॥ श्रीमहाकालसहस्रनामस्तोत्रम् ॥

श्रीप्रकृष्टनन्दोक्तागमे ऋषिरुवाच- महाकालसहस्रं तु श्रोतुमिच्छामि सुव्रत! । कथयस्व प्रसादेन शिष्याय वक्तुमर्हसि ॥ १॥ सूत उवाच- सुधामयः सुतः श्रीमान् सुदामा नाम वै द्विजः । तेन गोपीपतिः कृष्णो विद्यामभ्यसितुङ्गतः ॥ २॥ सान्दीपनान्तिकेऽवन्त्यां गतौ तौ पठनार्थिनौ । चतुःषष्टिः कलाः सर्वाः कृता विद्याश्चतुर्दश ॥ ३॥ एकदा प्राह कृष्णं स सुदामा द्विजसत्तमः । सुदामोवाच- महाकालं प्रतिबिल्वं केन मन्त्रेण वाऽर्पणम् ॥ ४॥ करोमि वद मे कृष्ण ! कृपया सात्त्वताम्पते ! । श्रीकृष्ण उवाच - शृणु मित्र! महाप्राज्ञ! कथयामि तवाग्रतः ॥ ५॥ सहस्रं कालकालस्य महाकालस्य वै द्विज ! । सुगोप्यं सर्वदा विप्र! भक्तायाभाषितं मया ॥ ६॥ कुरु बिल्वार्पणं तेन येन त्वं विन्दसे सुखम् । सहस्रस्यास्य ऋष्योऽहं छन्दोऽनुष्टुप् तथैव च ॥ ७॥ देवः प्रोक्तो महाकालो विनियोगश्च सिद्धये । सङ्कल्प्यैवं ततो ध्यायेन्महाकालविभुं मुदा ॥ ८॥ विनियोगः । ॐ अस्य श्रीमहाकालसहस्रनामस्तोत्रमालामन्त्रस्य श्रीकृष्णऋषिः । अनुष्टुप्छन्दः । श्रीमहाकालो देवता । ॐ बीजं । नमः शक्तिः । महाकालायेति कीलकं । सर्वार्थसिद्ध्ये पाठे विनियोगः । ऋष्यादिन्यासः । ॐ श्रीकृष्णर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । महाकालदेवतायै नमः हृदये । ॐ बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । महाकालायेति कीलकाय नमः नाभौ ॥ श्रीमहाकालप्रीतर्थे सहस्रनामस्तोत्रपाठे विनियोगाय नमः सर्वाङ्गे ॥ करन्यास एवं हृदयादिन्यास ॥ करन्यासः । ॐ अङ्गुष्ठाभ्यां नमः । महाकालाय तर्जनीभ्यां नमः । नमः मध्यमाभ्यां नमः । ॐ अनामिकाभ्यां नमः । महाकालाय कनिष्ठिकाभ्यां नमः । नमः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यास । ॐ हृदयाय नमः । महाकालाय शिरसे स्वाहा । नमः शिखायै वषट् । ॐ कवचाय हुम् । महाकालाय नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् । व्यापक न्यास - ॐ महाकालाय नमः ॥ अथ ध्यानम् - कुङ्कुमागरु-कस्तूरी-केशरेण विचर्चितम् । नानापुष्पस्रजालङ्कृद्बिल्वमौलिवलान्वितम् ॥ ९॥ पुरो नन्दी स्थितो वामे गिरिराजकुमारिका । ब्राह्मणैरावृतं नित्यं महाकालमहं भजे ॥ १०॥ ॥ इति ध्यानम् ॥ ॐ महाकालो महारूपो महादेवो महेश्वरः । महाप्राज्ञो महाशम्भुर्महेशो मोहभञ्जनः ॥ ११॥ मान्यो मन्मथहन्ता च मोहनो मृत्युनाशनः । मान्यदो माधवो मोक्षो मोक्षदो मरणापहा ॥ १२॥ मुहूर्तो मुनिवन्द्यश्च मनुरूपो मनुर्मनुः । मन्मथारिर्महाप्राज्ञो मनोनन्दो ममत्वहा ॥ १३॥ मुनीशो मुनिकर्ता च महत्त्वं महदाधिपः । मैनाको मैनकावन्द्यो मध्वरिप्राणवल्लभः ॥ १४॥ महालयेश्वरो मोक्षो मेघनादेश्वराभिधः । मुक्तीश्वरो महामुक्तो मन्त्रज्ञो मन्त्रकारकः ॥ १५॥ मङ्गलो मङ्गलाधीशो मध्यदेशपतिर्महान् । मागधो मन्मथो मत्तो मातङ्गो मालतीपति ॥ १६॥ माथुरो मथुरानाथो मालवाधीश-मन्युपः । मारुतिर्मीनपो मौनो मार्कण्डो मण्डलो मृडः ॥ १७॥ मधुप्रियो मधुस्नायी मिष्टभोजी मृणालधृक् । मञ्जुलो मल्लमोदज्ञो मोदकृन्मोददायकः ॥ १८॥ मुक्तिदो मुक्तरूपश्च मुक्तामालाविभूषितः । मृकण्डो मोदपो मोदो मोदकाशनकारकः ॥ १९॥ यज्ञो यज्ञपतिर्यज्ञो यज्ञेशो यज्ञनाशनः । यज्ञतेजा यशो योगी योगीशो योगदायकः ॥ २०॥ यतिरूपो याज्ञवल्क्यो यज्ञकृद् यज्ञलुप्तहा । यज्ञमृद् यज्ञहा यज्ञो यज्ञभुग् यज्ञसाधकः ॥ २१॥ यज्ञाङ्गो यज्ञहोता च यज्वानो यजनो यतिः । यशःप्रदो यशःकर्ता यशो यज्ञोपवीतधृक् ॥ २२॥ यज्ञसेनो याज्ञिकश्च यशोदावरदायकः । यमेशो यमकर्ता च यमदूत-निवारणः ॥ २३॥ याचको यमुनाक्रीडो याज्ञसेनी-हितप्रदः । यवप्रियो यवरूपो यवनान्तो यवी यवः ॥ २४॥ ऋग्वेदो रोगहन्ता च रन्तिदेवो रणाग्रणीः । रैवतो रैवताधीशो रैवतेश्वर-संज्ञकः ॥ २५॥ रामेश्वरो रकारश्च रामप्रियो रमाप्रियः । रणी रणहरो रक्षो रक्षको ऋण-हारकः ॥ २६॥ रक्षिता राजरूपो राट् रवो रूपो रजःप्रदः । रामचन्द्रप्रियो राजा रक्षोघ्नो राक्षसाधिपः ॥ २७॥ राक्षसान् वरदो रामो राक्षसान्तकरो रथी । रथप्रियो रथस्थायी रथहा रथहारकः ॥ २८॥ रावणप्रियकृद् राव-स्वरूपश्च ऋतूरजः ॥ रति-वरप्रदाता च रन्तिदेव-वरप्रदः ॥ २९॥ राजधानीप्रदो रेतो रेवाभञ्जो रवी रजी । ऋत्विजो रसकर्ता च रसज्ञो रसदायकः ॥ ३०॥ रुद्रो रुद्राक्षधृग् रौद्रो रत्नो रत्नैर्विभूषितः । रूपेश्वरो रमापूज्यो रुरु-राज्य-स्थलेश्वरः ॥ ३१॥ लक्षो लक्षपतिर्लिङ्गो लड्डुको लड्डुकप्रियः । लीलाम्बरधरो लाभो लाभदो लाभकृत् सदा ॥ ३२॥ लज्जारक्षो लघुरूपो लेखको लेखकप्रियः । लाङ्गलो लवणाब्धीशो लक्ष्मीपूजितलक्षकः ॥ ३३॥ लोकपालेश्वरो लम्पो लङ्केशो लम्पकेश्वरः । वहिर्नेत्रो वराङ्गश्च वसुरूपो वसुप्रदः ॥ ३४॥ वरेण्यो वरदो वेदो वेदवेदाङ्ग-पारगः । वृद्धकालेश्वरो वृद्धो विभवो विभवप्रद ॥ ३५॥ वेणुगीतप्रियो वैद्यो वाराणसीस्थितः सदा । विश्वेशो विश्वकर्ता च विश्वनाथो विनायकः ॥ ३६॥ वेदज्ञो वर्णकृद् वर्णो वर्णाश्रम-फलप्रदः । विश्ववन्द्यो विश्ववेत्ता विश्वावसुर्विभावसुः ॥ ३७॥ वित्तरूपो वित्तकर्ता वित्तदो विश्वभावनः । विश्वात्मा वैश्वदेवश्च वनेशो वनपालकः ॥ ३८॥ वनवासी वृषस्थायी वृषभो वृषभप्रियः । विल्वीदलप्रियो विल्वो विशालनेत्रसंस्थितः ॥ ३९॥ वृषध्वजो वृषाधीशो वृषभेशो वृषप्रियः । विल्वेश्वरो वरो वीरो वीरेशश्च वनेश्वरः ॥ ४०॥ विभूति-भूषितो वेण्यो व्यालयज्ञोपवीतकः । विश्वेश्वरो वरानन्दो वटरूपो वटेश्वरः ॥ ४१॥ सर्वेशः सत्त्वः सारङ्गो सत्त्वरूपः सनातनः । सद्वन्द्यः सच्चिदानन्दः सदानन्दः शिवप्रियः ॥ ४२॥ शिवदः शिवकृत् साम्बः शशिशेखर-शोभनः । शरण्यः सुखदः सेव्यः शतानन्दवरप्रदः ॥ ४३॥ सात्त्विकः सात्त्वतः शम्भुः शङ्करः सर्वगः शिवः । सेवाफल-प्रदाता च सेवक-प्रतिपालकः ॥ ४४॥ शत्रुघ्नः सामगः शौरिः सेनानीः शर्वरीप्रियः । श्मशानी स्कन्दसद्वेदः सदा सुरसरित्प्रियः ॥ ४५॥ सुदर्शनधरः शुद्धः सर्वसौभाग्यदायकः । सौभाग्यः सुभगः सूरः सूर्यः सारङ्गमुक्तिदः ॥ ४६॥ सप्तस्वरश्च सप्ताश्वः सप्तः सप्तर्षिपूजितः । शितिकण्ठः शिवाधीशः सङ्गमः सङ्गमेश्वरः ॥ ४७॥ सोमेशः सोमतीर्थेशः सर्पधृक् स्वर्णकारकः । स्वर्णजालेश्वरः सिद्धः सिद्धेशः सिद्धिदायकः ॥ ४८॥ सर्वसाक्षी सर्वरूपः सर्वज्ञः शास्त्र-संस्कृतः । सौभाग्येश्वरः सिंहस्थः शिवेशः सिंहकेश्वरः ॥ ४९॥ शूलेश्वरः शुकानन्दः सहस्र-धेनुकेश्वरः । स्यन्दनस्थः सुराधीशः सनकाद्यर्चितः सुधीः ॥ ५०॥ षडूर्मिः षट्-सुचक्रज्ञः षट्चक्रक-विभेदकः । षडाननः षडङ्गज्ञः षड्रसज्ञः षडाननः ॥ ५१॥ हरो हंसो हतारातिर्हिरण्यो हाटकेश्वरः । हेरम्बो हवनो होता हयरूपो हयप्रदः ॥ ५२॥ हस्तिदो हस्तित्वग्धारी हाहा-हूहू-वरप्रदः । हव्य-हेम-हविष्यान्नो हाटकेशो हविःप्रियः ॥ ५३॥ हिरण्यरेता हंसज्ञो हिरण्यो हाटकेश्वरः । हनुमदीशो हरो हर्षो हरसिद्धिपीठगः ॥ ५४॥ हैमो हैमालयो हूहू-हाहाहेतुर्हठो हठी । क्षत्रः क्षत्रप्रदः क्षत्री क्षेत्रज्ञः क्षेत्रनायकः ॥ ५५॥ क्षेमः क्षेमप्रदाता च क्षान्तिकृत् क्षान्तिवर्धनः । क्षीरार्णवः क्षीरभोक्ता क्षिप्राकूलक्षितेः पतिः ॥ ५६॥ क्षौद्ररसप्रियः क्षीरः क्षिप्रसिद्धिप्रदः सदा । ज्ञानो ज्ञानप्रदो ज्ञेयो ज्ञानातीतो ज्ञपो ज्ञयः ॥ ५७॥ ज्ञानरूपो ज्ञानगम्यो ज्ञानी ज्ञानवतांवरः । अजो ह्यनन्तश्चाव्यक्त आद्य आनन्ददायकः ॥ ५८॥ अकथ आत्मा ह्यान्दश्वाजेयो ह्यज आत्मभूः । आद्यरूपो ह्यरिच्छ्रेत्ताऽनामयश्चाप्यलौकिकः ॥ अतिरूपो ह्यखण्डात्मा चात्मज्ञानरतः सदा । आत्मवेत्ता ह्यात्मसाक्षी अनादिश्चान्तरात्मगः ॥ ६०॥ आनन्देशोऽविमुक्तेशश्चालर्केशोऽप्सरेश्वरः । आदिकल्पेश्वरोऽगस्त्यश्चाक्रूरेशोऽरुणेश्वरः ॥ ६१॥ इडारूप इभच्छ्रेत्ता ईश्वरश्चेन्दिरार्चितः । इन्दुरिन्दीवरश्चेश ईशानेश्वर ईर्षहा ॥ ६२॥ इज्य इन्दीवरश्चेभ इक्षुरिक्षुरस-प्रियः । उमाकान्त उमास्वामी तथोमायाः प्रमोदकृत् ॥ ६३॥ उर्वशी-वरद उच्चैरूरुत्तुङ्गधारकः । ? एकरूप एकस्वामी ह्येकात्मा चैकरूपवान् ॥ ६४॥ ऐरावत ऐस्थिरात्मा चैकारैश्वर्यदायकः । ओकार ओजस्वांश्चैव ह्यौखरश्चौखराधिपः ॥ ६५॥ औषध्य औषधिज्ञाता ह्योजोद औषधीश्वरः । अनन्तो ह्यन्तकश्चान्तो ह्यन्धकासुरसूदनः ॥ ६६॥ अच्युतश्चाप्रमेयात्मा अक्षरश्चाश्वदायकः । अरिहन्ता ह्यवन्तीशश्चाहिभूषणभृत् सदा ॥ ६७॥ अवन्तीपुरवासी चाप्यवन्तीपुर-पालकः । अमरश्चामराधीशो ह्यमरारिविहिंसकः ॥ ६८॥ कामहा कामकामश्च कामदः करुणाकरः । कारुण्यः कमलापूज्यः कपाली कलिनाशनः ॥ ६९॥ कामारिकृत् कल्लोलः कालिकेशश्च कालजित् । कपिलः कोटितीर्थेशः कल्पान्तः कालहा कविः ॥ ७०॥ कालेश्वरः कालकर्ता कल्पाब्धिः कल्पवृक्षकः । कोटीश कामधेन्वीशः कुशलः कुशलप्रदः ॥ ७१॥ किरीटी कुण्डली कुन्ती कवची कर्परप्रियः । कर्पूराभः कलादक्षः कलाज्ञः किल्विषापहा ॥ ७२॥ कुक्कुटेशः कर्कटेशः कुलदः कुलपालकः । कञ्जाभिलाषी केदारः कुङ्कुमार्चितविग्रहः ॥ ७३॥ कुन्दपुष्पप्रियः कञ्जः कामारिः कामदाहकः । कृष्णरूपः कृपारूपश्चाथ कृष्णार्चिताङ्घ्रिकः ॥ ७४॥। कुण्डः कुण्डेश्वरः काण्वः केशवैः परिपूजितः । कामेश्वरः कलानाथः कण्ठेशः कुङ्कुमेश्वरः ॥ ७५॥ कन्थडेशः कपालेशः कायावरोहणेश्वरः । करभेशः कुटुम्बेशः कर्केशः कौशलेश्वरः ॥ ७६॥ कोशदः कोशभृत् कोशः कौशेयः कौशिकप्रियः । खचरः खचराधीशः खचरेशः खरान्तकः ॥ ७७॥ खेचरैः पूजितपदः खेचरीसेवकप्रियः । खण्डेश्वरः खड्गरूपः खड्गग्राही खगेश्वरः ॥ ७८॥ खेटः खेटप्रियः खण्डः खण्डपालः खलान्तकः । खाण्डवः खाण्डवाधीशः खड्गता-सङ्गमस्थितः ॥ ७९॥ गिरिशो गिरिजाधीशो गजारित्वग्विभूषितः । गौतमो गिरिराजश्च गङ्गाधरो गुणाकरः ॥ ८०॥ गौतमीतटवासी च गालवो गोपतीश्वरः । गोकर्णो गोपतिर्गर्वो मजारिर्गरुडप्रियः ॥ ८१॥ गङ्गामौलिर्गुणग्राही गारुडीविद्यया युतः । गुरोर्गुरुर्गजारातिर्गोपालो गोमतीप्रियः ॥ ८२॥ गुणदो गुणकर्ता च गणेशो गणपूजितः । गणको गौरवो गर्गो गन्धर्वेण प्रपूजितः ॥ ८३॥ गोरक्षो गुर्विणीत्राता गेहो गेहप्रदायकः । गीताध्यायी गयाधीशो गोपतिर्गीतमोहितः ॥ ८४॥ गिरातीतो गुणातीतो गडःगेशो गुह्यकेश्वरः । ग्रहो ग्रहपतिर्गम्यो ग्रहपीडानिवारणः ॥ ८५॥ घटनादिर्घनाधारो घनेश्वरो घनाकरः । घुश्मेश्वरो घनाकारो घनरूपो घनाग्रणीः ॥ ८६॥ घण्टेवरो घटाधीशो घर्घरो घस्मरापहा । घुष्मेशो धोषकृद् घोषी घोषाघोषो घनध्वनिः ॥ ८७॥ घृतप्रियो घृताब्धीशो घण्टो घण्टघटोत्कचः । घटोत्कचाय वरदो घटजन्मा घटेश्वरः ॥ ८८॥ घकारो ङकृतो ङश्च ङकारो ङकृताङ् गजः । चराचरश्चिदानन्दश्चिन्मयश्चन्द्रशेखरः ॥ ८९॥ चन्द्रेश्वरश्चामरेशश्चामरेण विभूषितः । चामरश्चामराधीशश्चराचरपतिश्चिरः ॥ ९०॥ चमत्कृतश्चन्द्रवर्णश्चर्मभृच्चर्म चामरी । चाणक्यश्चर्मधारी च चिरचामरदायक ॥ ९१॥ च्यवनेशश्चरुश्चारुश्चन्द्रादित्येश्वराभिधः । चन्द्रभागाप्रियश्चण्डश्चामरैः परिवीजितः ॥ ९२॥ छत्रेश्वरश्छत्रधारी छत्रदश्छलहा छली । छत्रेशश्छत्रकृच्छत्री छन्दविच्छन्ददायकः ॥ ९३॥ जगन्नाथो जनाधारो जगदीशो जनार्दनः । जाह्नवीधृग् जगत्कर्ता जगन्मयो जनाधिपः ॥ ९४॥ जीवो जीवप्रदाता च जेताऽथो जीवनप्रदः । जङ्गमश्च जगद्धाता जगत्केन-प्रपूजितः ॥ ९५॥ जटाधरो जटाजूटी जटिलो जलरूपधृक् । जालन्धर-शिरश्छ्रेत्ता जलजाङ्घ्रिर्जगत्पतिः ॥ ९६॥ जनत्राता जगन्निधिर्जटेश्वरो जलेश्वरः । झर्झरो झरणाकारी झूञ्झकृ झूझहा झरः ॥ ९७॥ ञकारश्च ञमुवासी ञजनप्रियकारकः । टकारश्च ठकारश्च डामरो डमरुप्रियः ॥ ९८॥ डण्डधृग् डमरुहस्तो डाकिहृड्डमकेश्वरः । ढुण्ढो ढुण्ढेश्वरो ढक्को ढक्कनादप्रियः सदा ॥ ९९॥ णकारो णस्वरूपश्च णुणो-णिणो-णकारण । तन्त्रज्ञस्त्र्यम्बकस्तन्त्रीतुम्बुरुस्तुलसीप्रियः ॥ १००॥ तूणीरधृक् तदाकारस्ताण्डवी ताण्डवेश्वरः । तत्त्वज्ञस्तत्त्वरूपो च तात्त्विकस्तरविप्रभः ॥ १०१॥ त्रिनेत्रस्तरुणस्तत्त्वस्तकारस्तलवासकृत् । तेजस्वी तेजोरूपी च तेजःपुञ्जप्रकाशकः ॥ १०२॥ तान्त्रिकस्तन्त्रकर्ता च तन्त्रविद्या-प्रकाशकः । ताम्ररूपस्तदाकारस्तत्त्वदस्तरणिप्रियः ॥ १०३॥ तान्त्रेयस्तमोहा तन्वी तामसस्तामसापहा । ताम्रस्ताम्रप्रदाता च ताम्रवर्णस्तरुप्रियः ॥ १०४॥ तपस्वी तापसी तेजस्तेजोरूपस्तलप्रियः । तिलस्तिलप्रदाता च तूलस्तूलप्रदायकः ॥ १०५॥ तापीशस्ताम्रपर्णीशस्तिलकस्त्राणकारकः । त्रिपुरघ्नस्त्रयातीतस्त्रिलोचनस्त्रिलोकपः ॥ १०६॥ त्रिविष्टपेश्वरस्तेजस्त्रिपुर-पुरदाहकः । तीर्थस्तारापतिस्त्राता ताडिकेशस्तडिज्जवः ॥ १०७॥ थकारश्च स्थुलाकारः स्थूलः स्थविरः स्थानदः । स्थाणुः स्थायी स्थावरेशः स्थम्भः स्थावरपीडहा ॥ १०८॥ स्थूलरूपस्थितेः कर्ता स्थूलदुःखविनाशनः । थन्दिलस्थदलः स्थाल्यस्थलकृत् थलभृत् स्थली ॥ १०९॥ थलेश्वरस्थलाकारस्थलाग्रजस्थलेश्वरः । दक्षो दक्षहरो द्रव्यो दुन्दुभिवरदायकः ॥ ११०॥ देवो देवाग्रजो दानो दानवारिर्दिनेश्वरः । देवकृद् देवभृद् दाता दयारूपी दिवस्पतिः ॥ १११॥ दामोदरो दलाधारो दुग्धस्नायी दधिप्रियः । देवराजो दिवानाथो देवज्ञो देवताप्रियः ॥ ११२॥ देवदेवो दानरूपो दूर्वादलप्रियः सदा । दिग्वासा दरभो दन्तो दरिद्रघ्नो दिगम्बरः ॥ ११३॥ दीनबन्धुर्दुराराध्यो दुरन्तो दुष्टदर्पहा । दक्षघ्नो दक्षहन्ता च दक्षजामात देवजित् ॥ ११४॥ द्वन्द्वहा दुःखहा दोग्धा दुर्धरो दुर्धरेश्वरः । दानाप्तो दानभृद् दीप्तदीप्तिर्दिव्यो दिवाकरः ॥ ११५॥ दम्भहा दम्भकृद् दम्भी दक्षजापतिर्दीप्तिमान् । धन्वी धनुर्धरो धीरो धान्यकृद् धान्यदायकः ॥ ११६॥ धर्माधर्मभृतो धन्यो धर्ममूर्तिर्धनेश्वरः । धनदो धूर्जटिर्धान्यो धामदो धार्मिको धनी ॥ ११७॥ धर्मराजो धनाधारो धराधर-धरापतिः । धनुर्विद्याधरो धूर्तो धूलिधूसरविग्रहः ॥ ११८॥ धनुषो धनुषाकारो धनुर्धरभृतांवरः । धरानाथो धराधीशो धनेशो धनदाग्रजः ॥ ११९॥ धर्मभृद् धर्मसन्त्राता धर्मरक्षो धनाकरः । नर्मदो नर्मदाजातो नर्मदेशो नृपेश्वरः ॥ १२०॥ नागभुन्नागलोकेशो नागभूषणभूषितः । नागयज्ञोपवीतेयो नगो नागारिपूजितः ॥ १२१॥ नान्यो नरवरो नेमो नूपुरो नूपुरेश्वरः । नागचण्डेश्वरो नागो नगनाथो नगेश्वरः ॥ १२२॥ नीलगङ्गाप्रियो नादो नवनाथो नगाधिपः । पृथुकेशः प्रयागेशः पत्तनेशः पराशरः ॥ १२३॥ पुष्पदन्तेश्वरः पुष्पः पिङ्गलेश्वरपूर्वजः । पिशाचेशः पन्नगेशः पशुपतीश्वरः प्रियः ॥ १२४॥ पार्वतीपूजितः प्राणः प्राणेशः पापनाशनः । पार्वतीप्राणनाथश्च प्राणभृत् प्राणजीवनः ॥ १२५॥ पुराणपुरुषः प्राज्ञः प्रेमज्ञः पार्वतीपतिः । पुष्करः पुष्कराधीशः पात्रः पात्रैः प्रपूजितः ॥ १२६॥ पुत्रदः पुण्यदः पूर्णः पाटाम्बरविभूषितः । पद्माक्षः पद्मस्रग्धारी पद्मेन परिशोभितः ॥ १२७॥ फणिभृत् फणिनाथश्च फेनिकाभक्षकारकः । स्फटिकः फर्शुधारी च स्फटिकाभः फलप्रदः ॥ १२८॥ बद्रीशो बलरूपश्च बहुभोजी बटुर्बटुः । बालखिल्यार्चितो बालो ब्रह्मेशो ब्राह्मणार्चितः ॥ १२९॥ ब्राह्मणो ब्रह्महा ब्रह्मा ब्रह्मज्ञो ब्राह्मणप्रियः । ब्राह्मणस्थो ब्रह्मरूपो ब्राह्मण-परिपालकः ॥ १३०॥ ब्रह्ममूर्तिर्ब्रह्मस्वामी ब्राह्मणैः परिशोभितः । ब्राह्मणारिहरो ब्रह्म ब्राह्मणास्यैः प्रतर्पितः ॥ १३१॥ भूतेशो भूतनाथश्च भस्माङ्गो भीमविक्रमः । भीमो भवहरो भव्यो भैरवो भयभञ्जनः ॥ १३२॥ भूतिदो भुवनाधारो भुवनेशो भृगुर्भवः । भारतीशो भुजङ्गेशो भास्करो भिन्दिपालधृक् ॥ १३३॥ भूतो भयहरो भानुर्भावनो भवनाशनः । सहस्रनामभिश्चैतैर्महाकालः प्रसीदतु ॥ १३४॥ अथ महाकाल-सहस्रनाम-माहात्म्यम् । सूत उवाच - इतीदं कीर्तितं तेभ्यो महाकालसहस्रकम् । पठनात् श्रवणात् सद्यो धूतपापो भवेन्नरः ॥ १३५॥ एकवारं पठेन्नित्यं सर्वसत्यं प्रजायते । द्विवारं यः पठेत् सत्यं तस्य वश्यं भवेज्जगत् ॥ १३६॥ त्रिवारं पठनान्मर्त्यो धनधान्ययुतो भवेत् । अतः स्थान-विशेषस्येदानीं पाठफलं शृणु ॥ १३७॥ वट-मूले - वटमूले पठेन्नित्यमेकाकी मनुजो यदि । त्रिवारञ्च दिनत्रिंशत् सिद्धिर्भवति सर्वथा ॥ १३८॥ मनोरथसिद्धौ - अश्वत्थे तुलसीमूले तीर्थे वा हरिहरालये । शुचिर्भूत्वा पठेद्यो हि मनसा चिन्तितं लभेत् ॥ १३९॥ सिद्धिदतीर्थे - यत्र तीर्थेऽस्ति चाश्वत्यो वटो वा द्विजसत्तम! स तीर्थः सिद्धिदः सर्वपाठकस्य न संशयः ॥ १४०॥ तत्रैकाग्रमना भूत्वा यः पठेच्छुभमानसः । यं यं काममभिध्यायेत् तं तं प्राप्नोति निश्चितम् ॥ १४१॥ मनसा चिन्तितं सर्वं महाकालप्रसादतः । लभते सकलान् कामान् पठनाच्छ्रवणान्नरः ॥ १४२॥ शतावर्तपाठफलम् - शतावर्तं पठेद् यत्र चिन्तितं लभते ध्रुवम् । दुःसाध्यः सोऽपि साध्यः स्याद् दिनान्येकोनवींशतेः ॥ १४३॥ महाशिवरात्रौ पाठफलम् - शिवरात्रिदिने मर्त्य उपवासी जितेन्द्रियः । निशामध्ये शतावर्तपठनाच्चिन्तितं लभेत् ॥ १४४॥ सहस्रावर्तनं तत्र तीर्थे ह्यश्वत्थसन्निधौ । पठनाद् भुक्तिर्मुक्तिश्च भवतीह कलौ युगे ॥ १४५॥ तद्दशांशः क्रियाद्धोमं तदृशांशं च तर्पणम् । दशांशं मार्जयेन्मर्त्यः सर्वसिद्धिः प्रजायते ॥ १४६॥ गतं राज्यमवाप्नोति वन्ध्या पुत्रवती भवेत् । कुष्ठरोगाः प्रणश्यन्ति दिव्यदेहो भवेन्नरः ॥ १४७॥ सहस्रावर्तपाठेन महाकालप्रियो नरः । महाकालप्रसादेन सर्वसिद्धिः प्रजायते ॥ १४८॥ शापानुग्रहसामर्थ्यं भवतीह कलौ युगे । सत्यं सत्यं न सन्देहः सत्यञ्च गदितं मम ॥ १४९॥ अवन्तिकास्थिततीर्थेषु पाठफलम् - - कोटितीर्थे - कोटितीर्थे पठेद् विप्र! महाकालः प्रसीदति । - रुद्रसरोवरे - पाठाच्च रुद्रसरसि कुष्ठपीडा निवर्तते ॥ १५०॥ - सिद्धपीठे - सिद्धपीठे पठेद् यो हि तस्य वश्यं भवेज्जगत् । - शिप्राकूले - शिप्राकूले पठेत् प्राज्ञो धनधान्ययुतो भवेत् ॥ १५१॥ कालत्रयं पठेद् यश्च शत्रु-निर्मूलनं भवेत् । - भैरवालये - अपमृत्युमपाकुर्यात् पठनाद् भैरवालये ॥ १५२॥ - सिद्धवटस्याधः - सिद्धवटस्य च्छायायां पठते मनुजो यदि । वन्ध्यायां जायते पुत्रश्चिरञ्जीवी न संशयः ॥ १५३॥ - औखरे - औखरे पठनात् सद्यो भूतपीडा निवर्तते । गयाकूपे - गयाकूपे पठेद् यो हि तुष्टाः स्युः पितरस्ततः ॥ १५४॥ - गोमत्याम् - गोमत्याञ्च पठेन्नित्यं विष्णुलोकमवाप्नुयात् । - अङ्कपाते - अङ्कपाते पठेद् यो हि धूतपापः प्रमुच्यते ॥ १५५॥ - खड्गतासङ्गमे - खड्गतासङ्गमे सद्यः खड्गसिद्धिमवाप्नुयात् । - यमतडागे - पठेद् यमतडागे यो यमदुःखं न पश्यति ॥ १५६॥ - नवनद्याम् - नवनद्यां पठेद् यो हि ऋद्धिसिद्धिपतिर्भवेत् । - योगिनी-पुरतः - योगिनीपुरतः पाठं महामारीभयं न हि ॥ १५७॥ - वृद्धकालेश्वरान्तिके - पुत्रपौत्रयुतो मर्त्यो वृद्धकालेश्वरान्तिके । पाठस्थाने घृतं दीपं नित्यं ब्राह्मणभोजनम् ॥ १५८॥ एकादशाथवा पञ्च त्रयो वाऽप्येकब्राह्मणः । भोजनं च यथासाध्यं दद्यात् सिद्धि-समुत्सुकः ॥ १५९॥ विधिवद् भक्तिमान् श्रद्धायुक्तो भक्तः सदैव हि । पठन् यजन् स्मरँश्चैव जपन् वापि यथामति ॥ १६०॥ महाकालस्य कृपया सकलं भद्रमाप्नुयात् । इति श्रीप्रकृष्टनन्दोक्तागमे श्रीकृष्णसुदाम्नः संवादे महाकालसहस्रनामस्तोत्रं सम्पूर्णम् । ॥ ॐ नमो नमः ॥ शिवार्पणमस्तु Encoded Sivakumar Thyagarajan shivakumar24xi at gmail.com Proofread by Sivakumar Thyagarajan, DPD, NA

% Text title            : mahAkAlasahasranAmastotra
% File name             : mahAkAlasahasranAmastotra.itx
% itxtitle              : mahAkAlasahasranAmastotram
% engtitle              : mahAkAlasahasranAmastotra
% Category              : sahasranAma, shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24xi at gmail.com
% Proofread by          : Sivakumar Thyagarajan, DPD, NA
% Description-comments  : prakRiShTanandoktAgam
% Latest update         : July 23, 2017
% Send corrections to   : sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP