कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः ।
वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते!
कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ २॥
हे सन्तः शृणुताधुनैव मिलितैरस्माभिरेतच्छिने
वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति ।
नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति-
र्गण्डूषोदकसेक इत्यपि भवेत् सर्वं विभाज्यं हि नः ॥ ३॥
ध्यायन्ध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं
निर्विण्णो निरचैषमेकमधुना हालास्यचूडामणे! ।
दिष्ट्या वेगवतीतटे यदि पतेदेतद्वपुर्मामकं
संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ४॥
धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी
भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः ।
मृद्भारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके
सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ५॥
पभ्द्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै ।
र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् ।
कामं त्वं जगदीश्वरो भव ततः कर्मापि किं जीर्यति
प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ६॥
देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं
मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् ।
पुष्पैश्चन्दनसम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते
तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ ७॥
अम्ब! स्विद्यति वक्रमम्ब! किमपि श्रान्त्या गतिर्मन्थरा
मातः! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः ।
इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा
प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ ८॥
त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं
निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते ।
विष्टिं कृर्वति ताम्यति श्रमभराद्वेत्राहतिस्त्वय्यभूत्
कस्याग्रे कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ९॥
लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो
भूयासं मशकोऽप्यहं पशुपते! तावच्च नार्हामि किम् ।
यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा-
वीद्दक् तादृगिदं तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ १०॥
पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते
कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया ।
सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय
प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ११॥
वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षेण शम्भो! सिकतावितानम् ।
भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ॥ १२॥
अर्धं पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं
साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् ।
त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते
त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ १३॥
आखेटधर्ममनुपालयतानुभूतः
पार्थप्रहार इति यत् तदवैमि युक्तम् ।
आयासवृत्त्यनुगुणां भृतिमप्यविन्द-
न्नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ १४॥
वेत्राहति विभक्तुं विश्वात्मकता प्रदर्शिता भवता ।
करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ १५॥
वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् ।
भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ १६॥
आनम्यानम्य मौलिं त्वयि किरति मृदं संसते मूर्ध्नि गङ्गा
बद्ध्वाबद्ध्वा कपर्दं स्पृशति फणधरा दारुणं निश्श्वसन्ति ।
औत्सुक्यात् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या
भक्तस्यैकस्य रक्षा भवति पशुपते! सर्वलोकस्य शिक्षा ॥ १७॥
अस्मत्तो बहुधो गृहीतमधुनाप्यस्मद्भवस्रोतसां
संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः ।
इत्यग्रे विनिपत्य पाण्ड्यनृपतेर्ब्रूमो वयं चेत् ततः
कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ १८॥
वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका-
न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् ।
इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान्
पिष्टापूपकृते मृदं वहसि चेद् देवः प्रमाणं ततः ॥ १९॥
प्रहृतं प्रहृतमिति त्वं पाण्ड्य! विषीदसि किमम्बिकारमणे ।
प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ २०॥
पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः
पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः ।
तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने
त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥ २१॥
इति श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः समाप्ता ।
Proofread by