श्री महाकालकवचम्
ॐ श्रीगणेशाय नमः ।
श्रीभैरव उवाच
अथ वक्ष्यामि देवेशि कवचम् मन्त्रगर्भकम् ।
मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥
सर्वसम्पत्प्रदं चैव महाकालस्य पार्वति ।
गुह्यातिगुह्यपरमं मूलविद्यामयं ध्रुवम् ॥ २॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥
कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः।
अनुष्टुप्छन्द इत्युक्तं महाकालश्च देवता ॥ ४॥
कूर्चबीजं पराशक्तिस्तारं कीलकमीरितम् ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः॥ ५॥
अथ ध्यानम् ।
श्यामवर्णं महाकायं महाकालं त्रिलोचनम् ।
नीलकण्ठं स्वतेजस्कं नेत्रत्रयविभूषितम् ॥ ६॥
खट्वाङ्गचर्मधरं देवं वरदाभयपाणिकम् ।
शूलहस्तं च खट्वाङ्गधारिणं मन्त्रनायकम् ॥ ७॥
पिनाकहस्तं देवेशं तोमरं बिभ्रतं विभुम् ।
प्रातः पठेत्सहस्रं वै भैरवं तु सदा स्मरेत् ।
एवं विधेन ध्यानेन मनसा चिन्तयेद्विभुम् ॥ ८॥
अथ कवचम् ।
ॐ ह्रं शिरः पातु मे कालः ललाटे ह्रीं सदा मम ।
ह्रं कारकं प्रतीच्यां मे बीजद्वयस्वरूपिणी ॥ १॥
ह्रीं पातु लोचनद्वन्द्वं मुखं ह्रीम्बीजरूपिणि ।
ह्रीं कारकं कण्ठदेशे ह्रीं पातु स्कन्धयोर्मम ॥ २॥
महाकालः सदा पातु भुजौ सव्ये नसौ मम ।
ह्रीङ्कारं हॄदयं पातु ह्रं मेऽव्यादुदरं सदा ॥ ३॥
ह्रीं नाभिं पातु सततं देवी ह्रीङ्काररूपिणी ।
अव्यान्मे लिङ्गदेशं च ह्रीं रक्षेद्गुह्यदेशके ॥ ४॥
कूर्चयुग्मं पातु पादौ स्वाहा पादतलं मम ।
श्रीषोडशाक्षरः पातु सर्वाङ्गे मम सर्वदा ॥ ५॥
अन्तर्वह्निश्च मां पातु देवदत्तश्च भैरवः।
नगलिङ्गामृतप्रीतः सर्वसन्धिषु रक्षतु ॥ ६॥
महोग्रो मां सदा पातु ममेन्द्रियसमूहकम् ।
शिवो ममेन्द्रियार्थेषु रक्षयेद्दक्षिणेष्वपि ॥ ७॥
महाकालः पश्चिमेऽव्याद्दक्षिणे देवदत्तकः।
भगलिङ्गामृतं प्रीतो भगलिङ्गस्वरूपकः॥ ८॥
उदीच्यामूर्ध्वगः पातु पूर्वे सम्हारभैरवः।
दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥ ९॥
फलश्रुतिः ।
शतलक्षं प्रजप्तोऽपि तस्य मन्त्रं न सिध्यति ।
स शास्त्रज्ञानमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ १०॥
मन्त्रेण म्रियते योगी रक्षयेत् कवचं ततः ।
त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति ॥ ११॥
सिद्धयोऽष्टौ करे तस्य महेश इव चापरः ।
रूपेण स्मरतुल्येष्टो कामिनीनां प्रियो भवेत् ॥ १२॥
तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् ।
भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥ १३॥
यो ददाति सुशिष्येभ्यो वश्ये तस्य जगद्भवेत् ।
गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥ १४॥
रवौ भूर्जे लिखेद्वर्म स्वयम्भूः कुसुमस्त्रजा ।
कुङ्कुमेनाष्टगन्धेन रक्तेन निजरेतसा ॥। १५॥
धारयन्मूर्ध्नि वा बाहौ प्राप्नुयात्परमां गतिम् ।
धनकामो लभेद्वित्तं पुत्रकामो लभेत्प्रजाम् ॥ १६॥
सर्वान् रिपून् रणे जित्वा कल्याणी गृहमाविशेत् ।
यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः॥ १७॥
श्रीविश्वकवचं नाम कवचं न प्रकाशयेत् ।
रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ १८॥
इति श्रीरुद्रयामले तन्त्रे विश्वमङ्गलं नाम महाकालकवचं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran