श्रीमहाकालाष्टकम्
वचसि मम सन्निधत्तां मधुरस्मितभरितमन्थरापाङ्गी ।
करकलितललितवंशा कापि किशोरी कृपालहरी ॥ १॥
गर्वोद्रिक्तदिशागजेन्द्रपरिषत्सेवाप्रणामादृतं
यातायातसुरेन्द्रसैन्यलहरीमौलिप्रभावन्दितम् ।
वल्गत्पार्थिवसार्ध मण्डलमहायात्रारवाराधितं (सार्थ)
कार्त्स्न्यं कामभुवां (सदा) गजमुखज्योतिः किमप्याश्रये ॥ २॥
भूम्ने भुवनमाधुर्यसीम्ने सकलसम्पदाम् ।
स्थेम्ने सरसगोपालधाम्ने तदिदमों नमः ॥ ३॥
अज्ञानमथ नज्योतिः प्रज्ञेशानपदास्पदम् ।
आलम्बितनराकारमालम्बनमभूत् सताम् ॥ ४॥
अमुष्य करुणापात्रमस्ति मस्करिणां मणिः ।
आदित्यप्रज्ञसंज्ञं यदादित्यादधिकं महः ॥ ५॥
निर्जितः समदृष्टयैव नीलोलं येन मन्मथः ।
अर्जितैरस्त्रकुसुमैरारादाराधयन् ययौ ॥ ६॥
आदित्यप्रज्ञपादानामादिकारुण्यभाजनम् ।
ईशानवेद इत्यासीदीशानो मुनितेजसाम् ॥ ७॥
आस्पदस्य हि यस्यासीदशेषगुणसम्पदाम् ।
अद्वितीय इति ख्यातिरात्मबुद्धया न केवलम् ॥ ८॥
तयोरनुग्रहापाङ्गसङ्क्रान्तज्ञानसम्पदा ।
सागरा इव गम्भीराः सन्ति धन्याः सहस्रशः ॥ ९॥
तयोरेव कृपाभूमिः कृष्णलीलाशुको मुनिः ।
यदाश्रमाङ्ग ? रमन्ते तत्र विस्तराः ॥ १०॥
तिलकं कुलपालीनां नीलीति निलयं श्रियाम् ।
यमलं जनयाञ्चके यं च कीर्तिं च शाश्वतीम् ॥ ११॥
यस्य दामोदरो नाम सविता सवितृ ? ।
अनृणस्य हि यस्यासन्नधर्मार्णा मरुद्गणाः ॥ १२॥
यस्य तत्प्रियसर्वस्वं राज्यवेशानसंज्ञकम् ।
विनेय विधेय सुहृन्नु य ? ॥ १३॥
यस्य दक्षिणकैलासलीलापरिणतं महः ।
चर्चाचन्दनगन्धेन सुगन्धयति मानसम् ॥ १४॥
कृष्णलीलाशुकस्यास्य किशोरमधिदैवतम् ।
कृष्णरत्नमिदं ब्रूते वेणुवादिमुखेन्दुना ॥ १५॥
मदक्षीय भृङ्गाङ्गनालिङ्गिताङ्गं
महद्यैवतं मत्तहस्तीन्द्रगामि ।
पदच्छायया पाटलीकृत्य नृत्यं
परिक्रीडगानं भजध्वं भजध्वम् ॥ १६॥
जीयाद्देवो महाकालो जगतामेकभूषणः ।
भाग्यभाजो गता यस्य भूषणत्वं भुजङ्गमाः ॥ १७॥
वन्दामहे वयं देवं चन्द्रलेखाशिखामणिम् ।
शङ्केयं कालभङ्गेन महाकालपदं गतम् ॥ १८॥
देवं महाकालममी दयाम्भोधिमुपास्महे ।
रतिगौर्यो दृशा वीक्ष्य येन चोन्मीमूलितः स्मरः ? ॥ १९॥
तस्य देवस्य माहात्म्यं महाकालस्य किं ब्रुवे ।
यस्य लीलापदानानि लिह्यन्ते श्रुतिमौलिभिः ॥ २०॥
महाकालस्य त ? चरित्रे नातिचित्रता ।
पञ्चाननेन मु ? निर्जितः कोऽपि कुञ्जरः ॥ २१॥
महाकालपदच्छायापाटलिम्ने मुहुर्नमः ।
यदेव दिङ्मुखे शङ्के ? ? ? वतो गतम् ॥ २२॥
महाकालपदच्छाया ? ? भ वर्षतु ।
यस्यां निर्वृतिसाम्राज्यं निर्विवादं विजृम्भते ॥ २३॥
महाकाल महादेव मनोहर तमोहर ।
महाधार जडाधार जयं कुरु दयां कुरु ॥ २४॥
महाकालमाहात्म्यगर्भैररदभ्रैः
पश्चषैरश्चितं किश्चिदेतत् ।
दशामष्टकं धन्यधन्यां दुहानं
दिशामक्षकं दीर्धकालं पुनीयात् ॥ २५॥
इति श्रीकृष्णलीलाशुकमहाकविमुनिविरचितं महाकालाष्टकं सम्पूर्णम् ।
The ? marked spaces are undecipherable in the manuscript.
The stotra is called aShTakam but has 25 verses.
Proofread by Gopalakrishnan