महेश्वरनित्यसर्वज्ञेति व्याख्यानम्
जैगीषव्यः -
शृणुध्वं ब्रह्मविष्णवाद्याः ( शक्रविष्णवाजाः)
यन्मानस्यमहैतुकम् (यन्मानसमहेतुकम्) ।
नित्यं सर्वज्ञता तस्य देवदेवस्य शूलिनः ॥ १॥
यो वेदान्तैक (वेदानैक) संवेद्यो यं ध्यायन्ति मुमुक्षवः ।
यस्य निःश्वासपवना वेदाश्चत्वार एव हि ॥ २॥
यो ब्रह्मविष्णुरुद्राणां जनकः परमेश्वरः ।
सूर्यस्य जनिता वह्नेश्चन्द्रशक्रानिलात्मनाम् ॥ ३॥
न तस्य कारणं शम्भोः स सर्वस्यापि कारणम् ।
यः समाराध्यते विप्रैः भिन्नभिन्न(मखैर्मन्त्र)क्रियदिभिः ॥ ४॥
यस्त्वग्नीषोमजं सर्वं जगत्पाति सनातनः ।
असङ्गः सर्वभूतेषु निर्विकारो विकारिषु ॥ ५॥
यं सूक्ष्मबुध्या पश्यन्ति स्वहृदा वीतरागिणः ।
यो ध्यानेन जपैर्यज्ञैस्तपसा(ऽ)नाशकेन च ॥ ६॥
स वेत्ति वेद्यानक्षाणि मनोवाचामगोचरः ।
यस्माद्भूतानि जायन्ते येन जीवन्ति तान्यपि ॥ ७॥
यत्र लीनानि कल्प्यन्ते (कल्पान्ते) स एकः परमेश्वरः ।
यस्त्वपाणिर्निरङ्घ्रिश्चाप्यचक्षुश्चाप्यथाश्रवाः ॥ ८॥
(यस्त्वपाणिरनङ्घ्रिश्च अचक्षुश्चाप्यथाश्रवाः) ॥ ८॥
सोऽन्तिके स हि दूरस्थः स बाह्याभ्यन्तरऽपि च ।
ससत्यं ज्ञानमानन्दो गुणैर्हीनश्चनिर्गुणः ॥ ९॥
स स्वतन्त्रश्च (सु)पूर्णश्च तेन पूर्णमिदं जगत् ।
स नित्यश्चेतनानां च पतीनां पतिरीश्वरः ॥ १०॥
यस्त्वेकः सृजतीशानः चराचरमिदं जगत् ।
यथोर्णनाभिस्तन्तून्वै सृजते ग्रसतेऽपि च ॥ ११॥
यस्य रूपापरिज्ञानाद्देहमात्मेति मन्यते ।
यस्य रूपापरिज्ञानान्मन आत्मेति मन्यते ॥ १२॥
यस्य रूपापरिज्ञानात्खानिचात्मेति मन्यते ।
यस्य रूपापरिज्ञानाद्भूतान्यात्मेति मन्यते ॥ १३॥
यस्य रूपापरिज्ञानात्सर्वमात्मेति मन्यते ।
यस्याकाशश्शरीरं हि चाकाशो नैव वेत्तितम् ॥ १४॥
यस्य भूमिस्स्वरूपं हि तं भूमिर्नैव वेत्ति हि ।
यो मनश्चक्षुरादीनां नियन्ता परमेश्वर ॥ १५॥
यस्य भासा जगद्भाति सशक्रानलवायवः ।
भीत्याभान्ति च वान्त्येव चेतनानां सचेतनः ॥ १६॥
यस्य मायाविलसितं जगत्स्थावरजङ्गमम् ।
स मायीपरमेशानस्तेनावस्यमिदं जगत् ॥ १७॥
योऽशरीरो ह्यलिङ्गश्च यमिभिः परिदृश्यते ।
यस्य विज्ञानमात्रेण सर्वं विज्ञातमेव हि ॥ १८॥
ज्ञानमात्मा त्वहं ब्रह्म (महद्ब्रह्मा) ज्ञानं शान्तिरनुत्तमा ।
स एकः परमात्मा हि नेह नानास्ति किञ्चन ॥ १९॥
स एको ज्ञानवानीश ईशनीभिस्स ईशते ।
एक एव महारुद्रः पुरुषो विश्वतोमुखः ॥ २०॥
तमेकं जानतात्मानं त्यक्तवान्यत्तदिदं जगत् ।
यज्ज्ञानाद्धृदयग्रन्थिभेदनं जायते नृणाम् ॥ २१॥
यस्यैकत्वं हि विज्ञाय शोकं तरति मानवः ।
स एव ज्योतिषां ज्योतिः स एव तपसान्तपः ॥ २२॥
स एकस्सर्वभूतेषु बहुधा भाति मायया ।
यो जाग्रतस्वनतुर्याभिर्गूढो(र्गुहा)त्मा न प्रकाशते ॥ २३॥
यो दृश्यस्सूक्ष्मया बुध्या (बुद्ध्या) तत्प्रसादेन केवलम् ।
तपसा वेदितव्यस्स (वेदितव्यश्च) नान्यथा कर्मकोटिभिः ॥ २४॥
यो वेदादौ स्वरः प्रोक्तो वेदान्तेषु प्रतिष्ठितः ।
स ईशानोऽधिविद्यानां पारदृश्वा सनातनः ॥ २५॥
यो भूतसङ्घेसुप्तेऽपि जागर्तीशो महेश्वरः ।
यस्मात्प्राणो मनो जज्ञे स हि नात्येति किञ्चन ॥ २६॥
यो ज्योतिर्ज्योतिषां देवो विश्वात्मा विश्वतो मुखः ।
यो भूमिमत्यतिष्ठच्च यस्माद्ब्रह्माणि जज्ञिरे ॥ २७॥
यतो ब्रह्मेशविष्ण्विन्द्राः सह देवैश्च जज्ञिरे ।
यो ब्रह्म ब्रह्मविच्चापि (ब्रह्मा विष्णुरुद्रौ) चात्र ब्रह्मा समश्नुते ॥ २८॥
एष ब्रह्मैष विष्णुश्च एष देवो विराजते ।
एष भूतपतिर्दव(वो)) एष सेतुर्विधारणः ॥ २९॥
एकमेव महादेवमिन्द्रमित्रदिभिस्सुरैः ।
नामरूपगुणैश्चैव मायया मन्यते जनः ॥ ३०॥
इदं जगत्पुरा सृष्ट्वा तस्मिन्प्राविशदीश्वरः ।
व्याकुर्वन्नामरूपे तु व्यवहारीव भासते ॥ ३१॥
पुरुषोयःपरस्सूक्ष्मोभोक्ताभोज्यञ्चयस्सदा ।
योऽखिलो विश्वनेता च यस्मान्नान्यत्परायणम् ॥ ३२॥
अशरीरोऽव्ययात्मायश्चाशीर्णो(यः अशरीरी)ह्यविनाशकः ।
योमायया शरीरस्थस्तद्वीर्यैर्नै(र्णै)वलिप्यते ॥ ३३॥
भोगीव भासते देवो ह्यन्नपानादिभोगभाक् ।
यश्च सर्वेन्द्रियातीतस्सर्वेषामपि भासकः ॥ ३४॥
योऽव्यक्तोव्यक्ततामेत्य जगत्पुष्णाति लीलया ।
योऽविद्ययासंसरति विद्याच प्रमुच्यते ॥ ३५॥
यो(ऽ)नाधारोऽखिलाधारस्स्वेमहिम्निप्रतिष्ठितः ।
यंशृण्वन्तो(ऽ)पि वेदान्तैर्गुह्यं मुह्यन्ति यतयस्सुराः ॥ ३६॥
यस्त्वेनंवृणु(ण)ते देवास्तस्यैवात्माप्रकाशते ।
य आत्मा सर्वभूतस्थो जडानां विदुषामपि ॥ ३७॥
यो जगज्जन्ममरणैरशीर्यो नहि शीर्यते ।
योह्यागतैर्दुःखसङ्घैः सुखैर्वा स्पृश्यते न हि ॥ ३८॥
यस्मिन्ज्ञातेऽखिलं ज्ञातं न किञ्चिदवशिष्यते ।
यमविज्ञायविश्वेशं दुःखान्तन्नाधिगच्छति ॥ ३९॥
यो(ऽ)सङ्गःपुरुषोनित्यस्स्थाणुवन्निश्चलोऽगुणः ।
यो न जीवश्शिवश्चापि चा(अ)न्योपाधिविवर्जितः ॥ ४०॥
पञ्चकोशातिगोह्यात्मा सदानन्दघनस्सुखम् ।
एकोऽद्वयस्तृतीयश्च (एकोऽद्वितीयश्च) न वै स देवो बहुधा विभुः ॥ ४१॥
यो(ऽ)न्तिके स हि दूरस्थस्तेनावास्यमिदं सुराः ।
स भूमा परमानन्द आर्तमेठज्जगत्सुराः ॥ ४२॥
तज्जं तल्लं च तदनं जगदेतत्प्रकाशते ।
यस्तमःपारगो नित्यं मनोवाचामगोचरः ॥ ४३॥
यस्यैव शक्तिर्विविधा स्वभावाज्ज्ञानदा सुराः ।
स एष परमानन्दस्सदसत्पक्षवर्जितः ॥ ४४॥
लिङ्गहीनस्सदाऽसङ्गोयो वेदान्तैकगोचरः ।
दृश्यते त्वग्न्यया बुध्या सूक्षमया सूक्षदर्शिभिः ॥ ४५॥
मुक्तये देहि(ह) सङ्घानां सुलभो व्यक्ततां गतः ।
त्रिणेत्रो नीलकण्ठश्चोमादेहार्धविग्रहः ॥ ४६॥
क्रीडतेप्रमथाधीशो हेरम्बस्कन्दपुत्रवान् ।
सर्वावासोऽपि भगवान्कैलासाचलमास्थितः ॥ ४७॥
यस्य लिङ्गार्चनेनैव त्रैलोक्यश्रीरवाप्यते ।
यस्य प्रसादाद्विष्णुत्वं त्वया प्रापतं सुदर्शनम् ॥ ४८॥
ब्रह्मणस्सृष्टिसामर्थ्यमिन्द्रस्याप्यरिनिग्रहः ।
देवराज्यं भोगभोग्यं सर्वमैशादनुग्रहात् ॥ ४९॥
न तत्र सूर्योदेवेशो भाति चन्द्रो न चानलः ।
भीत्याभान्तिच सर्वेऽपिसोऽन्तरापुरुषोहरः ॥ ५०॥
हिरण्यबाहुरीशानो हिरण्यपतिरीश्वरः ।
कर्मदिवास्सर्व एव ब्रह्मविष्णुमहेश्वराः ॥ ५१॥
यस्याज्ञावर्तिनस्सर्वे सर्वेषाङ्कारणं शिवः ।
ब्रह्मणश्चशिरश्छिन्नं देवदेवेन लीलया ॥ ५२॥
इन्द्रस्यास्यभुजस्तम्भो येनाकारि दयालुना ।
यस्य भक्तस्य शापेन दशजन्मानि ते हरे ॥ ५३॥
सौकरं नारसिह्मं ते रूपं संशिक्षितं हरात् ।
सर्वं जानामितेविष्णो ब्रह्मन्शक्रगतव्यथाः ॥ ५४॥
यूयं हि प्रशवोऽज्ञानजृम्भिताः पशुपस्सहि ।
गच्छन्त्वद्य यथाकामं मादृक्षेनास्तिधृष्ट(षृ)ता ॥ ५५॥
भवन्तो देवतास्सर्वे त्वहंशर्वपदाश्रयः । ५६(१)
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये महेश्वरनित्यसर्वज्ञेतिव्याख्यानम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३ - जैगीषव्यसुरसंवादः । १-५६॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 3 - jaigIShavyasurasaMvAdaH . 1-56..
Notes:
Jaigīṣavya जैगीषव्य, on being requested by Viśṇu विष्णु, Indra इन्द्र et al Deva-s देवाः ; discourses about the Oneness and Supremacy of Maheśvara महेश्वर.
Shloka numbering differs amongst the referenced source texts on account of missing shlokas in one of them.
Encoded and proofread by Ruma Dewan