ऋषिगौतमप्रोक्तं महादेवेभक्त्योत्कर्षवर्णनम्

ऋषिगौतमप्रोक्तं महादेवेभक्त्योत्कर्षवर्णनम्

घोरेण तपसा दानैः अभ्यस्तैर्विविधैरपि । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १॥ अभ्यस्तोद्धूलनेनापि यावज्जीवं प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ २॥ रुद्राक्षधारणाभ्यासाद्यावज्जीवं प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ३॥ अन्नराशिप्रदानेन यावज्जीवं प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ४॥ गोकोटीनां प्रदानेन शाम्भवेभ्यः प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ५॥ नानारत्नप्रदानेन शाम्भवेभ्यः प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ६॥ दिव्यप्रसाददानेन शाम्भवेभ्यः प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ७॥ सस्यपूर्णमहीदानैः शाम्भवेभ्यः प्रयत्ननः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ८॥ फलानामपि दानेन शाम्भवेभ्यः प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ९॥ स्वर्णभूषणदानेन शाम्भवेभ्यः प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १०॥ कन्याकोटिप्रदानेन शाम्भवेभ्यः प्रयत्नतः । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ११॥ सर्वेष्वपि च कालेषु महाशाम्भवसेवया । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १२॥ बिल्ववृक्षवनानां च करणे शिवमन्दिरे । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १३॥ प्रसूनराशिदानेन शिवलिङ्गे शिवात्मके भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १४॥ सरोवराणां करणे श्रीमहादेवमन्दिरे । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १५॥ तडागवापीनिर्माणैः श्री महादेवमन्दिरे । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १६॥ दीपमालाप्रदानैश्च श्रीमहादेवमन्दिरे । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १७॥ रम्यहर्म्यादिनिर्माणैः श्रीमहादेवमन्दिरे । भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १८॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं महादेवेभक्त्योत्कर्षवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४०। ७२-८९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 40. 72-89 .. Proofread by Ruma Dewan
% Text title            : Rishigautamaproktam Mahadevebhaktyotkarshavarnanam
% File name             : mahAdevebhaktyotkarShavarNanaMRRiShigautamaproktam.itx
% itxtitle              : mahAdevebhaktyotkarShavarNanaM RiShigautamaproktam (shivarahasyAntargatam)
% engtitle              : mahAdevebhaktyotkarShavarNanaM RiShigautamaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 40| 72-89 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org