श्रीमहाकालसहस्रनामावलिः

श्रीमहाकालसहस्रनामावलिः

विनियोगः । ॐ अस्य श्रीमहाकालसहस्रनामस्तोत्रमालामन्त्रस्य श्रीकृष्णऋषिः । अनुष्टुप्छन्दः । श्रीमहाकालो देवता । ॐ बीजम् । नमः शक्तिः । महाकालायेति कीलकम् । सर्वार्थसिद्ध्यर्थे पाठे विनियोगः । ऋष्यादिन्यासः । ॐ श्रीकृष्णर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । महाकालदेवतायै नमः हृदये । ॐ बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । महाकालायेति कीलकाय नमः नाभौ ॥ श्रीमहाकालप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः एवं हृदयादिन्यासः ॥ करन्यासः । ॐ अङ्गुष्ठाभ्यां नमः । महाकालाय तर्जनीभ्यां नमः । नमः मध्यमाभ्यां नमः । ॐ अनामिकाभ्यां नमः । महाकालाय कनिष्ठिकाभ्यां नमः । नमः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः । ॐ हृदयाय नमः । महाकालाय शिरसे स्वाहा । नमः शिखायै वषट् । ॐ कवचाय हुम् । महाकालाय नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् । व्यापकन्यासः ॐ महाकालाय नमः ॥ अथ ध्यानं कुङ्कुमागरुकस्तूरीकेशरेण विचर्चितम् । नानापुष्पस्रजालङ्कृद्बिल्वमौलिवलान्वितम् ॥ पुरो नन्दी स्थितो वामे गिरिराजकुमारिका । ब्राह्मणैरावृतं नित्यं महाकालमहं भजे ॥ ॥ इति ध्यानम् ॥ ॐ महाकालाय नमः । महारूपाय । महादेवाय । महेश्वराय । महाप्राज्ञाय । महाशम्भवे । महेशाय । मोहभञ्जनाय । मान्याय । मन्मथहन्त्रे । मोहनाय । मृत्युनाशनाय । मान्यदाय । माधवाय । मोक्षाय । मोक्षदाय । मरणापहने । मुहूर्ताय । मुनिवन्द्याय । मनुरूपाय नमः । २० ॐ मनुर्मनवे नमः । मन्मथारिणे । महाप्राज्ञाय । मनोनन्दाय । ममत्वघ्ने । मुनीशाय । मुनिकर्त्रे । महत्त्वाय । महदाधिपाय । मैनाकाय । मैनकावन्द्याय । मध्वरिप्राणवल्लभाय । महालयेश्वराय । मोक्षाय । मेघनादेश्वराभिधाय । मुक्तीश्वराय । महामुक्ताय । मन्त्रज्ञाय । मन्त्रकारकाय । मङ्गलाय नमः । ४० ॐ मङ्गलाधीशाय नमः । मध्यदेशपतये । महते । मागधाय । मन्मथाय । मत्ताय । मातङ्गाय । मालतीपतये । माथुराय । मथुरानाथाय । मालवाधीशाय । मन्युपाय । मारुतये । मीनपाय । मौनाय । मार्कण्डाय । मण्डलाय । मृडाय । मधुप्रियाय । मधुस्नायिने नमः । ६० ॐ मिष्टभोजिने नमः । मृणालधृषे । मञ्जुलाय । मल्लमोदज्ञाय । मोदकृते । मोददायकाय । मुक्तिदाय । मुक्तरूपाय । मुक्तामालाविभूषिताय । मृकण्डाय । मोदपाय । मोदाय । मोदकाशनकारकाय । यज्ञाय । यज्ञपतये । यज्ञाय । यज्ञेशाय । यज्ञनाशनाय । यज्ञतेजसे । यशसे नमः । ८० ॐ योगिने नमः । योगीशाय । योगदायकाय । यतिरूपाय । याज्ञवल्क्याय । यज्ञकृते । यज्ञलुप्तघ्ने । यज्ञमृदे । यज्ञघ्ने । यज्ञाय । यज्ञभुजे । यज्ञसाधकाय । यज्ञाङ्गाय । यज्ञहोत्रे । यज्वानाय । यजनाय । यतये । यशःप्रदाय । यशःकर्त्रे । यशसे नमः । १०० ॐ यज्ञोपवीतधृषे नमः । यज्ञसेनाय । याज्ञिकाय । यशोदावरदायकाय । यमेशाय । यमकर्त्रे । यमदूतनिवारणाय । याचकाय । यमुनाक्रीडाय । याज्ञसेनीहितप्रदाय । यवप्रियाय । यवरूपाय । यवनान्ताय । यविने । यवाय । ऋग्वेदाय । रोगहन्त्रे । रन्तिदेवाय । रणाग्रण्ये । रैवताय नमः । १२० ॐ रैवताधीशाय नमः । रैवतेश्वरसंज्ञकाय । रामेश्वराय । रकाराय । रामप्रियाय । रमाप्रियाय । रणये । रणहराय । रक्षाय । रक्षकाय । ऋणहारकाय । रक्षित्रे । राजरूपाय । राजे । रवाय । रूपाय । रजःप्रदाय । रामचन्द्रप्रियाय । राज्ञे । रक्षोघ्नाय नमः । १४० ॐ राक्षसाधिपाय नमः । रक्षसां वरदाय । रामाय । राक्षसान्तकराय । रथिने । रथप्रियाय । रथस्थायिने । रथघ्ने । रथहारकाय । रावणप्रियकृते । रावस्वरूपाय । ऋतुरजाय । रतिवरप्रदात्रे । रन्तिदेववरप्रदाय । राजधानीप्रदाय । रेतसे । रेवाभञ्जाय । रवये । रजिने । ऋत्विजाय नमः । १६० ॐ रसकर्त्रे नमः । रसज्ञाय । रसदायकाय । रुद्राय । रुद्राक्षधृते । रौद्राय । रत्नाय । रत्नैर्विभूषिताय । रूपेश्वराय । रमापूज्याय । रुरुराज्यस्थलेश्वराय । लक्षाय । लक्षपतये । लिङ्गाय । लड्डुकाय । लड्डुकप्रियाय । लीलाम्बरधराय । लाभाय । लाभदाय । लाभकृते नमः । १८० ॐ लज्जारक्षाय नमः । लघुरूपाय । लेखकाय । लेखकप्रियाय । लाङ्गलाय । लवणाब्धीशाय । लक्ष्मीपूजितलक्षकाय । लोकपालेश्वराय । लम्पाय । लङ्केशाय । लम्पकेश्वराय । वहिर्नेत्राय । वराङ्गाय । वसुरूपाय । वसुप्रदाय । वरेण्याय । वरदाय । वेदाय । वेदवेदाङ्गपारगाय । वृद्धकालेश्वराय नमः । २०० ॐ वृद्धाय नमः । विभवाय । विभवप्रदाय । वेणुगीतप्रियाय । वैद्याय । वाराणसीस्थिताय । विश्वेशाय । विश्वकर्त्रे । विश्वनाथाय । विनायकाय । वेदज्ञाय । वर्णकृते । वर्णाय । वर्णाश्रमफलप्रदाय । विश्ववन्द्याय । विश्ववेत्त्रे । विश्वावसवे । विभावसवे । वित्तरूपाय । वित्तकर्त्रे नमः । २२० ॐ वित्तदाय नमः । विश्वभावनाय । विश्वात्मने । वैश्वदेवाय । वनेशाय । वनपालकाय । वनवासिने । वृषस्थायिने । वृषभाय । वृषभप्रियाय । विल्वीदलप्रियाय । विल्वाय । विशालनेत्रसंस्थिताय । वृषध्वजाय । वृषाधीशाय । वृषभेशाय । वृषप्रियाय । विल्वेश्वराय । वराय । वीराय नमः । २४० ॐ वीरेशाय नमः । वनेश्वराय । विभूतिभूषिताय । वेण्याय । व्यालयज्ञोपवीतकाय । विश्वेश्वराय । वरानन्दाय । वटरूपाय । वटेश्वराय । सर्वेशाय । सत्त्वाय । सारङ्गाय । सत्त्वरूपाय । सनातनाय । सद्वन्द्याय । सच्चिदानन्दाय । सदानन्दाय । शिवप्रियाय । शिवदाय । शिवकृते नमः । २६० ॐ साम्बाय नमः । शशिशेखरशोभनाय । शरण्याय । सुखदाय । सेव्याय । शतानन्दवरप्रदाय । सात्त्विकाय । सात्त्वताय । शम्भवे । शङ्कराय । सर्वगाय । शिवाय । सेवाफलप्रदात्रे । सेवकप्रतिपालकाय । शत्रुघ्नाय । सामगाय । शौरये । सेनानिने । शर्वरीप्रियाय । श्मशानिने नमः । २८० ॐ स्कन्दसद्वेदाय नमः । सुरसरित्प्रियाय । सुदर्शनधराय । शुद्धाय । सर्वसौभाग्यदायकाय । सौभाग्याय । सुभगाय । सूराय । सूर्याय । सारङ्गमुक्तिदाय । सप्तस्वराय । सप्ताश्वाय । सप्ताय । सप्तर्षिपूजिताय । शितिकण्ठाय । शिवाधीशाय । सङ्गमाय । सङ्गमेश्वराय । सोमेशाय । सोमतीर्थेशाय नमः । ३०० ॐ सर्पधृषे नमः । स्वर्णकारकाय । स्वर्णजालेश्वराय । सिद्धाय । सिद्धेशाय । सिद्धिदायकाय । सर्वसाक्षिणे । सर्वरूपाय । सर्वज्ञाय । शास्त्रसंस्कृताय । सौभाग्येश्वराय । सिंहस्थाय । शिवेशाय । सिंहकेश्वराय । शूलेश्वराय । शुकानन्दाय । सहस्रधेनुकेश्वराय । स्यन्दनस्थाय । सुराधीशाय । सनकाद्यर्चिताय नमः । ३२० ॐ सुधिये नमः । षडूर्मये । षट्सुचक्रज्ञाय । षट्चक्रकविभेदकाय । षडाननाय । षडङ्गज्ञाय । षड्रसज्ञाय । षडाननाय । हराय । हंसाय । हतारातये । हिरण्याय । हाटकेश्वराय । हेरम्बाय । हवनाय । होत्रे । हयरूपाय । हयप्रदाय । हस्तिदाय । हस्तित्वग्धारिणे नमः । ३४० ॐ हाहाहूहूवरप्रदाय नमः । हव्यहेमहविष्यान्नाय । हाटकेशाय । हविःप्रियाय । हिरण्यरेतसे । हंसज्ञाय । हिरण्याय । हाटकेश्वराय । हनुमदीशाय । हराय । हर्षाय । हरसिद्धिपीठगाय । हैमाय । हैमालयाय । हूहूहाहाहेतवे । हठाय । हठिने । क्षत्राय । क्षत्रप्रदाय । क्षत्रिणे नमः । ३६० ॐ क्षेत्रज्ञाय नमः । क्षेत्रनायकाय । क्षेमाय । क्षेमप्रदात्रे । क्षान्तिकृते । क्षान्तिवर्धनाय । क्षीरार्णवाय । क्षीरभोक्त्रे । क्षिप्राकूलक्षितेः पतये । क्षौद्ररसप्रियाय । क्षीराय । क्षिप्रसिद्धिप्रदाय । ज्ञानाय । ज्ञानप्रदाय । ज्ञेयाय । ज्ञानातीताय । ज्ञपाय । ज्ञयाय । ज्ञानरूपाय । ज्ञानगम्याय नमः । ३८० ॐ ज्ञानिने नमः । ज्ञानवतां वराय । अजाय । अनन्ताय । अव्यक्ताय । आद्याय । आनन्ददायकाय । अकथाय । आत्मने । आन्दाय । अजेयाय । अजाय । आत्मभुवे । आद्यरूपाय । अरिच्छेत्रे । अनामयाय । अलौकिकाय । अतिरूपाय । अखण्डात्मने । आत्मज्ञानरताय नमः । ४०० ॐ आत्मवेत्त्रे नमः । आत्मसाक्षिणे । अनादये । अन्तरात्मगाय । आनन्देशाय । अविमुक्तेशाय । अलर्केशाय । अप्सरेश्वराय । आदिकल्पेश्वराय । अगस्त्याय । अक्रूरेशाय । अरुणेश्वराय । इडारूपाय । इभच्छेत्त्रे । ईश्वराय । इन्दिरार्चिताय । इन्दवे । इन्दीवराय । ईशाय । ईशानेश्वराय नमः । ४२० ॐ ईर्षाघ्ने नमः । इज्याय । इन्दीवराय । इभाय । इक्षवे । इक्षुरसप्रियाय । उमाकान्ताय । उमास्वामिने । उमायाः प्रमोदकृते । उर्वशीवरदाय । उच्चैरुत्तुङ्गधारकाय । एकरूपाय । एकस्वामिने । एकात्मने । एकरूपवते । ऐरावताय । ऐस्थिरात्मने । ऐकारैश्वर्यदायकाय । ओङ्काराय । ओजस्वते नमः । ४४० ॐ औखराय नमः । औखराधिपाय । औषध्याय । औषधिज्ञात्रे । ओजोदाय । औषधीश्वराय । अनन्ताय । अन्तकाय । अन्ताय । अन्धकासुरसूदनाय । अच्युताय । अप्रमेयात्मने । अक्षराय । अश्वदायकाय । अरिहन्त्रे । अवन्तीशाय । अहिभूषणभृते । अवन्तीपुरवासिने । अवन्तीपुरपालकाय । अमराय नमः । ४६० ॐ अमराधीशाय नमः । अमरारिविहिंसकाय । कामघ्ने । कामकामाय । कामदाय । करुणाकराय । कारुण्याय । कमलापूज्याय । कपालिने । कलिनाशनाय । कामारिकृते । कल्लोलाय । कालिकेशाय । कालजिते । कपिलाय । कोटितीर्थेशाय । कल्पान्ताय । कालघ्ने । कवये । कालेश्वराय नमः । ४८० ॐ कालकर्त्रे नमः । कल्पाब्धये । कल्पवृक्षकाय । कोटीशाय । कामधेन्वीशाय । कुशलाय । कुशलप्रदाय । किरीटिने । कुण्डलिने । कुन्तिने । कवचिने । कर्परप्रियाय । कर्पूराभाय । कलादक्षाय । कलाज्ञाय । किल्विषापघ्ने । कुक्कुटेशाय । कर्कटेशाय । कुलदाय । कुलपालकाय नमः । ५०० ॐ कञ्जाभिलाषिने नमः । केदाराय । कुङ्कुमार्चितविग्रहाय । कुन्दपुष्पप्रियाय । कञ्जाय । कामारये । कामदाहकाय । कृष्णरूपाय । कृपारूपाय । कृष्णार्चिताङ्घ्रिकाय । कुण्डाय । कुण्डेश्वराय । काण्वाय । केशवैः परिपूजिताय । कामेश्वराय । कलानाथाय । कण्ठेशाय । कुङ्कुमेश्वराय । कन्थडेशाय । कपालेशाय नमः । ५२० ॐ कायावरोहणेश्वराय नमः । करभेशाय । कुटुम्बेशाय । कर्केशाय । कौशलेश्वराय । कोशदाय । कोशभृते । कोशाय । कौशेयाय । कौशिकप्रियाय । खचराय । खचराधीशाय । खचरेशाय । खरान्तकाय । खेचराये । पूजितपदाय । खेचरीसेवकप्रियाय । खण्डेश्वराय । खड्गरूपाय । खड्गग्राहिने नमः । ५४० ॐ खगेश्वराय नमः । खेटाय । खेटप्रियाय । खण्डाय । खण्डपालाय । खलान्तकाय । खाण्डवाय । खाण्डवाधीशाय । खड्गतासङ्गमस्थिताय । गिरिशाय । गिरिजाधीशाय । गजारित्वग्विभूषिताय । गौतमाय । गिरिराजाय । गङ्गाधराय । गुणाकराय । गौतमीतटवासिने । गालवाय । गोपतीश्वराय । गोकर्णाय नमः । ५६० ॐ गोपतये नमः । गर्वाय । मजारये । गरुडप्रियाय । गङ्गामौलये । गुणग्राहिने । गारुडीविद्यया युताय । गुरोर्गुरवे । गजारातये । गोपालाय । गोमतीप्रियाय । गुणदाय । गुणकर्त्रे । गणेशाय । गणपूजिताय । गणकाय । गौरवाय । गर्गाय । गन्धर्वेण प्रपूजिताय । गोरक्षाय नमः । ५८० ॐ गुर्विणीत्रात्रे नमः । गेहाय । गेहप्रदायकाय । गीताध्यायिने । गयाधीशाय । गोपतये । गीतमोहिताय । गिरातीताय । गुणातीताय । गङ्गेशाय । गुह्यकेश्वराय । ग्रहाय । ग्रहपतये । गम्याय । ग्रहपीडानिवारणाय । घटनादये । घनाधाराय । घनेश्वराय । घनाकराय । घुश्मेश्वराय नमः । ६०० ॐ घनाकाराय नमः । घनरूपाय । घनाग्रण्ये । घण्टेवराय । घटाधीशाय । घर्घराय । घस्मरापघ्ने । घुष्मेशाय । घोषकृते । घोषिने । घोषाघोषाय । घनध्वनये । घृतप्रियाय । घृताब्धीशाय । घण्टाय । घण्टघटोत्कचाय । घटोत्कचाय । वरदाय । घटजन्मने । घटेश्वराय नमः । ६२० ॐ घकाराय नमः । ङकृताय । ङाय । ङकाराय । ङकृताङ्गजाय । चराचराय । चिदानन्दाय । चिन्मयाय । चन्द्रशेखराय । चन्द्रेश्वराय । चामरेशाय । चामरेण विभूषिताय । चामराय । चामराधीशाय । चराचरपतये । चिराय । चमत्कृताय । चन्द्रवर्णाय । चर्मभृते । चर्माय नमः । ६४० ॐ चामरिणे नमः । चाणक्याय । चर्मधारिणे । चिरचामरदायकाय । च्यवनेशाय । चरवे । चारवे । चन्द्रादित्येश्वराभिधाय । चन्द्रभागाप्रियाय । चण्डाय । चामरैः परिवीजिताय । छत्रेश्वराय । छत्रधारिणे । छत्रदाय । छलघ्ने । छलिने । छत्रेशाय । छत्रकृते । छत्रिणे । छन्दविते नमः । ६६० ॐ छन्ददायकाय नमः । जगन्नाथाय । जनाधाराय । जगदीशाय । जनार्दनाय । जाह्नवीधृशे । जगत्कर्त्रे । जगन्मयाय । जनाधिपाय । जीवाय । जीवप्रदात्रे । जेत्रे । जीवनप्रदाय । जङ्गमाय । जगद्धात्रे । जगत्केन प्रपूजिताय । जटाधराय । जटाजूटिने । जटिलाय । जलरूपधृषे नमः । ६८० ॐ जालन्धरशिरच्छेत्रे नमः । जलजाङ्घ्रये । जगत्पतये । जनत्रात्रे । जगन्निधये । जटेश्वराय । जलेश्वराय । झर्झराय । झरणाकारिणे । झूञ्झकृते । झूझघ्ने । झराय । ञकाराय । ञमुवासिने । ञजनप्रियकारकाय । टकाराय । ठकाराय । डामराय । डमरुप्रियाय । डण्डधृगे नमः । ७०० ॐ डमरुहस्ताय नमः । डाकिहृदे । डमकेश्वराय । ढुण्ढाय । ढुण्ढेश्वराय । ढक्काय । ढक्कानादप्रियाय । णकाराय । णस्वरूपाय । णुणोणिणोणकारणाय । तन्त्रज्ञाय । त्र्यम्बकाय । तन्त्रीणे । तुम्बुरवे । तुलसीप्रियाय । तूणीरधृषे । तदाकारस्ताण्डविने । ताण्डवेश्वराय । तत्त्वज्ञाय । तत्त्वरूपाय नमः । ७२० ॐ तात्त्विकाय नमः । तरववीप्रभाय । त्रिनेत्राय । तरुणाय । तत्त्वाय । तकाराय । तलवासकृते । तेजस्विने । तेजोरूपिणे । तेजःपुञ्जप्रकाशकाय । तान्त्रिकाय । तन्त्रकर्त्रे । तन्त्रविद्याप्रकाशकाय । ताम्ररूपाय । तदाकाराय । तत्त्वदाय । तरणिप्रियाय । तान्त्रेयाय । तमोघ्ने । तन्विने नमः । ७४० ॐ तामसाय नमः । तामसापघ्ने । ताम्राय । ताम्रप्रदात्रे । ताम्रवर्णाय । तरुप्रियाय । तपस्विने । तापसिने । तेजसे । तेजोरूपाय । तलप्रियाय । तिलाय । तिलप्रदात्रे । तूलाय । तूलप्रदायकाय । तापीशाय । ताम्रपर्णीशाय । तिलकाय । त्राणकारकाय । त्रिपुरघ्नाय नमः । ७६० ॐ त्रयातीताय नमः । त्रिलोचनाय । त्रिलोकपाय । त्रिविष्टपेश्वराय । तेजसे । त्रिपुराय । त्रिपुरदाहकाय । तीर्थाय । तारापतये । त्रात्रे । ताडिकेशाय । तडिज्जवाय । थकाराय । स्थूलाकाराय । स्थूलाय । स्थविराय । स्थानदाय । स्थाणवे । स्थायिने । स्थावरेशाय नमः । ७८० ॐ स्थम्भाय नमः । स्थावरपीडघ्ने । स्थूलरूपस्थितेः कर्त्रे । स्थूलदुःखविनाशनाय । थन्दिलस्थदलाय । स्थाल्याय । स्थलकृते । स्थलभृते । स्थलिने । स्थलेश्वराय । स्थलाकाराय । स्थलाग्रजाय । स्थलेश्वराय । दक्षाय । दक्षहराय । द्रव्याय । दुन्दुभये । वरदायकाय । देवाय । देवाग्रजाय नमः । ८०० ॐ दानाय नमः । दानवारये । दिनेश्वराय । देवकृते । देवभृते । दात्रे । दयारूपिणे । दिवस्पतये । दामोदराय । दलाधाराय । दुग्धस्नायिने । दधिप्रियाय । देवराजाय । दिवानाथाय । देवज्ञाय । देवताप्रियाय । देवदेवाय । दानरूपाय । दूर्वादलप्रियाय । दिग्वाससे नमः । ८२० ॐ दरभाय नमः । दन्ताय । दरिद्रघ्नाय । दिगम्बराय । दीनबन्धवे । दुराराध्याय । दुरन्ताय । दुष्टदर्पघ्ने । दक्षघ्नाय । दक्षहन्त्रे । दक्षजामाताय । देवजिते । द्वन्द्वघ्ने । दुःखघ्ने । दोग्ध्रे । दुर्धराय । दुर्धरेश्वराय । दानाप्ताय । दानभृते । दीप्ताय नमः । ८४० ॐ दीप्तये नमः । दिव्याय । दिवाकराय । दम्भघ्ने । दम्भकृते । दम्भिने । दक्षजापतये । दीप्तिमते । धन्विने । धनुर्धराय । धीराय । धान्यकृते । धान्यदायकाय । धर्माधर्मभृताय । धन्याय । धर्ममूर्तये । धनेश्वराय । धनदाय । धूर्जटये । धान्याय नमः । ८६० ॐ धामदाय नमः । धार्मिकाय । धनिने । धर्मराजाय । धनाधाराय । धराधराय । धरापतये । धनवे । विद्याधराय । धूर्ताय । धूलिधूसरविग्रहाय । धनुषाय । धनुषाकाराय । धनुर्धरभृतांवराय । धरानाथाय । धराधीशाय । धनेशाय । धनदाग्रजाय । धर्मभृते । धर्मसन्त्रात्रे नमः । ८८० ॐ धर्मरक्षाय नमः । धनाकराय । नर्मदाय । नर्मदाजाताय । नर्मदेशाय । नृपेश्वराय । नागभुवे । नागलोकेशाय । नागभूषणभूषिताय । नागयज्ञोपवीतेयाय । नगाय । नागारिपूजिताय । नान्याय । नरवराय । नेमाय । नूपुराय । नूपुरेश्वराय । नागचण्डेश्वराय । नागाय । नगनाथाय नमः । ९०० ॐ नगेश्वराय नमः । नीलगङ्गाप्रियाय । नादाय । नवनाथाय । नगाधिपाय । पृथुकेशाय । प्रयागेशाय । पत्तनेशाय । पराशराय । पुष्पदन्तेश्वराय । पुष्पाय । पिङ्गलेश्वराय । पूर्वजाय । पिशाचेशाय । पन्नगेशाय । पशुपतीश्वराय । प्रियाय । पार्वतीपूजिताय । प्राणाय । प्राणेशाय नमः । ९२० ॐ पापनाशनाय नमः । पार्वतीप्राणनाथाय । प्राणभृते । प्राणजीवनाय । पुराणपुरुषाय । प्राज्ञाय । प्रेमज्ञाय । पार्वतीपतये । पुष्कराय । पुष्कराधीशाय । पात्राय । पात्रैः प्रपूजिताय । पुत्रदाय । पुण्यदाय । पूर्णाय । पाटाम्बरविभूषिताय । पद्माक्षाय । पद्मस्रग्धारिणे । पद्मेन परिशोभिताय । फणिभृते नमः । ९४० ॐ फणिनाथाय नमः । फेनिकाभक्षकारकाय । स्फटिकाय । फर्शुधारिणे । स्फटिकाभाय । फलप्रदाय । बद्रीशाय । बलरूपाय । बहुभोजिने । बटुर्बटवे । बालखिल्यार्चिताय । बालाय । ब्रह्मेशाय । ब्राह्मणार्चिताय । ब्राह्मणाय । ब्रह्मघ्ने । ब्रह्मणे । ब्रह्मज्ञाय । ब्राह्मणप्रियाय । ब्राह्मणस्थाय नमः । ९६० ॐ ब्रह्मरूपाय नमः । ब्राह्मणपरिपालकाय । ब्रह्ममूर्तये । ब्रह्मस्वामिने । ब्राह्मणैः परिशोभिताय । ब्राह्मणारिहराय । ब्रह्मणे । ब्राह्मणास्यैः प्रतर्पिताय । भूतेशाय । भूतनाथाय । भस्माङ्गाय । भीमविक्रमाय । भीमाय । भवहराय । भव्याय । भैरवाय । भयभञ्जनाय । भूतिदाय । भुवनाधाराय । भुवनेशाय नमः । ९८० ॐ भृगवे नमः । भवाय । भारतीशाय । भुजङ्गेशाय । भास्कराय । भिन्दिपालधृषे । भूताय । भयहराय । भानवे । भावनाय । भवनाशनाय । ९९१ इति श्रीप्रकृष्टनन्दोक्तागमे श्रीकृष्णसुदाम्नः संवादे महाकालसहस्रनामावलिः समाप्ता । ॐ भवाय देवाय नमः । ॐ सर्वाय देवाय नमः । ॐ ईशान देवाय नमः । ॐ पशुपेतेर् देवाय नमः । ॐ रुद्राय देवाय नमः । ॐ उग्राय देवाय नमः । ॐ भीमाय देवाय नमः । ॐ महते देवाय नमः । ॐ कालकालाय देवाय नमः । Send corrections to sanskrit at cheerful.com Proofread by PSA Easwaran
% Text title            : mahAkAlasahasranAmAvaliH
% File name             : mahAkAlasahasranAmAvaliH.itx
% itxtitle              : mahAkAlasahasranAmAvaliH
% engtitle              : mahAkAlasahasranAmAvaliH
% Category              : sahasranAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : prakRiShTanandoktAgam.  See corresponding stotra
% Latest update         : December 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org