ऋषिगौतमप्रोक्तं महादेवेभक्त्योत्कर्षवर्णनम्
घोरेण तपसा दानैः अभ्यस्तैर्विविधैरपि ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १॥
अभ्यस्तोद्धूलनेनापि यावज्जीवं प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ २॥
रुद्राक्षधारणाभ्यासाद्यावज्जीवं प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ३॥
अन्नराशिप्रदानेन यावज्जीवं प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ४॥
गोकोटीनां प्रदानेन शाम्भवेभ्यः प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ५॥
नानारत्नप्रदानेन शाम्भवेभ्यः प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ६॥
दिव्यप्रसाददानेन शाम्भवेभ्यः प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ७॥
सस्यपूर्णमहीदानैः शाम्भवेभ्यः प्रयत्ननः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ८॥
फलानामपि दानेन शाम्भवेभ्यः प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ९॥
स्वर्णभूषणदानेन शाम्भवेभ्यः प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १०॥
कन्याकोटिप्रदानेन शाम्भवेभ्यः प्रयत्नतः ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ ११॥
सर्वेष्वपि च कालेषु महाशाम्भवसेवया ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १२॥
बिल्ववृक्षवनानां च करणे शिवमन्दिरे ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १३॥
प्रसूनराशिदानेन शिवलिङ्गे शिवात्मके
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १४॥
सरोवराणां करणे श्रीमहादेवमन्दिरे ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १५॥
तडागवापीनिर्माणैः श्री महादेवमन्दिरे ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १६॥
दीपमालाप्रदानैश्च श्रीमहादेवमन्दिरे ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १७॥
रम्यहर्म्यादिनिर्माणैः श्रीमहादेवमन्दिरे ।
भविष्यति महादेवे भक्तिरव्यभिचारिणी ॥ १८॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं महादेवेभक्त्योत्कर्षवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४०। ७२-८९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 40. 72-89 ..
Proofread by Ruma Dewan