महादेवादि द्वादशनामानि
महादेवो महेशानः शङ्करो वृषभध्वजः ।
शूलपाणिः कामहन्ता श्रीकण्ठः पार्वतीप्रियः ।
ईश्वरश्च शिवो रुद्रो देवदेवश्च द्वादश ।
ॐ महादेवाय नमः ।
ॐ महेशानाय नमः ।
ॐ शङ्कराय नमः ।
ॐ वृषभध्वजाय नमः ।
ॐ शूलपाणिने नमः ।
ॐ कामहन्त्रे नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ पार्वतीप्रियाय नमः ।
ॐ ईश्वराय नमः ।
ॐ शिवाय नमः ।
ॐ रुद्राय नमः ।
ॐ देवदेवाय नमः । १२
इति महादेवादि द्वादशनामानि समाप्ता ।
Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com