महाकालक्षेत्रमहिमा अथवा महाकालार्चनवर्णनम्
महाकालमिदं क्षेत्रं महेन्द्रप्रियकृत्तमम् ।
भूमण्डलेऽस्य सदृशं क्षेत्रमन्यन्न विद्यते ॥ १॥
विद्योतते यथा भानुर्नभोङ्कण (ङ्गण) पथि स्थितः ।
तथा भूमण्डलगतक्षेत्रेष्वेतद् विराजते ॥ २॥
महाकाल महाकाल महाकालेति यो वदेत् ।
सुदूरेऽपि गतो मर्त्यो महाकालान्तिके स्थितः ॥ ३॥
लिङ्गं मङ्गलदं पुण्यं महामङ्गलयार्चितम् ।
अर्चितं ब्रह्मविष्ण्वाद्यैर्महाकालगणार्चितम् ॥ ४॥
दृष्टं श्रुतं वा सततं स्पृष्टमंहोविनाशकम् ।
अयं मे हस्त इत्यादिमन्त्रस्पर्शो विशिष्यते ॥ ५॥
चैत्र्यां माघ्यां तथाषाढ्यां पौर्णम्यां यस्तु पूजयेत् ।
स विमुक्तो महापापान्मुक्तिमन्ते व्रजेत च ॥ ६॥
यस्तु चन्दनण्ङ्केन लिङ्गमेतद्विलेपयेत् ।
कर्पूरगरुकस्तूरीमिश्रैर्वा यक्षकर्दमैः ॥ ७॥
तालवृन्तैर्वीजयित्वाऽग्निष्टोमफलभाग्यवेत् ।
बिल्वपत्रैश्च पद्मैश्च कल्हारैश्चम्पकैस्तथा ॥ ८॥
पूजयित्वा महालिङ्गं महाकालस्य शूलिनः ।
सद्यो मुच्येत पापैश्च गाणपत्यं लभेन्नरः ॥ ९॥
अत्रोपोष्य महादेवं दृष्ट्वा सायं हविष्यभुक् ।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ १०॥
क्षिप्रानद्युदके स्नात्वा सन्तर्प्य पितृदेवताः ।
भोजयित्वा द्विजान् शैवान् भक्ष्यभोज्यैरनेकशः ॥ ११॥
कोटिभोज्यफलं तस्य क्षेत्रेऽस्मिन् शैवसत्तम ।
दत्वाथ तण्डुलं धान्यं तिलान् मुद्गान्स्तथाढकान् ॥ १२॥
क्षीरं दधि घृतं क्षौद्रं शर्करां वा फलानि च ।
दत्वा शिवाय स भवेन्निष्पापो नात्र संशयः ॥ १३॥
रम्भापनसजम्बीरनारिकेलेक्षुसारकम् ।
सुमोदेत स वै मर्त्यो मेघमुक्त इवोडुराट् ॥ १४॥
बुद्धिपूर्वकृतैः पापैस्तत्क्षणादेव मुच्यते ।
कापिलेनाथ पयसा योऽभिषिञ्चेन्महेश्वरम् ॥ १५॥
स पुनः स्तन्यपयसा स्वोदरं नाभिषिञ्चति ।
घृतेन दीपान् प्रज्वाल्य कार्तिके तु विशेषतः ॥ १६॥
सोमवारे त्रयोदश्यां प्रदोषे पर्वणोर्द्वयोः ।
सङ्क्रान्तौ च व्यतीपाते अयने ग्रहणे तथा ॥ १७॥
दृष्ट्वा देव महाकालं पूज्य मुक्तो भवेन्नरः ।
शतरुद्रियमन्त्रैश्च योऽभिषिञ्चेन्महेश्वरम् ॥ १८॥
धारापात्रैस्तथा शृङ्गैः शङ्खैश्चैवाथ पाण्डरैः ।
सहस्रधाराकलशैः शतधारादिकैरपि ॥ १९॥
शतधारं सहस्रधारं मन्त्रैर्यस्तभिषिञ्चयेत् ।
शोधितैर्वासितैर्नीरैः धारया वृत्तसूक्ष्मया ॥ २०॥
धारां शिवशिरोलग्नामविच्छिन्नां प्रकल्पयेत् ।
सन्ततिं पशुपुत्रांश्च अविच्छिन्नं लभेत् सः ॥ २१॥
सुदुर्लभतरं ज्ञानं लभते नात्र संशयः ।
इत्थं शैवेन संवादं कृत्वा ब्रह्मादयः सुराः ॥ २२॥
नारदार्द्यैर्मुनिश्रेष्ठैः सार्धं गन्धर्वकिन्नरैः ।
सितभस्माक्ततनवो रुद्राक्षवरभूषणाः ॥ २३॥
महाकालालयं देवा ययुर्बिल्वादिपाणयः ।
महापचितिसम्भारान् कामधेनूधसोद्भवैः ॥ २४॥
सफेनक्षीरधाराभी रुद्रसूक्तैरसेचयन् ।
दधिमण्डैर्घृतैर्दिव्यैर्मधुना सितयाऽपि च ॥ २५॥
नारिकेलाम्रसुरसैः मोचाजम्बीरपानसैः ।
तत्तद्रसैर्महादेवं विविधैरभ्यषेचयन् ॥ २६॥
गन्धकर्पूरपुष्पोत्थैः स्वर्णरत्नकुशोदकैः ।
रौद्रै ऋक्सामयजुषां गणैराथर्वणैरपि ॥ २७॥
(स्वर्णरत्न जलैस्तथा, तलैस्तथा)
पञ्चब्रह्मभिरीशानं सुगन्धिं गन्धवासितैः ।
पयोभिरमृतास्वादैः पाटल्यगरुवासितैः ॥ २८॥
नानावादित्रनिनदान् निलिम्पाः समघोषयन् ।
स्नालकाले महेशस्य जयशब्दैश्च पुष्कलैः ॥ २९॥
स्नाप्य वस्त्रैर्वेष्टयित्वा मृदुकौशेयसम्भवैः ।
चन्दनेनैव संलिप्य लिङ्गमापीठमुत्तमम् ॥ ३०॥
नवरत्नचितानेकभूषणैर्भूषयन् सुराः ।
निधनेत्यादिभिर्मन्त्रैः श्रीपत्रैः कमलैस्तथा ॥ ३१॥
आर्चयंश्चम्पकैरर्कैर्मन्दारकरवीरकैः ।
बकैर्द्रोणैश्च धुत्तूरैः नीलरक्तोत्पलैस्तथा ॥ ३२॥
सहस्रनामभिः पुष्पैर्धूपैर्दीपैर्मनोरमैः ।
दीपैर्विदीपयामासुर्महाकालशिवालयम् ॥ ३३॥
धूपैरगरुजोद्भूतैः घुमुग्घुमितदिकतटम् ।
नैवेद्यैर्विविधैर्हृद्यैः सूपापूपादिराशिभिः ॥ ३४॥
क्षीराज्यकुम्भैः शतशः पायसानां घटीशतैः ।
दधिखण्डादिभाण्डैश्च शर्करापङ्कपङ्किलैः ॥ ३५॥
ताम्बूलपर्वतैर्नै कक्रमुकानां च राशिभिः ।
मुखवासकरैःरन्यैर्मृगनाभिविराजितैः ॥ ३६॥
लवङ्गैलामुखरितैर्जाजीपत्रफलैरपि ।
स्वच्छपुच्छयुतापारमरीचीखदिरैस्तथा ॥ ३७॥
नैवेद्यमाद्यं हृदं च दत्वा दिविषदः शिवम् ।
नीराजनैस्तथा पुण्यैः छत्रचामरदर्पणैः ॥ ३८॥
व्यजनैः सन्निषेव्येशं नानावाद्यरवैरपि ।
रम्भाद्यप्सरसस्तत्र ननृतुः शङ्कराग्रतः ॥ ३९॥
जगुश्च देवगन्धर्वा नारदाद्याश्च गायनाः ।
महादेव प्रसीदेति श्रीमन्मृत्युञ्जयेति च ॥ ४०॥
सराङ्गं च सतालं च कलं गीतैरतोषयन् ।
मूर्छनास्थानविन्यासै रुद्रवीणाकराः सुराः ॥ ४१॥
प्रदक्षिणनमस्कारैः स्तुतिभिर्नर्तनैस्तथा ।
करताडनपूर्वं ते तुष्टुवुः परमेश्वरम् ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते महाकालक्षेत्रमहिमा अथवा महाकालार्चनवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ४। ८-४९॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 4. 8-49..
Notes:
Shiva describes to Gauri; the glory of Mahakala Shiva Kshetra, and the merits of conducting worship of Mahakala especially during certain time periods like Mondays (Somavara), Pradosha of the two Trayodashi-s (Krishna and Shukla), Sankranti-s, Vyatipata (yoga), Ayana, and Eclipses.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan