महाप्राणदीपं शिवम्

महाप्राणदीपं शिवम्

ॐ महाप्राणदीपं शिवं शिवम् । (म)हौंकार रूपं शिवं शिवम् । महासूर्यचन्द्राग्निनेत्रं पवित्रम् । महागाढ तिमिरान्तकं सौरगात्रम् । महाकान्तिबीजं महादिव्यतेजम् । भवानि-समेतं भजे मञ्जुनाथम् ॥ ॐ नमः शङ्कराय च मयस्कराय च । नमः शिवाय च शिवतराय च । भवहाराय च ॥ महाप्राणदीपं शिवं शिवम् । भजे मञ्जुनाथं शिवं शिवम् ॥ अद्वैतभास्करं अर्धनारीश्वरम् । त्रिदशहृदयङ्गमं चतुर्गतिसङ्गमम् । पञ्चभूतात्मकं शतशत्रुनाशकम् । सप्तस्वरेश्वरं अष्टसिद्धीश्वरम् । नवरसमनोहरं दशदिशासुविमलम् ॥ एकादशोज्ज्वलं ऐकनाथेश्वरम् । प्रस्तुतिव शङ्करं प्रणत-जन-किङ्ककरम् । दुर्जनभयङ्करं सज्जनशुभङ्करम् । प्राणि-भवतारकं प्रकृति-हितकारकम् । भुवन-भव्य-भवनायकं भाग्यात्मकम् ॥ रक्षकम् ॥ ईशं सुरेशं वृषेशं परेशम् । नटेशं गौरीशं गणेशं भूतेशम् । महामधुर-पञ्चाक्षरी-मन्त्रमार्चम् । महाहर्ष वर्ष प्रवर्षं सुशीर्षं ॥ ॐ नमो हराय च स्मरहराय च । पुरहराय च रुद्राय च भद्राय च । इन्द्राय च नित्याय च निर्निद्राय च ॥ महाप्राणदीपं शिवं शिवम् । भजे मञ्जुनाथं शिवं शिवम् ॥ डं डं ड डं डं ड डं डं ड डं डं ड ढक्कान्निनाद नवताण्डवाडम्बरम् । तद्धिम्मि तकद्धिम्मी धिद्धिम्मि धिमिद्धिम्मी । सङ्गीत साहित्य शुभकमलभम्भरम् ॥ ॐकार ह्रींकार श्रींकार ऐंकार मन्त्रबीजाक्षरं मञ्जुनाथेश्वरं । ऋग्वेदमाद्यं यजुर्वेदवेद्यं सामप्रगीतं अथर्वप्रभातम् । पुराणेतिहासं प्रसिद्धं विशुद्धम् । प्रपञ्चैकसूत्रं विबुद्धं सुसिद्धम् ॥ न-कारं म-कारं शि-कारं व-कारं य-कारं निराकरसाकारसारम् । महाकालाकालं महानीलकण्ठं महानन्दनन्दं महाट्टाटहासम् । जटाजूटतरङ्गैकगङ्गासुचित्रं ज्वलद्रुद्रनेत्रमं सुमित्रं सुगोत्रम् ॥ महाकाशिवासं महाभानुलिङ्गम् । महाभर्तृ वर्णं सुवर्णं प्रवर्णम् ॥ सौराष्ट्रसुन्दरं सोमनाथेश्वरम् । श्रीशैलमन्दिरं श्रीमल्लिकार्जुनम् । उज्जयिनिपुर महाकालेश्वरम् । वैद्यनाथेश्वरं महाभीमेश्वरम् । ममललिङ्गेश्वरं रा(भा??)मलिङ्गेश्वरम् । काशीविश्वेश्वरं परंघृष्मेश्वरम् । त्र्यम्बकाधीश्वरं नागलिङ्गेश्वरम् । श्रीकेदारलिङ्गेश्वरम् ॥ अग्निलिङ्गात्मकं ज्योतिर्लिङ्गात्मकम् । वायुलिङ्गात्मकं आत्मलिङ्गात्मकम् । अखिललिङ्गात्मकं अग्निसोमात्मकम् ॥ अनादिं अमेयं अजेयं अचिन्त्यम् । अमोघं अपूर्वं अनन्तं अखण्डम् ॥ धर्मस्थलक्षेत्रवर परञ्ज्योतिम् ॥ ॐ नमः । सोमया च सौम्याय च । भव्याय च भाग्याया च । शान्ताय च शौर्याय च । योगाय च भोगाय च । कालाय च कान्ताय च । रम्याय च गम्यायच । ईशाय च श्रीशाय च । शर्वाय च सर्वाय च ॥ Encoded and proofread by Ruma Dewan Notes: The composition is from the Kannada movie Śrī Mañjunātha श्री मञ्जुनाथ. Closest transliteration to Devanāgarī देवनागरी is given here, with some pronunciations adhering to the vocal rendering. Lyricist : Sri Vedavyasa
% Text title            : Mahapranadipam Shivam
% File name             : mahAprANadIpaMshivam.itx
% itxtitle              : mahAprANadIpaM shivam
% engtitle              : mahAprANadIpaM shivam
% Category              : shiva, sanskritgeet
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : from the Kannada movie Śrī Mañjunātha.
% Indexextra            : (Videos 1, 2)
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org