देवैःकृता महाकालमहेश्वरस्तुतिः
सरित्पतिनिषङ्गिणे कृतगिरीन्द्रसद्धन्वने
धराधरणसत्फणि प्रवरभूतसच्छिञ्जिने ।
रमारमणसायकप्रबलहस्त तुभ्यं नमो
महोक्षवरवाहिने कृतगणेन्द्रशैलादिने ॥ १॥
भुजङ्गवरधारिणे घृतगराधकण्ठाय ते
निशापतिकलास्फुरत्सुरतरङ्गिणीमौलये ।
महाङ्गवदनोल्लसन्मदविलोकिने ते नमो
जलन्धरशिरोब्जिनीनिकृतनालचक्राय ते ॥ २॥
कपर्दकृतबन्धनोल्लसितभोगिभोगाय ते
तवाक्ष्यनलकोणभूकणविदग्धकामाय ते ।
महाघगिरिमस्तकप्रहृतिनामवज्राय ते
करीन्द्रवदनोल्लसत्स्फुटपदाय तुभ्यं नमः ॥ ३॥
विभूतिपरिधृलनोद्धवलिताङ्गरागाय ते
हरिन्मणिनिभागजाकृतविभागदेहाय ते ।
पतङ्गनयनोद्धृतप्रबलचण्डदण्डहति-
स्फुटद्द्विजसुताविने (वने) भवहराय तुभ्यं नमः ॥ ४॥
सुरासुरमरुद्गणप्रवरविप्रवृन्दार्भटी-
कटीतटमृगाजिनप्रवलरक्षदीक्षामणे ।
हविर्मुखमखामृतान्धसमुखोरुदन्तेक्षण-
प्रपालनकराय ते गिरिशयाय तुभ्यं नमः ॥ ५॥
॥ इति शिवरहस्यान्तर्गते देवैःकृता महाकालमहेश्वरस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ४। ५०-५४॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 4. 50-54..
Notes:
Devata-s recite Stuti to Mahakaleshwara when they visit King Chitraratha who had constructed the temple to Mahakala at Ujjain.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan