श्रीमहाकालस्तोत्रम्
दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् ।
भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ॥ १॥
भार्गव उवाच
कल्यन्तकालाग्निसमानभासं चतुर्भुजं कालिकयोपजुष्टम् ।
कपलखट्वाङ्गवराभयाढ्यकरं महाकालमनन्तमीडे ॥ २॥
नमः परमरूपाय परामलसुरूपिणे ।
नियतिप्राप्तदेहाय तत्त्वरूपाय ते नमः ॥ ३॥
नमः परमरूपाय परमार्थैकरूपिणे ।
वियन्मायास्वरूपाय भैरवाय नमोऽस्तुते ॥ ४॥
ॐ नमः परमेशाय परतत्त्वार्थदर्शिणे ।
वियन्मायाद्यधीशाय धीविचित्राय शम्भवे ॥ ५॥
त्रिलोकेशाय गूढाय सूक्ष्मायाव्यक्तरूपिणे ।
पराकाष्ठादिरूपाय पराय शम्भवे नमः ॥ ६॥
ॐ नमः कालिकाङ्काय कालाञ्जननिभाय ते ।
जगत्संहारकर्त्रे च महाकालाय ते नमः ॥ ७॥
नम उग्राय देवाय भीमाय भयदायिने ।
महाभयविनाशाय सृष्टिसंहारकारिणे ॥ ८॥
नमः परापरानन्दस्वरूपाय महात्मने ।
परप्रकाशरूपाय प्रकाशानां प्रकाशिने ॥ ९॥
ॐ नमो ध्यानगम्याय योगिहृत्पद्मवासिने ।
वेदतन्त्रार्थगम्याय वेदतन्त्रार्थदर्शिने ॥ १०॥
वेदागमपरामर्शपरमानन्ददायिने ।
तन्त्रवेदान्तवेद्याय शम्भवे विभवे नमः ॥ ११॥
धियां प्रचोदकं यत्तु परमं ज्योतिरुत्तमम् ।
तत्प्रेरकाय देवाय परमज्योतिषे नमः ॥ १२॥
गुणाश्रयाय देवाय निर्गुणाय कपर्दिने ।
अतिस्थूलाय देवाय ह्यतिसूक्ष्माय ते नमः ॥ १३॥
त्रिगुणाय त्र्यधीशाय शक्तित्रितयशालिने ।
नमस्त्रिज्योतिषे तुभ्यं त्र्यक्षाय च त्रिमूर्तये ॥ १४॥
इति महाकालस्तोत्रं सम्पूर्णम् ।