नारदप्रोक्तं मृत्युञ्जयार्चनमहिमवर्णनम्

नारदप्रोक्तं मृत्युञ्जयार्चनमहिमवर्णनम्

जलधारा कल्पनीया शिवलिङ्गे शिवात्मके । मणिकाः पूरणीयाश्च सुगन्धैः शीतलैर्जलैः ॥ २५॥ शिवार्चकाः कल्पनीयाः शतशः शिवमन्दिरे । करणीयं च तैरेव शिवलिङ्गसमर्चनम् ॥ २६॥ कस्यचित् स्यात् तदालस्यं निद्राऽपि स्यात् कदाचन । अनालस्यैः कारणीयमन्यैरेव शिवार्चनम् ॥ २७॥ तोषणीयाश्च ते सर्वे धनैर्गोभिर्गृहैरपि । शिवनैवेद्यदानैश्च दुकूलैर्भूषणैरपि ॥ २८॥ शिवनामानुसन्धानकथाश्रवणपूर्वकम् । कालो विनेयः सर्वोऽपि निद्राऽपि स्यात् कदाचन ॥ २९॥ किं च मृत्युं सदा पश्यन् को वा निद्रां करिष्यति । मृत्युभीत्या न निद्राऽपि भोजनेऽपि रतिः कुतः ॥ ३०॥ कदा मरणमस्य स्यात् कदा वा यमयातना । इत्येव चिन्तया किञ्चित् नीयते दिनमास्तिकैः ॥ ३१॥ नास्तिकानां तथा (तया)जन्म तेषां न शिवपूजनम् । अतो मृत्युभयं तेषां यातनाभयमन्वहम् ॥ ३२॥ मृत्युं तरति मर्त्योऽपि महामृत्युञ्जयार्चनात् । अतो मृत्युञ्जयो नित्यं पूजनीयः प्रयत्नतः ॥ ३३॥ मृत्युञ्जयार्चनेनैव यदि स्यादायुषः क्षयः । तदा तदायुः सफलं तदन्यन्निष्फलं खलु ॥ ३४॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं मृत्युञ्जयार्चनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ८ - आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । २५-३४॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 8 - AyumUrtishivabhaktyutkarShavarNanam . 25-34.. Proofread by Ruma Dewan
% Text title            : Naradaproktam Mrityunjayarchanamahimavarnanam
% File name             : mRRityunjayArchanamahimavarNanam.itx
% itxtitle              : mRityunjayArchanamahimavarNanam (shivarahasyAntargatam)
% engtitle              : mRityunjayArchanamahimavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 8 | 25-34 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org