महेश्वरप्रोक्तं अरुणाचलेशनामावलिः
महेश्वर उवाच ।
नामानि शृणु मे ब्रह्मन्मुख्यानि द्विजसत्तम ।
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि ॥ २॥
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ।
प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ॥ ३॥
अक्षिपेयामृतेशानः स्त्रीपुम्भावप्रदायकः ।
भक्तविज्ञप्तिसन्धाता दीनबन्दिविमोचकः ॥ ४॥
मुखराङ्घ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ।
भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्त्तकः ॥ ५॥
ज्ञानसम्बन्धनाथश्च श्रीहलाहलसुन्दकः ।
आहवैश्वर्यदाता च स्मर्तृसर्वाघनाशनः ॥ ६॥
व्यत्यस्तनृत्यद्धृजधृक्सकान्तिर्नटनेश्वरः ।
सामप्रियः कलिध्वंसी वेदमूर्तिर्निरञ्जनः ॥ ७॥
जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरान्तकः ।
भक्तापराधसोढा च योगीशो भोगनायकः ॥ ८॥
बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ।
हरो गिरीश्वरो भर्गश्चन्द्ररेखावतंसकः ॥ ९॥
स्मरान्तकोंऽधकरिपुः सिद्धराजो दिगम्बरः ।
आगमप्रिय ईशानो भस्मरुद्राक्षलाञ्छनः ॥ ३.१.९.१०॥
श्रीपतिः शङ्करः स्रष्टा सर्वविद्येश्वरोऽनघः ।
गङ्गाधरः क्रतुध्वंसो विमलो नागभूषणः ॥ ११॥
अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ।
अनादिरन्तरहितः शिवकामः स्वयम्प्रभुः ॥ १२॥
सच्चिदानन्दरूपश्च सर्वात्मा जीवधारकः ।
स्त्रीसङ्गवामसुभगो विधिर्विहितसुन्दरः ॥ १३॥
ज्ञानप्रदो मुक्तिदश्च भक्तवाञ्छितदायकः ।
आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ॥ १४॥
शूली पशुपतिः शम्भुः स्वयम्भुर्गिरिशो मृडः ।
एतानि मम मुख्यानि नामान्यत्र महामुने ॥ १५॥
अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर ।
प्रदक्षिणेन मां नित्यं विशेषात्त्वं समर्चय ॥ १६॥
प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः ॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, अरुणाचलमाहात्म्ये,
पूर्वार्धे, नवमाध्यायान्तर्गतं महेश्वरप्रोक्तं अरुणाचलेश-
नामावलिः समाप्ता ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । पूर्वखण्ड । अध्याय ९/२-१५॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . pUrvakhaNDa . adhyAya 9/2-15..
Proofread by PSA Easwaran