मृत्युकृतं शिवस्तोत्रम्
ऋषय ऊचुः ।
यो लीलया विश्वमिदं चकार धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः सोमेश्वरं तं शरणं व्रजामः ॥ १४॥
मृत्युरुवाच ।
इच्छामात्रेण यः सर्वं हन्ति पाति करोति च ।
तमहं त्रिदशेशानं शरणं यामि शङ्करम् ॥ १५॥
महानलं महाकायं महानागविभूषणम् ।
महामूर्तिधरं देवं शरणं यामि शङ्करम् ॥ १६॥
इति ब्रह्मपुराणे षोडशाधिकशततमाध्यायान्तर्गतं
ऋषिभिस्तथा मृत्युकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ११६/१४-१६॥
brahmapurANa . adhyAya 116/14-16..
Proofread by PSA Easwaran