महादेवाद्येकादशरुद्राः
महादेवाः शिवो (हरो) रुद्रः शङ्करो नीललोहितः ।
ईशानो विजयो भीमा देवदेवो भवोद्भवः ।
कपाली चेति विज्ञेया रुद्रा एकादशाभिधाः ।
ॐ महादेवाय नमः ।
ॐ शिवाय (हराय) नमः ।
ॐ रुद्राय नमः ।
ॐ शङ्कराय नमः ।
ॐ नीललोहिताय नमः ।
ॐ ईशानाय नमः ।
ॐ विजयाय नमः ।
ॐ भीमाय नमः ।
ॐ देवदेवाय नमः ।
ॐ भवोद्भवाय नमः ।
ॐ कपालिने नमः । ११
इति महादेवाद्येकादशरुद्राः नामानि ।
Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com