श्रीमहाकालमङ्गलम्
ॐ श्रीगणेशाय नमः ।
यो लोकेशादि विश्वं जनयति सकलं यश्चतुर्वर्गबीजं
सद्भक्तेच्छानुरूपं वितरति कृपया वेदवेद्यस्वरूपम् ।
ज्योतिःशास्त्राधिदेवं स्थितिकरणभयुग्वासरार्कादिमूर्ति -
स्तं वन्दे स्कन्दगौरीगणपतिसहितं श्रीमहाकालमीशम् ॥ १॥
स्तष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवा
यो ह्यव्यक्तो प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च ।
बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालं
लोकानामदिदेवः स जयतु भगवान् श्रीमहाकलनामा ॥ २॥
क्रीडाकुण्डलितोरगेश्वरतनूकारादिरूठम्भरा-
ऽनुस्वारं कलयन्नकाररुचिराकारः कृपार्द्रः प्रभुः।
विष्णोर्विश्वतनोरवन्तिनगरीहृत्पुण्डरीके वस-
न्नोङ्काराक्षरमूर्तिरस्यतु सदा कालोऽन्तकालोऽसताम् ॥ ३॥
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धृतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडानिरतयुवतिस्नानसिक्तैर्मरुद्भिः ॥ ४॥
अप्यस्मिञ्जलधर ! महाकालमासाद्य कले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीया-
मामन्त्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ५॥
इति श्रीमहाकालमङ्गलं स्तोत्रं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran