श्रीमहाबलेशाष्टकम्
विशालकरुणं विभुं तरुणचन्द्र सद्भूषणं
धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् ।
मनोरथविवर्धनं दुरितवर्गविध्वंसनं
महाबलशिवं भजे महितसर्वकल्याणदम् ॥ १॥
समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं
भवार्णवविशोषणं विहितभक्तसन्तोषणम् ।
चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं
नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥ २॥
पराभवविवर्जितं जय जयेति देवैर्नुतं
नमामि जगतां गुरुं जननमृत्युदूरं हरम् ।
जनार्दनसहोदरीनयनपद्मभानूपमं
पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥ ३॥
दुराचरणभीषणं दुरितवर्गसंहारिणं
महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् ।
हिरण्यनिधिदायकं करुणयैव संरक्षकं
कलाधरसुशेखरं नमत नित्यकल्याणदम् ॥ ४॥
महागदविदारणं मदनगर्वविश्लोषणं
भवं त्रिपुरघातिनं ह्यनलनेत्रमिन्द्रार्चितम् ।
गिरीन्द्रतनयासखं सकलसौख्यसन्दायकं
महाबलमुपास्महे निगमगम्यरूपं शिवम् ॥ ५॥
शिलीन्द्रकुसुमप्रियं वरशिरीषमाल्यान्वितं
सुबिल्वदलपूजितं वनजदिव्यपुष्पप्रियम् ।
विरिञ्चिहरिसन्नुतं भजत पञ्चवक्त्रं प्रभुं
प्रपञ्च परिपालकं वरचिरन्तनाभ्यर्चितम् ॥ ६॥
चिरन्तरवचोनुतं ह्यघचयस्य विध्वंसकं
ममाशु कविताप्रदं करिमुखस्य तातं विभुम् ।
कवीन्द्र परिसन्नुतं नमत नीलकण्ठं वरं
वरप्रदमहाबलं सुगुणकृष्णभूपावनम् ॥ ७॥
मनोरथविदायकं मनुकुलेशसम्पूजितं
ह्युमार्धसुकलेवरं विधृतदिव्यगङ्गापगम् ।
वृषेन्द्रवरवाहनं सुरवरेन्द्र सन्तोषणं
जगद्भरणमीश्वरं तरुणचन्द्रमौलिं भजे ॥ ८॥
महाबलनुतिं जना वचसि धारयन्त्यन्वहं
नृकेसरिगिरेरितां सकलसौख्यसम्पत्प्रदाम् ।
सुसन्ततिविधायिनीं शुभकदम्ब संवर्धिनीं
भजन्ति शुभमेव ते शिवपदाब्जभक्ता भुवि ॥ ९॥
इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदापीठाधीश्वर-
जगद्गुरु-शङ्कराचार्य-श्री-श्री-श्री-
``वृद्ध''-नृसिंहभारती-महास्वामिभिः
``गोकर्ण''-क्षेत्रे विरचितं श्री-महाबलेशाष्टकं सम्पूर्णम् ।