ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशम् १
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः (उवाच) ।
मृल्लिङ्गपूजनं यस्मात्सर्वाभीष्टप्रदायकम् ॥ ४७३॥
मृल्लिङ्गपूजनात्पूर्वं बहवो ब्रह्मवादिनः ।
तत्वज्ञानं परं प्राप्य शिवं प्रापुः शिवाज्ञया ॥ ४७४॥
सर्वश्रुतिश्रुतं पुण्यं सर्वसम्पत्प्रवर्धकम् ।
आरोग्यदं पुष्टिदं च धम्यं मृल्लिङ्गपूजनम् ॥ ४७५॥
मृल्लिङ्गपूजनादन्यन्नति सर्वेप्सितार्थदम् ।
सत्यमित्याह भगवान् नन्दिकेशाय शङ्करः ॥ ४७६॥
मृल्लिङ्गपूजनं श्रौतं सदास्वाभीप्सितार्थदम् ।
सत्यं सत्यमिति प्राह मङ्गलापि सुमङ्गला ॥ ४७७॥
रत्नलिङ्गादपि श्रेष्ठं मृन्मयं लिङ्गमुच्यते ।
ततोऽधिकं नार्मदं स्यात् रसजं च ततोऽधिकम् ॥ ४७८॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवलिङ्गस्वरूपोपदेशं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . vAvRRittashlokAH..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य tells about the merits of worshiping the Mṛlliṅga मृल्लिङ्ग.
Proofread by Ruma Dewan